कौमारिकाखण्डः - अध्यायः ३४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ततस्तृतीयलिंगस्य चिकीर्षु स्थापनं गुहम् ॥
ब्रह्मा प्राहास्य प्रीत्यर्थं स्वयमन्यं प्रकुर्महे ॥१॥
यद्यप्येतच्छुभं लिंगं सर्वदोषविवर्जितम् ॥
तथाप्यन्यत्करिष्येऽहं सर्वश्रेष्ठतमं हि यत् ॥२॥
ततो ब्रह्मा सर्वदोषविमुक्तं निर्ममे स्वयम् ॥
दृष्टिकांतं मनःकांतं फलकांतं सुलिंगकम् ॥३॥
तत्र स्कंदस्य प्रीत्यर्थं सर्वदेवैर्निनिर्मितम् ॥
सरः सुरम्यं तीर्थानि तत्र ते निदधुस्तथा ॥४॥
गंगादिकानि तीर्थानि यानि प्रोचुर्दिवौकसः ॥
इदं यावत्सरस्तावत्सर्वैरत्र समुष्यताम् ॥५॥
एवमस्त्विति तान्यूचुः प्रीत्यर्थं शरजन्मनः ॥
ततो ब्रह्मा स्वयं तत्र रौद्रैर्मंत्रैर्हुताशनम् ॥
गाधिपुत्रादिभिर्विप्रैस्तर्पयामास संयुतः ॥६॥
ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने ॥
प्रतिष्ठां चक्रिरे लिंगे चिरं विप्रमुका द्विजाः ॥७॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥
ततः स्कंदः प्रीतियुक्तः स्नात्वा सरसि शोभने ॥८॥
सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः ॥
विविधैः पूजयामास पुष्पैर्मंत्रैश्च पंचभिः ॥९॥
पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः ॥
जंगमा जंगमैः सार्धं स्वयं जग्राह पूजनम् ॥१०॥
ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः ॥
केन केनोपहारेण त्वयि दत्तेन किं फलम् ॥११॥
॥श्रीमहादेव उवाच ॥
मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत् ॥
मल्लोके वसतेऽसौ च वावच्चंद्रदिवाकरौ ॥१२॥
मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः ॥
तावंत्येव च जन्मानि यशसासौ विराजते ॥१३॥
ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया ॥
विधाय चित्रविन्यास गंधर्वैः सह मोदते ॥१४॥
रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते ॥
प्राप्नोति देहं हार्दं च सुरसद्मानुलेपनात् ॥१५॥
पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः ॥
शंभोः शिरसि दत्त्वार्घ्य दिवि वर्षायुतं वसेत् ॥१६॥
घृतेन हतपापः स्यान्मधुना सुभगो भवेत् ॥
विरोगो दधिदुग्धाभ्यां लिंगं संस्नाप्य जायते ॥१७॥
पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम् ॥
मासं संस्नाप्य वै भक्त्या पिष्टाद्यैश्च विरूक्षयेत् ॥१८॥
कपिलापंचगव्येन सुरसिंधुजलेन वा ॥
मां च संस्नाप्य चाभ्यच्च मल्लोकमधिगच्छति ॥१९॥
कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम् ॥
तीर्थेभ्यश्च जलं दर्शे महीसागरसंभवम् ॥२०॥
कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक् ॥
मृत्ताम्ररौप्यसौवर्णैः क्रमाच्छतगुणं फलम् ॥२१॥
श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः ॥
मां च तैश्च समालभ्य स्याच्छ्रीमान्सुभगः सुखी ॥२२॥
प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः ॥
धूपानेतान्नरो दत्त्वा सुखं स्वर्गमवाप्नुयात् ॥२३॥
दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च ॥
नैवेद्यस्य प्रदानेन नरो मृष्टाशनो भवेत् ॥२४॥
पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम् ॥
फलमाप्नोति पुरुषः सत्यसंधश्च जायते ॥२५॥
अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि ॥
