संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|माहेश्वरखण्ड|कौमारिकाखण्डः|
अध्यायः ५१

कौमारिकाखण्डः - अध्यायः ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ अतिथिरुवाच
यदेतत्परलोकस्य स्वरूपं व्याहृतं त्वया ॥
आगमं समुपाश्रित्य तत्तथैव न संशयः ॥१॥
किंत्वत्र नास्तिकाः पापाः सन्दिह्यन्तेऽल्पचेतनाः ॥
तेषां निःसंशयकृते वद कर्मफलं हि यत् ॥२॥
इहैव कस्य कस्यैव कर्मणः पापकस्य च ॥
प्रभावात्कीदृशो जायेत्कमठैतद्वदास्ति चेत् ॥३॥
 ॥ कमठ उवाच
सर्वमेतत्प्रवक्ष्यामि स्थिरो भूत्वा शृणुष्व तत् ॥
यथा मम गुरुः प्राह यन्मे चेतसि संस्थितम् ॥४॥
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदंतकः ॥
सुवर्णचौरः कुनखी दुश्चर्मा गुरुतल्पगः ॥५॥
संसर्गी सर्वरोगी स्यात्पंचपातकिनस्त्वमी ॥
निंदामाकर्ण्य साधूनां बधिरः संप्रजायते ॥६॥
स्वयं प्रकीर्तयेच्चापि मूकः पापोऽभिजायते ॥
आज्ञालोपी गुरूणां च अपस्मारी भवेन्नरः ॥७॥
अवज्ञाकारकस्तेषां कृमिरेवाभिजायते ॥
उपेक्षतः पूज्यकार्यं दुष्प्रज्ञत्वं च जायते ॥८॥
चौर्याय साधुद्रव्याणां दद्याद्यावत्पदानि च ॥
तावद्वर्षाणि पंगुत्वं स प्राप्नोति नराधमः ॥९॥
दत्त्वा हरति तद्भूयो जायते कृकलासकः ॥
कुपितानप्रसाद्यैव पूज्यान्स्याच्छीर्षरोगवान् ॥१०॥
रजस्वलामभिगच्छंश्च चंडालः संप्रजायते ॥
वस्त्रापहारी चित्री स्यात्कृष्णकुष्ठी तथाग्निदः ॥११॥
दर्दुरो रूप्यहारी स्यात्कूटसाक्षी मुखारुजः ॥
परदारांश्च कामेन द्रष्टा स्यादक्षिरोगवान् ॥१२॥
प्रतिज्ञायाप्रयच्छन्यो ह्यल्पायुर्जायते नरः ॥
विप्रवृत्त्यपहारी स्यादजीर्णी सर्वदाऽधमः ॥१३॥
नैष्ठिकान्नाशनाद्भूयो निवृत्तो रोगवान्सदा ॥
पत्नीबहुत्वे त्वेकस्यां रेतोमोक्षः क्षयी भवेत् ॥१४॥
स्वामिना धर्मयुक्तो यस्त्वन्यायेन समाचरेत् ॥
स्वयं वा भक्षयेद्द्रव्यं स मूढः स्याज्जलोदरी ॥१५॥
दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते ॥
अंगहीनः स च भवेदन्नहृत्क्षुधितो भवेत् ॥१६॥
व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः ॥
धर्मप्रवृत्तिं सञ्चार्य पत्न्यादीष्टवियोगकृत् ॥१७॥
स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात् ॥
पंचयज्ञानकृत्वैव भुञ्जानो ग्रामशूकरः ॥१८॥
पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम् ॥
वेश्यादिरक्तो मूढात्मा खल्वाटो जायते नरः ॥१९॥
परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् ॥
अवमन्य निवृत्तात्मा क्लिष्टवृत्तिः सदा भवेत् ॥२०॥
छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून् ॥
प्राप्तव्यार्थस्यातिकष्टात्परिभ्रंशोर्थजो भवेत् ॥२१॥
विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत् ॥
धार्मिके क्षुद्रकारी यो नरः स वामनो भवेत् ॥२२॥
दुर्बलवृषवाही यः कटिलूती भवेत्स च ॥२३॥
जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम् ॥
निर्दयो गोषु घाताद्यैः सदा सोध्वसु कष्टगः ॥२४॥
निस्तेजकः सभायां यो गलगण्डी स जायते ॥
सदा क्रोधी च चंडालः पूतिवक्त्रश्च सूचकः ॥२५॥
अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत् ॥
नास्तिकस्तिल पिंडी स्यादश्रद्धो गीतजीवनः ॥२६॥
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत् ॥
अन्यायतो ज्ञानग्राही मूर्खो भवति मानवः ॥२७॥
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः ॥
कृमिवक्त्रः स च भवेद्विभ्रष्टो नरकात्कुधीः ॥२८॥
देवद्विजगवां वृत्तिहारको वांतभक्षकृत् ॥
तडागारामभेत्ता यो भवेद्विकलपाणिकः ॥२९॥
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः ॥
सदा पुरुषरोगी स्यात्परदाररतो नरः ॥३०॥
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः ॥
मधुमेही खरीगामी गोत्रस्त्रीमैथुनोऽप्रसूः ॥३१॥
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान् ॥
कृतघ्नः सर्व कार्याणां वैफल्यं समुपाश्नुते ॥३२॥
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः ॥
चित्रगुप्तोऽपि मुह्येत सकलस्यानुवर्णने ॥३३॥
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः ॥
एवंविधैश्चिह्निताश्च जायंते लक्षणैर्नराः ॥३४॥
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः ॥
अनुमानेन बोद्धव्यं यदेते शेषपापिनः ॥३५॥
येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः ॥
सर्वव्यसननिर्मुक्ता धर्ममेकं भजन्ति ते ॥३६॥
भवंति चात्र श्लोकाः ॥
धर्मादनवमं सौख्यमधर्माद्दुःखसम्भवः ॥
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत् ॥३७॥
लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः ॥
धर्ममेकमतः कुर्यात्सर्वकार्यार्थसिद्धये ॥३८॥
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ॥
न कल्पमपि जीवेत लोकद्वयविरोधिना ॥३९॥
इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् ॥
असूक्तं सूक्तमथवा क्षंतव्यं किं वदामि च ॥४०॥
 ॥ नारद उवाच
कमठस्यैतदाकर्ण्य अष्टवर्षस्य भाषितम् ॥
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः ॥४१॥
प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा ॥
अहो वसुमती धन्या द्विजैरेवंविधोत्तमैः ॥४२॥
अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते ॥
अमीभिर्ब्राह्मणवरैर्धन्या वेदाश्च संप्रति ॥४३॥
येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा ॥
हारीतप्रमुखानां हि का वै बुद्धिर्भविष्यति ॥४४॥
असंशयं त्रिलोकस्थमेषामविदितं न हि ॥
यथैतान्नारदः प्राह भूयस्तस्मादमी बहु ॥४५॥
इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत् ॥
अहं सूर्यो विप्रमुख्या युष्माकं दर्शनात्कृते ॥४६॥
समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे ॥
भवद्विधैर्विप्रमुख्यैः संजल्पनसहासनात् ॥४७॥
अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः ॥
सर्वथा नारदो धन्यो योऽसौ त्रैलोक्यतत्त्ववित् ॥४८॥
युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः ॥
प्रणमामि च वः सर्वान्मनोबुद्धिसमाधिभिः ॥
तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम् ॥४९॥
वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत ॥
यूयं स्वयं हि वरदा मत्संगो मास्तु निष्फलः ॥५०॥
देवतानां हि संसर्गो निष्फलो नोपजायते ॥
तस्मान्मत्तो वरं किंचिद्वृणुध्वं प्रददामि वः ॥५१॥
 ॥ श्रीनारद उवाच
इति सूर्यवचः श्रुत्वा प्रहृष्टास्ते द्विजोत्तमाः ॥५२॥
संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः ॥
मंडलादीन्महाजप्यान्गृणंतः प्रोचिरे रविम् ॥५३॥
जयादित्य जय स्वामिञ्जय भानो जयामल ॥
जय वेदपते शश्वत्तारयास्मानहर्पते ॥५४॥
विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः ॥
नितरां पूतमेतन्नः स्थानं देव त्वयेक्षितम् ॥५५॥
अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः ॥
अद्य नः सफलं गेहं त्वया संगम्य गोपते ॥५६॥
वरं यदि प्रदातासि तदेनं प्रवृणीमहे ॥
आस्माकीनमिदं स्थानं न हि त्याज्यं कथंचन ॥५७॥
 ॥ श्रीसूर्य उवाच
यस्माद्भवद्भिः पूर्वं हि जयादित्येति चोदितम् ॥
जयादित्य इति ख्यातस्तस्मात्स्थास्येऽत्र सर्वदा ॥५८॥
यावन्मही समुद्राश्च पर्वता नगराणि च ॥
तावत्स्थानमिदं विप्रा न हि त्यक्ष्यामि कर्हिचित् ॥५९॥
 दारिद्र्यरोगसंघातान्दद्रवो मंडलानि च ॥
कुष्ठादीन्नाशयिष्यामि भजतामत्र संस्थितः ॥६०॥
यो मामत्र स्थितं चापि पूजयिष्यति मानवः ॥
सूर्यलोकमिवागम्य पूजां तस्य भजाम्यहम् ॥६१॥
 ॥ श्रीनारद उवाच
एवमुक्ते भगवता हारीताद्या द्विजोत्तमाः ॥
मूर्तिं संस्थापयामासुर्वेदोदितविधानतः ॥६२॥
ततो द्विजाः प्राहुरेवं कमठं त्वत्कृते रविः ॥
अत्र स्वामी स्थितस्तस्मात्प्रथमं स्तुहि त्वं रविम् ॥६३॥
इत्युक्तो ब्राह्मणैः सर्वैः कमठो वाग्ग्मिनां वरः ।
प्रणिपत्य जयादित्यं महास्तोत्रमिदं जगौ ॥६४॥
न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव ॥
चतुर्विधा भारती दूरदूरं धृष्टः स्तौमि स्वार्थकामः क्षमैतत् ॥६५॥
मार्तंडसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चार्यमा स्वर्णरेताः ॥६६॥
दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते ॥
लोकत्रयं वै तव गर्भगेहं जलाधारः प्रोच्यसे खं समग्रम् ॥६७॥
नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम् ॥६८॥
त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः ॥
त्वं नेत्रनेत्रं जनबुद्धिबुद्धिराकाशकाशो जय जीवजीवः ॥६९॥
दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म ॥
रोगप्ररोगः प्रथितः पृथिव्यां चिरं जयादित्य जयाप्रमेय ॥७०॥
व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम् ॥
माता पिता बांधवाः संत्यजंति सर्वैस्त्यक्तं पासि कोस्ति त्वदन्यः ॥७१॥
त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव ॥
त्वं मे धर्मस्त्वं च मे मोक्षमार्गो दासस्तुभ्यं त्यज वा रक्ष देव ॥७२॥
पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि ॥
तथापि तुभ्यं प्रणिपत्य पादयोर्जयं भक्तानामर्पय श्रीजयार्क ॥७३॥
 ॥ नारद उवाच
एवं स्तुतो जयादित्यः कमठेन महात्मना ॥
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव ॥७४॥
जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम् ॥
अनेन स्तोष्यते यो मां भुवि तस्य न दुर्लभम् ॥७५॥
रविवारे विशेषेण मां समभ्यर्च्य यः पठेत् ॥
तस्य रोगा न शिष्यंति दारिद्र्यं च न संशयः ॥७६॥
त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम् ॥
सर्वज्ञो भुवि भूत्वा त्वं ततो मुक्तिमवाप्स्यसि ॥७७॥
त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः ॥
स्थानस्यास्य न नाशश्च कदाचित्प्रभविष्यति ॥७८॥
न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित् ॥
एवमुक्ता स भगवान्ब्राह्मणैरर्चितः स्तुतः ॥७९॥
अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः ॥
एवं पार्थ समुत्पन्नो जयादित्योऽत्र भूतले ॥८०॥
आश्विने मासि संप्राप्ते रविवारे च सुव्रत ॥
आश्विने भानुवारेण यो जयादित्यमर्चयेत् ॥८१॥
कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥
पूजनाद्रक्तमाल्यैश्च रक्तचंदनकुंकुमैः ॥८२॥
लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥८३॥
मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति ॥
पुत्रदारधनान्यायुः प्राप्य सां सारिकं सुखम् ॥८४॥
इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत् ॥८५॥
सर्वेषु रविवारेषु जयादित्यस्य दर्शनम् ॥
कीर्तनं स्मरणं वापि सर्व रोगोपशांतिदम् ॥८६॥
अनादिनिधनं देवमव्यक्तं तेजसां निधिम् ॥
ये भक्तास्ते च लीयंते सौरस्थाने निरामये ॥८७॥
सूर्योपरागे संप्राप्ते रविकूपे समाहितः ॥
स्नानं यः कुरुते पार्थ होमं कुर्यात्प्रयत्नतः ॥८८॥
दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः ॥
तस्य पुण्यस्य माहात्म्यं शृणुष्वैकमना जय ॥८९॥
कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च ॥
वाराणस्यां च यत्पुण्यं प्रयागे नैमिषेऽपि वा ॥
तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ॥९०
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे जयादित्य माहात्म्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP