संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ४५

कौमारिकाखण्डः - अध्यायः ४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ नारद उवाच ॥
तथा बहूदकस्थाने कथामाकर्णयाद्भुताम् ॥
यस्माद्बहूदकं कुण्डं कामरूपे यदस्ति च ॥१॥

तदस्ति चात्र संक्रांतं तस्मात्प्रोक्तं बहूदकम् ॥
कपिलेनात्र तप्त्वा च वर्षाणि सुबहून्यपि ॥२॥

स्थापितं शोभनं लिंगं कपिलश्वरसंज्ञितम् ॥
तच्च लिगं सदा पार्थ नन्दभद्र इति समृतः ॥३॥

वणिक्संपूजयामास त्रिकालं च कृतादरः ॥
सर्वधर्मविशेषज्ञः साक्षाद्धर्म इवापरः ॥४॥

नाज्ञातं तस्य किंचिच्च यद्धर्मेषु प्रकीर्त्यते ॥
सर्वेषां च सुहृन्नित्यं सर्वेषां च हिते रतः ॥५॥

कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः ॥
न भूतो न भविष्यश्च न स धर्मोऽस्ति किंचन ॥६॥

विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः ॥
अस्य धर्मसमुद्रस्य संप्रवृद्धस्य सर्वतः ॥७॥

निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय ॥
वाणिज्यं मन्यते श्रेष्ठं जीवनाय तदा स्थितः ॥८॥

परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम् ॥
मद्यवर्जं भेदवर्जं कूटवर्जं समं तथा ॥९॥

सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत् ॥
अमायया परेभ्योऽसौ गृहीत्वैव क्रयाणकम् ॥१०॥

अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम् ॥
केचिद्यज्ञं प्रशंसंति नन्दभद्रो न मन्यते ॥११॥

दोषमेनं विनिश्चित्य श्रृणु तं पांडुनन्दन ॥
लुब्धोऽनृती दांभीकश्च स्वप्रशंसापरायणः ॥१२॥

यजन्यज्ञैर्जगद्धंति स्वं चांधतमसं नयेत् ॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥१३॥

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
यद्यदा यजमानस्य ऋत्विजो द्रव्यमेव च ॥१४॥

चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि ॥
अदक्षिणे वृथा यज्ञे कृते चाप्यविधानतः ॥१५॥

पशवो लकुटैर्हन्युर्यजमानं मृतं हताः ॥
तस्माच्छुद्धैर्यवद्रव्यैर्यजमानः शुभः स्मृतः ॥१६॥

यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः ॥
श्रद्धया देवपूजा या नमस्कारः स्तुतिः शुभा ॥१७॥

नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः ॥
स एव यज्ञः प्रोक्तो वै येन तुष्यन्ति देवताः ॥१८॥

केचिच्छंसन्ति संन्यासं नन्दभद्रो न मन्यते ॥
यो हि संन्यस्य विषयान्मनसा गृह्यते पुनः ॥१९॥

उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति ॥
संन्यासस्य तु यत्सारं तत्तेनावृतमुत्तमम् ॥२०॥

कस्यचिन्नैव कर्माणि शपते वा प्रशंसति ॥
नानामार्गस्थिताँल्लोकांश्चन्द्रवल्लीयते क्षितौ ॥२१॥

न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते ॥
समाश्मकांचनो धीरस्तुल्यनिंदात्मसंस्तुतिः ॥२२॥

अभयः सर्वभूतेभ्यो यथांधबधिराकृतिः ॥
न कर्मणां फलाकांक्षा शिवस्याराधनं हि तत् ॥२३॥

कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन् ॥२४॥

विविच्य नंदभद्रस्तत्सारं मोक्षेषु जगृहे ॥
कृषिं केचित्प्रशंसंति नंदभद्रो न मन्यते ॥२५॥

यस्यां छिंदंति वृषणा वृषाणां चैव नासिकाम् ॥
कर्षयंति महाभारान्बध्नंति दमयंति च ॥२६॥

बहुदंशमयान्देशान्नयंति बहुकर्दमान् ॥
वाहसंपीडिता धुर्याः सीदंत्यविधिना परे ॥२७॥

मन्यंते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः ॥
अघ्न्या इति गवां नाम श्रुतौ ताः पीडयेत्कथम् ॥२८॥