लिंगं प्रपूरणं कृत्वा लक्ष्मेकं वसेद्दिवि ॥२६॥
यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत् ॥
पुष्पकेण विमानेन दिवि संक्रीडते चिरम् ॥२७॥
भूषणांबरदानेन नरो भवति भोगभाक् ॥
सच्चामरप्रदानेन जायते पार्थिवो नरः ॥२८॥
रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते ॥
गीतं वाद्यं प्रनृत्यं च कृत्वा शुद्धो व्रजेत्स माम् ॥२९॥
शंखघंटाप्रदानेन विद्वान्भवति शब्दवान् ॥
विधाय रथयात्रां च चिरं शोकैः प्रमुच्यते ॥३०॥
नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले ॥
वाचयंश्चाग्रतः शास्त्रं मम ज्ञानी प्रजायते ॥३१॥
विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः ॥
गोदानफलमाप्नोति निर्माल्यस्फेटनान्मम ॥३२॥
आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते ॥
कृत्वा शीतलिकां तापैर्मुच्यते दोष संभवैः ॥३३॥
नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ ॥
फलं शतगुणं प्राप्य इह चामुत्र मोदते ॥३४॥
प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया ॥
शतं यथाप्रोक्तविधेरपराधानहं क्षमे ॥३५॥
एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति ॥
ये मां प्रपूजयिष्यंति कुमारेश्वर संस्थितम् ॥३६॥
वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः ॥३७॥
गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः ॥३८॥
श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः ॥
विस्मितः प्रणिपत्यैनं तुष्टाव गिरिजापतिम् ॥३९॥
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ॥
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥४०॥
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय ॥
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायगहनाश्रयाय ॥४१॥
नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय ॥
नमोस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय ॥४२॥
नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय ॥
नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय ॥४३॥
नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे ॥
नमोऽस्तु कर्मप्रसावाय धात्रे नमः सदा ते भगवन्सुकर्त्रे ॥४४॥
अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम् ॥
अमेयमानाय नमोस्तु तुभ्यं वृषेंद्रयानाय नमोऽस्तु तुभ्यम् ॥४५॥
नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय ॥
चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय ॥४६॥
ममेश भूतेश महेश्वरोसि कामेश वागीश बलेश धीश ॥
क्रोधेश मोहेश परापरेश नमोस्तु मोक्षेश गुहशयेश ॥४७॥
इति संस्तूय वरदं शूलपाणिमुमापतिम् ॥
प्रणिपत्य उमापुत्रो नमोनम उवाच ह ॥४८॥
एवं भक्तिपराक्रांतमात्मयोग्यं स्तवं शिवः ॥
अभिनन्द्य चिरं कालमिदं वचनमब्रवीत् ॥४९॥
त्वया दुःखं न संचिंत्यं मम भक्तवधात्मकम् ॥
कर्मणानेन श्लाघ्योऽसि मुनीनामपि पुत्रक ॥५०॥
ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् ॥
स्तोष्यंति परया भक्त्या श्रुणु तेषां च यत्फलम् ॥५१॥
न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् ॥
भुक्त्वा भोगान्दुर्लभांश्च मम यास्यंति सद्म ते ॥५२॥
