श्रीशुक उवाच
एवमेतत्पुरा पृष्टो मैत्रेय भगवानु किल ।
क्षत्त्रा वनं प्रवष्टेन त्यक्त्वा स्वगृहमृद्धिमत ॥१॥
यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः ।
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम ॥२॥
राजोवाच
कुत्र क्षत्तुर्भगवता मैत्रेयणास संगमः ।
कदा वा सह संवाद एतद्वर्णय नः प्रभो ॥३॥
न ह्याल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।
तस्मिन वरीयसि प्रश्नः साधुवादोपबृंहितः ॥४॥
सूत उवाच
स एवमृषिवर्योऽयं पृष्टो राज्ञा परिक्षिता ।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रुयतामिती ॥५॥
श्रीशुक उवाच
यदा तू राजा स्व्सुतानसाधुन पुष्णन्नधर्मेण विनष्टदुष्टिः ।
भ्रातुर्यविष्ठस्य सुतान विबन्धून प्रवेश्य लाक्षाभवने ददाह ॥६॥
यदा सभायां कुरुदेवदेव्याः केशाभिमर्श सुतकर्मं गर्ह्याम ।
न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुडकुमानि ॥७॥
द्युते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनागतस्य ।
न याचतोऽदात्समयेन दायं तमो जुषाणो यदजातशत्रोः ॥८॥
यदा च पार्थप्रहितः सभायां जगदगुरुर्यानि जगाद कृष्णः ।
न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः ॥९॥
यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन ।
अथाह तन्मन्त्रदृशां वरीयान यन्मन्त्रिणो वैदुरिकं वदन्ति ॥१०॥
अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः ।
सहानुजो यत्र वृकोदराहिः श्वसन रुषा यत्त्वमलं बिभेषि ॥११॥
पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान सक्षितिदेवदेवः ।
आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः ॥१२॥
स एष दोषः पुरुषद्विडास्ते गृहान प्रविष्टो यमपत्यमत्या ।
पुष्णसि कृष्णाद्विमुखो गतश्रीस्त्यजाश्वशैवं कुलकौशलाय ॥१३॥
इत्युचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फ्रिताधरेण ।
असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥१४॥
क एनमत्रोपजुहाव जिन्हां दास्याः सुतं यद्वलिनैव पुष्टः ।
तस्मिन प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छसानः ॥१५॥
स इत्थमत्युब्लवकर्णबाणै र्भ्रातः पुरो मर्मसु ताडितोऽपि ।
स्वयं धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः ॥१६॥
स निर्गतः कौरवपुण्यलब्धो गजाह्वयत्तीर्थपदः पदानि ।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्या स्वाधिष्ठितो यानि सहस्त्रमूर्ति ॥१७॥
पुरेषु पुण्योपवनाद्रिकुत्र्जे ष्वपंकतोयेषु सरित्सरः सु ।
अनन्तलिडैः समलडकृतेषु चचार तीर्थायतनेष्वनन्यः ॥१८॥
गां पर्यटन्मेध्यविविक्तवृत्तिः सदाऽऽप्लुतोऽधः शयनोऽवधुतः ।
अलक्षितः स्वैरवधुतवेषो व्र तानि चेरे हरितोषणानि ॥१९॥
इत्थं व्रजन भारतमेव वर्ष कालेन यावद्गतवान प्रभासम ।
तावच्छशास क्षितिमेकचक्रा मेकातपत्रामजितेन पार्थः ॥२०॥
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम ।
संस्पर्धया दग्धमथानुशोचन सरस्वती प्रत्यगियाय तूष्णीम ॥२१॥
तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्रेरसितर्स्य वायोः ।
तीर्थ सुदासस्य गवा गुह्स्य यच्छ्रा द्धदेवस्य स आसिषेवे ॥२२॥
अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः ।
प्रत्यंगमुख्यांकितामन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति ॥२३॥
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान कुरुजांगलाश्च ।
कालेन तावद्य्मुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥२४॥
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक तनयं प्रतीतम ।
आलिंडग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम ॥२५॥
कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्येह किलावतीर्णी ।
आसात उर्व्या कुशलं विधाय कृतक्षणौ कुशलं शुरगेहे ॥२६॥
कच्चित्कुरुणं परमः सुह्रुत्रो भामः स आस्ते सुखमंग शौरिः ।
यो वै स्वसृणां पितृवद्ददाति वरान वदान्यो वरतर्पणेन ॥२७॥
कच्चिद्वरुथाधिपतिर्यदुनां प्रद्युम्न आस्ते सुखमंग वीरः ।
यं रुक्मिणी भगवतोऽभिलेभे आराध्या विप्रान स्मरमादिसर्गे ॥२८॥
कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते ।
यमभ्यषित्र्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दुरात ॥२९॥
कच्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः ।
असुत यं जाम्बवती व्रताढ्या देव गुहं योऽम्बिकया धृतोऽग्रे ॥३०॥
क्षेमं कच्चिद्युयुधान आस्ते यः फाल्गुणाल्लब्धधनुरहस्यः ।
लेभेऽत्र्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम ॥३१॥
कच्चिद बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः ।
यः कृष्णपादकिंतमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः ॥३२॥
कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाय इव देवमातुः ।
या वै स्वगर्भैण दधार देवं त्रयी यथा यज्ञवितानमर्थम ॥३३॥
अपिस्विदास्ते भगवान सुखं वो यह सात्वतां कामदुघोऽनिरुद्धः ।
यमामनन्ति स्म ह शब्दयोनिं मनोमयं सत्वतुरीयतत्त्वम ॥३४॥
अपिस्विदन्ये च निजात्मदैव मनन्यवृत्या समनुव्रता ये ।
हृदीकसत्यात्मजचादेष्णगदादयः स्वस्ति चरन्ति सौम्य ॥३५॥
अपि स्वदोर्भ्या विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम ।
दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्षम्या विजयानुवृत्या ॥३६॥
किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्देर्घतमं व्यमुत्र्चत ।
यस्याडघ्रिपातं रनभुर्न सेहे मार्ग गदयाश्चरतो विचित्रम ॥३७॥
कच्चिद्यशोधा रथयुथपानां गाण्डनिवधन्वोपरतारिरास्ते ।
अलक्षितो यच्छरकुटगुढो मायाकिरातो गिरिशस्तितोष ॥३८॥
यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतो पक्ष्याभिरक्षिणीव ।
रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात ॥३९॥
अहो पृथावि ध्रियतेऽर्भकार्थे राजार्षिवर्येण विनापि तेन ।
यस्त्वेक वीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ॥४०॥
सौम्यानुशोचे तमधः पतन्तं भ्रात्रे परेताय विदुद्रुहे यः ।
निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान समनुव्रतेन ॥४१॥
सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः ।
नान्योपलक्ष्यः पदवीं प्रसादा च्यरामि पश्यन गतविस्मयोऽत्र ॥४२॥
नुनं नॄपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमुभिः ।
वधत्प्रपन्नार्तिजिहीर्षयेशो ऽप्युपैक्षताघं भगवान कुरुणाम ॥४३॥
अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहाणाय पुंसाम ।
नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुतं कर्मतन्त्रम ॥४४॥
तस्य प्रपन्नाखिललोकपाना मवस्थितानामनुशासने स्वे ।
अर्थाय जातस्य यदुष्वजस्य वार्ता सखे कीर्तय तीर्थकीर्तेः ॥४५॥
इति श्रीमद्धागवते महापुरणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे प्रथमोऽध्यायः ॥१॥