भूमिं भूमिशयांश्चैव हंति काष्ठमयोमुखम् ॥
पंचेंद्रियेषु जीवेषु सर्वं वसति दैवतम् ॥२९॥

आदित्यश्चंद्रमा वायुः प्रभूत्यैव च तांस्तु यः ॥
विक्रीणाति सुमूढस्य तस्य का नु विचारणा ॥३०॥

अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट् ॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतान्न सिध्यति ॥३१॥

एवंविधसहस्रैश्च युता दोषैः कृषिः सदा ॥
अष्टागवं स्याद्धि हलं त्रिंशद्भागं त्यजेत्कृषेः ॥३२॥

धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः ॥
सारमेतत्कृषेस्तेन नंदभद्रेण चादृतम् ॥३३॥

विसाधितव्यान्यन्नानि स्वशक्त्या देवपितृषु ॥
मनुष्य द्विजभूतेषु नियुज्याश्नीत सर्वदा ॥३४॥

केचिच्छंसंति चैश्वर्यं नंदभद्रो न मन्यते ॥
मानुषा मानुषानेव दासभावेन भुंजते ॥३५॥

वधबंधनिरोधेन पीडयंति दिवानिशम् ॥
देहं किमेतद्धातुः स्वं मातुर्वा जनकस्य वा ॥३६॥

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥
इति संचिंत्य व्यहरन्नमरा इव ईश्वराः ॥३७॥

ऐश्वर्यमदपापिष्ठा महामद्यमदादयः ॥
ऐश्वर्यमदमत्तो हि ना पतित्वा हि माद्यति ॥३८॥

आत्मवत्सर्वभृत्येषु श्रिया नैव च माद्यति ॥३९॥

आत्मप्रत्ययवान्देही क्वेश्वरश्चेदृशोऽस्ति हि ॥
ऐश्वर्यस्यापि सारं स जग्राहैतन्निशामय ॥४०॥

स्वशक्त्या सर्व भूतेषु यदसौ न पराङ्मुखः ॥
तीर्थायेके प्रशंसंति नंदभद्रो न मन्यते ॥४१॥

श्रमेण संकरात्तापशीतवातक्षुधा तृषा ॥
क्रोधेन धर्मगेहस्य नापि नाशमवाप्नुयात् ॥४२॥

सौख्येन वा धनस्यापि श्रद्धया स्वल्पगोर्थवान् ॥
समर्थो हि महत्पुण्यं शक्त आप्तुं क्व वास्ति सः ॥४३॥

सदा शुचिर्देवयाजी तीर्थसारं गृहेगृह ॥
नापः पुनंति पापानि न शैला न महाश्रमाः ॥४४॥

आत्मा पुनाति पापानि यदि पापान्निवर्तते ॥
एवमेव समाचारं प्रादुर्भूतं ततस्ततः ॥४५॥

एकीकृत्य सदा धीमान्नंदभद्रः समास्थितः ॥
तस्यैवं वर्ततः साधोः स्पृहयंत्यपि देवताः ॥४६॥

वासवप्रमुखाः सर्वे विस्मयं च परं ययुः ॥
अत्रैव स्थानके चापि शूद्रोऽभूत्प्रतिवेश्मकः ॥४७॥

स नंदभद्रं धर्मिष्ठं पुनः पुनरसूयत ॥
नास्तिकः स दुराचारः सत्यव्रत इति श्रुतः ॥४८॥

स सदा नंदभद्रस्य विलोकयति चांतरम् ॥
छिद्रं चेदस्य पश्यामि ततो धर्मान्निवर्तये ॥४९॥

स्वभाव एव क्रूराणां नास्तिकानां दुरात्मनाम् ॥
आत्मानं पातयंत्येव पातयंत्यपरं च यत् ॥५०॥

ततस्त्वेवं वर्ततोऽस्य नंदभद्रस्य धीमतः ॥
एकोऽभूत्तनयः कष्टाद्वार्धिके सोऽप्यनश्यत ॥५१॥

तच्च दैवकृतं मत्वा न शुशोच महामतिः ॥
देवो वा मानवो वापि को हि देवाद्विमुच्यते ॥५२॥

ततोऽस्य सुप्रिया भार्या सर्वैः साध्वीगुणैर्युता ॥
गृहधर्मस्य मूर्तिर्या साक्षादिव अरुंधती ॥५३॥

विनाशमागता पार्थ कनकानाम नामतः ॥
ततो यतेंद्रियोऽप्येष गृहधर्मविनाशतः ॥५४॥

शुशोच हा कष्टमिति पापोहमिति चासकृत् ॥
तत्तस्य चांतरं दृष्ट्वाऽहृष्यत्यव्रतश्चिरात् ॥५५॥

उपाव्रज्य च हा कष्टं ब्रुवंस्तं नंदभद्रकम् ॥
दधिकर्ण इवासाद्य नंदभद्रमुवाच सः ॥५६॥

हा नंदभद्र यद्येवं तवाप्येवंविधं फलम् ॥
एतेन मन्ये मनसि धर्मोप्येष वृथैव यत् ॥५७॥

इत्यादि बहुधा प्रोच्य तत्तद्वाक्यं ततस्ततः ॥
सत्यव्रतस्ततः प्राह नंदभद्रं कृपान्वितः ॥५८॥

नंदभद्र सदा तुभ्यं वक्तुकामोस्मि किंचन ॥
प्रस्तावस्याप्यभावाच्च नोदितं च मया क्वचित् ॥५९॥

अप्रस्तावं ब्रुवन्वाक्यं बृहस्पतिरपिध्रुवम् ॥
लभते बुद्ध्यवज्ञानमवमानं च हीनवत् ॥६०॥

 ॥नन्दभद्र उवाच ॥
ब्रूहिब्रूहि न मे किंचित्साधु गोप्यं प्रियं परम् ॥
वचोभिः शुद्धसत्त्वानां न मोक्षोऽप्युपमीयते ॥६१॥

 ॥सत्यव्रत उवाच ॥
नवभिर्नवभिश्चैव विमुक्तं वाग्विदूषणैः ॥
नवभिर्बुद्धिदोषैश्च वाक्यं वक्ष्याम्यदोषवत् ॥६२॥

सौक्ष्म्यं संख्याक्रमश्चापि निर्णयः सप्रयोजनः ॥
पंचैतान्यर्थजातानि यत्र तद्वाक्यमुच्यते ॥६३॥

धर्ममर्थं च कामं च मोक्षं चोद्दिश्य चोच्यते ॥
प्रयोजनमिति प्रोक्तं प्रथमं वाक्यलक्षणम् ॥६४॥

धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः ॥
इदं तदिति वाक्यांते प्रोच्यते स विनिर्णयः ॥६५॥

इदं पूर्वमिदं पश्चाद्वक्तव्यं यत्क्रमेण हि ॥
क्रमयोगं तमप्याहुर्वाक्यतत्तविदो बुधाः ॥६६॥

दोषाणां च गुणानां च प्रमाणं प्रविभागतः ॥
उभयार्थमपि प्रेक्ष्य सा संख्येत्युपधार्यताम् ॥६७॥

वाक्यज्ञेयेषु भिन्नेषु यत्राभेदः प्रदृश्यते ॥
तत्रातिशयहेतुत्वं तत्सौक्ष्म्यमिति निर्दिशेत् ॥६८॥

इति वाक्यगुणानां च वाग्दोषान्द्विनव श्रृणु ॥
अपेतार्थमभिन्नार्थमपवृत्तं तथाधिकम् ॥६९॥

अश्लक्ष्णं चापि संदिग्धं पदांते गुरु चाक्षरम् ॥
पराङ्मुखमुखं यच्च अनृतं चाप्यसंस्कृतम् ॥७०॥

विरुद्धं यत्त्रिवर्गेण न्यूनं कष्टातिशब्दकम् ॥
व्युत्क्रमाभिहृतं यच् सशेषं चाप्यहेतुकम् ॥७१॥

निष्कारणं च वाग्दोषान्बुद्धिजाञ्छृणु त्वं च यान् ॥
कामात्क्रोधाद्भयाच्चैव लोभाद्दैन्यादनार्यकात् ॥७२॥

हीनानुक्रोशतो मानान्न च वक्ष्यामि किंचन ॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं भवेत् ॥७३॥

सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते ॥७४॥

श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति ॥
अथ यः स्वप्रियं ब्रूयाच्छ्रोतुर्वोत्सृज्ययदृतम् ॥७५॥

विशंका जायते तस्मिन्वाक्यं तदपि दोषवत् ॥
तस्माद्यः स्वप्रियं त्यक्त्वा श्रोतुश्चाप्यथ यत्प्रियम् ॥७६॥

सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि ॥
मिथ्यावादाञ्छास्त्रजालसंभवान्यद्विहाय च ॥७७॥

सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम् ॥
सत्यं ते संप्रवक्ष्यामि मंतुमर्हसि तत्तथा ॥७८॥

यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः ॥
तदाप्रभृति किंचिच्च न हि पश्यामि शोभनम् ॥७९॥

एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत ॥
कूटानां कर्मणां साधो फलमेवंविधं भवेत् ॥८०॥

क्व देवाः संति मिथ्यैतद्दृश्यंते चेद्भवंत्यपि ॥
सर्वा च कूटविप्राणां द्रव्यायैषा विकल्पना ॥८१॥

पितॄनुद्दिश्य यच्छंति मम हासः प्रजायते ॥
अन्नस्योपद्रवं यच्च मृतो हि किमशिष्यत ॥८२॥

यत्त्विदं बहुधा मूढा वर्णयंति द्विजाधमाः ॥
विश्वनिर्माणमखिलं तथापि श्रृणु सत्यतः ॥८३॥

उत्पत्तिश्चापि भंगश्च विश्वस्यैतद्द्वयं मृषा ॥
एवमेव हि सर्वं च सदिदं वर्तते जगत् ॥८४॥

स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमंत्यमी ॥
स्वभावतो वायवो वांति नित्यं स्वभावतो वर्षति चांबुदोऽयम् ॥८५॥

स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम् ॥
स्वभावतः संस्थिता मेदिनी च स्वभावतः सरितः संस्रवंति ॥८६॥

स्वभावतः पर्वता भांति नित्यं स्वभावतो वारिधिरेष संस्थितः ॥
स्वभावतो गर्भिणी संप्रसूते स्वभावतोऽमी बहवश्च जीवाः ॥८७॥

यथा स्वभावेन भवंति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः ॥
तथा स्वभावेन हि सर्वमेतत्प्रकाशते कोऽपि कर्ता न दृश्यः ॥८८॥

तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत् ॥
मानुष्यमपि यद्धूर्ता वदंत्यग्र्यं श्रृणुष्वतत् ॥८९॥

मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत् ॥
शोकस्थानसहस्राणि मनुष्यस्य क्षणेक्षणे ॥९०॥

मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते ॥
पशवः पक्षिणः कीटाः कृमयश्च यथासुखम् ॥९१॥

अबद्धा विहरंत्येते योनिरेषां सुदुर्लभा ॥
निश्चिंताः स्थावरा ह्येते सौख्यमेषां महद्भुवि ॥९२॥

बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः ॥
स्वभावमेव जानीहि पुण्यापुण्यादिकल्पना ॥९३॥

यदेके स्थावराः कीटाः पतंगा मानुषादिकाः ॥
तस्मान्मित्या परित्यज्य नंदभद्र यथासुखम् ॥
पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि ॥९४॥

॥ नारद उवाच ॥
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमंजसैः ॥९५॥

सत्यव्रतस्य नाकम्पन्नंदभद्रो महामनाः ॥
प्रहसन्निव तं प्राह स्वक्षोभ्यः सागरो यथा ॥९६॥

यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः ॥
तन्मिथ्या दुःखजालानि पश्यामः पापिनामपि ॥९७॥

वधबंधपरिक्लेशाः पुत्रदारादि पंचता ॥
पापिनामपि दृश्यंते तस्माद्धर्मो गुरुर्मतः ॥९८॥

अयं साधुरहो कष्टं कष्टमस्य महाजनाः ॥
साधोर्वदंत्येतदपि पापिनां दुर्लभं त्विदम् ॥९९॥

दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे ॥
भवानपि बिभेत्यस्माद्द्वेष्टि कुप्यति तद्वृथा ॥१००॥

यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः ॥
तद्बालभाषितं तुभ्यं किं राजानं विना प्रजाः ॥१०१॥