तथान्यानपि दास्यामि वरान्परमदुर्लभान् ॥
भक्त्या तवातितुष्टोऽहं प्रीत्यर्थं तव पुत्रक ॥५३॥
महीसा गरकूले तु ये मां स्तोष्यंति पूजया ॥
तेषां दतक्षयं सर्वं वैशाख्यां दानपूजनम् ॥५४॥
सरस्यत्र च ये स्नानं प्रकरिष्यंति मानवाः ॥
सर्वतीर्थफला वाप्तिर्वैशाख्यां प्रभविष्यति ॥५५॥
कुमारेशं तु मां भक्त्या महीसागरसंगमे ॥
स्नात्वा संपूजयेन्नित्यं तस्य जातिस्मृतिर्भवेत् ॥५६॥
जातिस्मृतिरियं पुत्र यस्यां जातौ प्रजायते ॥
स्मरतेऽस्याः प्रकर्तव्यं श्रेयोरूपं सुदुर्लभम् ॥५७॥
यस्मिन्काले ह्यनावृष्टिर्जायते कृत्तिकासुत ॥
स्नापयेद्विधिवन्मां च कलशैर्विविधैः शुभैः ॥५८॥
एकरात्रं त्रिरात्रं वा पञ्चरात्रं च सप्त वा ॥
स्नापयेद्गंधतोयेन कुंकुमेन विलेपयेत् ॥५९॥
करवीरै रक्तपुष्पैर्जपापुष्पैस्तथैव च ॥
अर्चयेत्पुष्पमालाभिः परिधायारुणवाससी ॥६०॥
भोजयेद्ब्रह्णांश्चैव तापसाञ्छंसिवव्रतान् ॥
लक्षहोमं प्रकुर्वीत शिवहोमं ग्रहादिकम् ॥६१॥
भूमिदानं ततः कुर्यात्तत्तो दद्याद्गवाह्निकम् ॥
आघोषयेच्छिवां शांतिं रुद्रजाप्यं हि कारयेत् ॥६२॥
अनेनैव विधानेन कृतेन तु द्विजोत्तमैः ॥
आगर्भितास्तदा मेघा वर्षते नात्र संशयः ॥६३॥
विविधैः पूर्यते धान्यः शाद्वलैश्च वसुन्धरा ॥
आरोग्यं हि भवेच्चैव जने गोपकुले तथा ॥६४॥
धर्मयुक्तो भवेद्राजा परचक्रैर्न पीड्यते ॥
गृतेन स्नापयेन्मां च अर्कक्रांतौ नरोऽत्र यः ॥६५॥
कन्यादान फलं तस्य नात्र कार्या विचारणा ॥
क्षीरेण स्नापयेद्देवं तथा पंचामृतेन यः ॥६६॥
अग्निष्टोमस्य यज्ञस्य फलं तस्योपजायते ॥
कुमारेश्वरतीर्थेयः प्राणत्यागं करोति हि ॥६७॥
रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् ॥
अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः ॥६८॥
पौर्णमास्याममावास्यां संक्रांतौ वैधृते तथा ॥
कुमारेशं नरः स्नात्वा महीसागरसंगमे ॥६९॥
भक्त्या योभ्यर्चयेन्मां च तस्य पुण्यफलं श्रृणु ॥
यन्महीतलतीर्थेषु स्नाने स्यात्तु महत्फलम् ॥७०॥
यच्चर्चितेषु लिंगेषु सर्वेषु स्यात्फलं च तत् ॥
आरोग्यं पुत्रलाभं च धनलाभं सुखंसुतम् ॥७१॥
निश्चितं लभते मर्त्यः कुमारेश्वरसेवया ॥
ब्रह्मचारी शुचिर्भूत्वा यस्तिष्ठेदत्र तापसः ॥७२॥
परं पाशुपतं योगं प्राप्य याति लयं मयि ॥
पापात्मनां च मर्त्यानां सद्योऽस्मि फलदर्शकः ॥७३॥
दिव्येनाष्टविधेनात्र कोशः साधारणोऽत्र च ॥
अघोराद्यैः पंचमंत्रैः स्नाप्य लिंगं महोज्जवलम् ॥७४॥
अघोरेणैव तत्तोयं दद्याद्दिव्यस्य कारणे ॥
पिबेदेतदुदीर्या प्रसृतित्रयमेव च ॥७५॥
यदि धर्मस्तथा सत्यमीश्वरोऽत्र जगत्त्रये ॥
कोशपानात्फलं सद्यो द्रक्ष्याम्यस्मि शुभा शुभम् ॥७६॥
यास्ये चेति कुलं हन्याद्गमने च कुटुम्बकम् ॥
दर्शने च शुभं पाने हन्याद्देहं च मिथ्यया ॥७७॥
त्रिभिर्दिनैस्त्रिभिः पक्षैस्त्रिभिर्मासैस्त्रिभिः समैः ॥
अत्युग्रपुण्यपापानां मानेन फलमश्नुते ॥७८॥
एते वरामया लिंगे दत्तात्रं स्थापिते त्वया ॥
तव प्रीत्यभिवृद्ध्यर्थं ब्रूहि भूयोऽप्युमात्मज ॥७९॥
॥स्कन्द उवाच ॥
कृतकृत्यो वरैर्दत्तैस्त्वया चैतैर्महेश्वर ॥
नमोनमो नमस्तेस्तु नात्र त्याज्यं त्वया विभो ॥८०॥
एवं प्रणम्य देवं स मातरं प्रणतोऽब्रवीत् ॥
त्वयापि मातर्नैवात्र त्याज्यं मम प्रियेप्सया ॥८१॥
त्वामप्यत्र स्थापयिष्ये वरदा भव पर्वति ॥८२॥
॥श्रीदेव्युवाच ॥
यत्र शर्वः स्वभावेन तत्र तिष्ठाम्यहं सुत ॥८३॥
तव भक्त्या विशेषेण स्थास्ये स्त्रीणां वरप्रदा ॥
युद्धेषु तवकर्माणि रुद्रभक्तेषु ते कृपाम् ॥८४॥
पश्यंति पुत्रिणां मुख्या प्रीणिता च भृशं त्वया ॥
गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा ॥८५॥
सुतो यदा रुद्रभक्तः सानंदं सद्भिरीर्यते ॥
भव तस्मात्प्रियार्थाय तिष्ठाम्यत्र षडानन ॥८६॥
स्त्रीभिराराधिता दास्ये सौभाग्यं सुपतिं सुतान् ॥
चैत्रे चापि तृतीयायां स्नात्वा शीतेन वारिणा ॥८७॥
अर्चयिष्यंति मां याश्च पुष्पैर्धूपैर्विलेपनैः ॥
दास्यामि चाष्टसौभाग्यं या नारी भक्तितत्परा ॥८८॥
पितरौ श्वशुरौ पुत्रान्पतिं सौभाग्यसंपदः ॥
कुंकुमं पुष्पश्रीखंडं तांबूलांजनमिक्षवः ॥८९॥
सप्तमं लवणं प्रोक्तमष्टमं च सुजीरकम् ॥
तोलयेत्तुलया वापि सांघ्रिश्च तुलिता भवेत् ॥९०॥
सुवर्मेनाथ सौगन्ध्यद्रव्यैः शुभफलैरपि ॥
भुंक्ते वा लवणं पश्चान्नासौ वै विधवा भवेत् ॥९१॥
माघे वा कार्तिके वापि चैत्रे स्नात्वार्चयेत् माम् ॥
दौर्भाग्यदुःखदारिद्र्यैर्न सा संयोगमाप्नुयात् ॥९२॥
श्रुत्वेति गिरिजावाचं सानंदः पार्वतीसुतः ॥
स्थापयित्वा गिरिसुतां कपर्दिनमथाब्रवीत् ॥९३॥
पुष्पैर्धूपैर्मोदकैश्च पूर्वमभ्यर्च्य त्वां प्रभो ॥
पुजयंति कुमारेशं तेषां विघ्नहरो भव ॥९४॥
॥कपर्द्युवाच ॥
भ्रातस्त्वया स्थापितेऽस्मिँल्लिंगे भक्ताश्च ये नराः ॥
न तेषां मम विघ्नानि मम वागनुगामिनी ॥९५॥
एवमुक्ते विघ्नराज्ञा प्रतीतेऽस्थापयच्च तम् ॥
तस्मादसौ सदाभ्यर्च्यश्चतुर्थ्यां च विशेषतः ॥९६॥
एवं स्थाप्य कुमारेशं लब्ध्वा चैतान्वराञ्छिवात् ॥
मनसा कृतकृत्यं चात्मानं मेने षडाननः ॥९७॥
तस्थावंशेन तत्रैव कुमारेश्वरसंनिधौ ॥
अत्र स्थितं कुमारं ये पश्यन्ति स्वामियात्रिमः ॥९८॥
सफला स्वामियात्रा च तेषां भवति भारत ॥
कार्तिक्यां च विशेषेण कार्तिकेयं समर्चयेत् ॥९९॥
यत्फलं स्वामियात्रायां तत्फलं समावाप्नुयात् ॥
एवंविधमिदं पार्थ महीसागरसंगमम् ॥१००॥
निमित्तीकृत्य चात्मानं साध्वर्थे लिंगमर्चितम् ॥
रोगाभिभूतो रोगैर्वा नाम्नामष्टोत्तरं शतम् ॥१०१॥
जप्त्वा शुचिर्ब्रह्मचारी मासं मुच्येत पातकात् ॥
एतदाराध्य संजाता रजिरामादयः पुरा ॥१०२॥
शतसंख्याबलं राज्यं रुद्रलोक च भेजिरे ॥
जामदग्न्यस्त्विदं लिंगमाराध्य च समायुतम् ॥१०३॥
लेभे कुठारमुज्जह्ने येनार्जुनभुजान्युधि ॥
अग्रतो देवदेवस्य ज्ञात्वा तीर्थे महागुणान् ॥१०४॥
रामेश्वरमिति ख्यातं स्थापितं लिंगमुत्तमम् ॥
तच्च योऽभ्यर्चयेद्भक्त्या रुद्रलोकं स गच्छति ॥१०५॥
प्रीतः स्यात्तस्य रामश्च कुमारेशश्च फाल्गुन ॥
इति संक्षेपतः प्रोक्तं कुमारेशस्य वर्णनम् ॥१०६॥
कुमारेशस्य माहात्म्यं कीर्तयेद्यस्तदग्रतः ॥
ये च श्रृण्वंत्यनुदिनं रुद्रलोके वसंति ते ॥१०७॥
अस्य लिंगस्य माहात्म्यं श्राद्धकाले तु यः पठेत् ॥
पितॄणामक्षयं जायते नात्र संशयः ॥१०८॥
अस्य लिंगस्य माहात्म्यं गुर्विणीं श्रावयेद्यदि ॥
गुणवाञ्जायते पुत्रः कन्या चापि पतिव्रता ॥१०९॥
एतत्पुण्यं पापहरं धर्म्यं चाह्लादकारकम् ॥
पठतां चापि सर्वाभीष्टफल प्रदम् ॥११०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशस्थापनपूर्वकमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : July 23, 2024
TOP