उद्धव उवाच
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम ।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥१॥
तेषां मैरेदोषेण विषमीकृतचेतसाम ।
निम्लोचति रवावासीद्वेणुनामिव मर्दनम ॥२॥
भगवान स्वात्ममायाया गतिं तामवलोक्य सः ।
सरस्वतीमुपस्पृश्य वृक्षमुलमुपाविशत ॥३॥
अहं चोक्तो भग्वता प्रपन्नार्तिहरेन ह ।
बदरीं त्वं प्रयाहिति स्वकुलं संजिहीर्षुणा ॥४॥
अथापि तदभिप्रेतं जानन्नहमरिन्दम ।
पृष्ठतोऽन्ववगं भर्तृः पादविश्लेषणाक्षमः ॥५॥
अद्राक्षमेकमासीनं विचिन्वन दयितं पतिम ।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम ॥६॥
श्यामावदांत विराज प्रशान्तारुणलोचनम ।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥७॥
वाम ऊरावधिश्रित्य दक्षिणाड्घ्रिसरोरुहम ।
आपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम ॥८॥
तस्मिन्महाभागवतो द्वैपायनसृहृत्सखा ।
लोकाननुचरन सिद्ध आससाद यदृच्छया ॥९॥
तस्यानुरक्तस्य मुनेर्मुकुन्दह प्रमोदभावानतक न्धस्य ।
आश्रुण्वतो मामनुरागहास समीक्षया विश्रमयन्नुवाच ॥१०॥
वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद दुरवापमन्यैः ।
सत्त्रे पुरा विश्वसृजां वसुनां मत्सिद्धिकामेन वसो त्वयेष्ट ॥११॥
स एष साधो चरमो भवाना मसादितस्ते मदनुग्रहो यत ।
यन्मां नृलोकान रह उत्सृजन्तं दिष्ट्या ददृश्वान विशदानुवृत्या ॥१२॥
पुरा मया प्रोक्तामजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावाभासं यत्सुरयो भागवंत वदन्ति ॥१३॥
इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम ।
सेनेहोत्थरोमा स्खलिताक्षरस्तं मुत्र्चत्र्छुचः प्राज्त्रलिराबभाषे ॥१४॥
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भुमन भवत्पदाम्भोजनिषेवणोत्सुकः ॥१५॥
कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम ।
कालात्मनो यत्प्रमदायुताश्रयः स्वात्मनरतेः खिद्यति धीर्विदामिह ॥१६॥
मन्त्रेषु मां वा उपहुय यत्त्व मकुण्ठिताखण्डसदात्मबोधः ।
पृच्छेः प्रभो मुग्ध इवाप्रमत्त स्तन्नो मनो मोहयतीव देव ॥१७॥
ज्ञानं परं स्वात्मरहः प्रकाशं प्रोवाच कस्मै भगवान समग्रम ।
अपि क्षमं नो ग्रहणाय भर्त र्वदांजसा यद वृजिन तरेम ॥१८॥
इत्यावेदितहार्दाय मह्यां स भगवान परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम ॥१९॥
स एवमाराधिअपादतीर्था दधीततत्वात्मविबो धमार्गः ।
प्रणम्य पादौ परिवृत्य देव मिहागतोऽहं विरहातुरात्मा ॥२०॥
सोऽहं तद्दर्शनाह्लादवियोगार्तियुतः प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम ॥२१॥
यत्र नारायणो देवो नरश्च भगवानृषिः ।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥२२॥
श्रीशुक उवाच
इत्युद्धवादुपाकर्ण्यं सुहृदां दुःसहं वधम ।
ज्ञानेनशमयत्क्षता शोकमुत्पतित बुधः ॥२३॥
स तं महाभागवतं व्रजन्त कौरवर्षभः ।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥२४॥
विदुर उवाच
ज्ञान परं स्वत्मरहः प्रकाशं यदाह योगेश्वर ईश्वरस्ते ।
वक्तुं भवन्नोऽर्हति यद्धि विष्णो र्भॄत्याः स्वभृत्यार्थकृतश्चरन्ति ॥२५॥
उद्धव उवाच
ननु ते तत्वसंराध्य ऋषिः कौषरवोऽन्ति मे ।
साक्षाद्भागवताऽऽदिष्ठो मर्त्यलोकं जिहासता ॥२६॥
श्रीशुक उवाच
इति सह विदुरेण विश्वमूर्ते र्गुणकथया सुधया प्लावितोरुतापः ।
क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात ॥२७॥
राजोवाच
निधनमुपगतेषु वृष्णिभोजे ष्वधिरथयुथपयुथपेषु मुख्यः ।
स तु कथमवशिष्ट उद्धवो यद हरिरपि तत्यज आकृतिं त्र्यधीशः ॥२८॥
श्रीशुक उवाच
ब्रह्माशापापदेशे कालेनामोघवात्र्छितः ।
संहृत्य स्वकुलं नूनं त्यक्ष्यन्देहमचिन्तयत ॥२९॥
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम ।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥३०॥
नोद्धवोऽण्ववि मन्न्युनो यदगुणैर्नार्दितः प्रभुः ।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥३१॥
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।
बदर्याश्रममासाद्य हरिक्मीजे समाधिना ॥३२॥
विद्वरोऽप्युद्धवाच्छुत्वा कृष्णस्य परमात्मनः ।
क्रीडयोपात्तदेहस्य कार्माणि श्लाघितानि च ॥३३॥
देहन्यासं च तस्यैवं धीरांणां धैर्यवर्धनम ।
अन्येषां दुष्करतरं पशुनां विक्लवात्मनाम ॥३४॥
आत्मानम च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम ।
ध्यायम गते भागवते रुरोद प्रेमविह्ललः ॥३५॥
कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभः ।
प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥३६॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥४॥