यच्च ब्रवीषि पाषाणं मिथ्या लिंगं समर्चसि ॥
तद्भवाँल्लिंगमाहात्म्यं वेत्ति नांधो यथा रविम् ॥१०२॥

ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च ॥१०३॥

स्वनामकानि चिह्नानि तेषां लिंगानि संति च ॥
एते किं त्वभवत्मूर्खास्त्वं तु सत्यव्रतः सुधीः ॥१०४॥

प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम् ॥
प्राप्तवान्परमां सिद्धिं ससर्जेमाः प्रजाः प्रभुः ॥१०५॥

विष्णुनापि निहत्याजौ रावणं पयसांनिधेः ॥
तीरे रामेश्वरं लिंगं स्थापितं चास्ति किं मुधा ॥१०६॥

वृत्रं हत्वा पुरा शक्रो महेंद्रे स्थाप्य शंकरम् ॥
लिंगं विमुक्तपापोऽथ त्रिदिवेद्यापि मोदते ॥१०७॥

स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधौ ॥१०८॥

काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ ॥
नैमिषे वायुवरुणौ स्थाप्य लिंगं प्रमोदिताः ॥१०९॥

अस्मिन्नेव स्तंभतीर्थे कुमारेणं गुहो विभुः ॥
लिंगं संस्थापयामास सर्वपापहरं न किम् ॥११०॥

एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा ॥
संस्तापितानि लिंगानि तन्न संख्यातुमुत्सहे ॥१११॥

पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः ॥
पातालवासिनस्तृप्ता जायंते लिंगपूजया ॥११२॥

यच्च ब्रवीषि गीर्वाणा न संति सन्ति चेत्कुतः ॥
कुत्रापि नैव दृश्यंते तेन मे विस्मयो महान् ॥११३॥

रंकवत्किं स्म ते देवा याचंतां त्वां कुलत्थवत् ॥
यमिच्छिसि महाप्राज्ञ साधको हि गुरुस्तव ॥११४॥

स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते ॥
भोजनादि कथं सिध्येद्वद कर्तारमंतरा ॥११५॥

बदरीमंतरेणापि दृश्यंते कण्टका न हि ॥
तस्मात्कस्यास्ति निर्माणं यस्य यावत्तथैव तत् ॥११६॥

यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी ॥
त्वदृते नेदमुक्तं च केनापि श्रुतमेव वा ॥११७॥

तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम् ॥
सर्वेंद्रिययुताः श्रेष्ठाः कुतो धन्या न मानुषाः ॥११८॥

सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम् ॥
अत्यनर्थे न भीः कार्या कामोयं भविताचिरात् ॥११९॥

आदावाडंबरेणैव ध्रुवतोऽज्ञानमेव मे ॥
इत्थं निःसारता व्यक्तमादावाडंबारात्तु यत् ॥१२०॥

मायाविनां हि ब्रुवतां वाक्यं चांडबरावृतम् ॥
कुनाणकमिवोद्दीप्तं परीक्षेयं सदा सताम् ॥१२१॥

आदौ मध्ये तथा चांते येषां वाक्यमदोषवत् ॥
कषदाहैः स्वर्णमिव च्छेदेऽपि स्याच्छुभं शुभम् ॥१२२॥

त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः ॥
त्वद्दोषो नायमस्माकं तद्वचः श्रृणुमो हि ये ॥१२३॥

नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम् ॥
मोहयंति परं यच्च दोषो नैषपरस्य तु ॥१२४॥

आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा ॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥१२५॥

मोहजालस्य यो योनिर्मूढैरिह समागमः ॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥१२६॥

तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः ॥
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥१२७॥

न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः ॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च ॥१२८॥

तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते ॥
असतां दर्शनस्पर्शसंजल्पासनभोजनैः ॥१२९॥

धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः ॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ॥१३०॥

मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः ॥
इति धर्मं स्मरन्नाहं संगमार्थी पुनस्तव ॥
यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः ॥१३१॥

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ॥
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥१३२॥

इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव ॥
गृहाद्विनिःसृत्य जगाम पुण्यं बहूदकं भट्टरवेस्तु कुंडम् ॥१३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कपिलेश्वरतीर्थमाहात्म्ये नंदभद्रवणिग्वृत्तान्तवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP