मैत्रेय उवाच
एवमविष्कृताशेषगुणाकर्मोदयो मुनिम ।
सव्रीड इव तं सम्राडुपारतमुवाच ह ॥१॥
मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरिप्सया ।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान ॥२॥
तत्त्राणायासृजच्चास्मान्दोः सहस्त्रात्सहस्रपात ।
हृदयं तस्य ही ब्रह्मा क्षत्रमंग प्रचंक्षते ॥३॥
अतो ह्यान्योन्यमात्मानं ब्रह्मा क्षत्रं च रक्षत ।
रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥४॥
तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।
यत्स्वयं भगवान प्रीत्या धर्मामाह रिरक्षिषौः ॥५॥
दिष्ट्या मे भगवान दृष्टे दुर्दर्शो योऽकृतात्मनाम ।
दिष्ट्या पादरजः सृष्टं शीर्ष्णा मे भवतः शिवम ॥६॥
दिष्ट्या त्वयानुशिष्ट्योऽहं कृतश्चानुग्रहो महान ।
अपावृत्तैः कर्णन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः ॥७॥
स भवान्दुहितृस्तेनहपारिक्लिष्टात्मनो मम ।
श्रोतुमर्हसि दिनस्य श्रावितं कृपया मुने ॥८॥
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।
अन्विच्छति पतिं युक्तं वयः शीलगुणादिभिः ॥९॥
यदा तु भवतः शील श्रुतरुपवयोगुणान ।
अश्रुणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥१०॥
तत्प्रतीच्छ द्विजोग्य्रेमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरुपां ते गृहमेधिषु कर्मसु ॥११॥
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तसंगस्य कामरक्तस्य किं पुनः ॥१२॥
य उद्यतमनादृत्य कीनाशमभियाचते ।
क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥१३॥
अहं त्वाश्रृणवं विद्वन विवाहार्थ समुद्यतम ।
अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥१४॥
ऋषिरुवाच
बाढमुद्वोढुकामोऽहमप्रत्ता च तवत्मजा ।
आवयोरनुरुपऽसावाद्यो वैवाहिको विधिः ॥१५॥
कामः स भुयान्नरदेव तेऽस्याः पुत्र्याः समाम्रायविधय प्रतीतः ।
क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीमिव श्रियम ॥१६॥
यां हर्म्यपृष्ठे क्वणदंडघ्रिशोभां विक्रीडतीं कन्दुकविह्वलाक्षीम ।
विश्वावसुन्यपतत्स्वाद्विमाना द्विलोक्य सम्मोहविमुढचेताः ॥१७॥
तां प्रार्थयन्ती ललनाललाम मसेवितश्रीचरणैरदृष्टाम ।
वत्सां मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभियाताम ॥१८॥
अतो भजिष्ये समयेन साध्वीं यावत्तेजी बिभृयादात्मनो मे ।
अतो धर्मान पारमहंस्यमुख्यान शुक्लप्रोक्तान बहु मन्येऽविहिंस्नान ॥१९॥
यतोऽभवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते ।
प्रजापतींना पतिरेष मह्यं परं प्रमाणं भगवाननन्तः ॥२०॥
मैत्रेय उवाच
स उग्र धन्वन्नियदेवाबभाषे आसीच्च तूष्णीमरविन्दनाभम ।
धियोपगृह्नन स्मितशोभितेन मुखेन चेतो लुलुभे देवहुत्याः ॥२१॥
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितः स्फूटम ।
तस्मै गुणगणाढ्याय ददौ तुल्या प्रहर्शितः ॥२२॥
शतरुपा महराज्ञी पारिबर्हान्महाधनान ।
दम्पत्योः पर्यदात्प्रीत्या भुषावासह परिच्छदान ॥२३॥
प्रत्तां दुहितरं सम्रात सदृक्षाय गतव्यथः ।
उपगुह्या च बाहुभ्यामौत्काण्ठोन्मथिताशयः ॥२४॥
अशक्रुवंस्तद्विरहं मुत्र्चन बाष्पकलां मुहुः ।
आसित्र्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखा ॥२५॥
आमन्त्रय तं मुनिवरमनुज्ञातः सहानुगः ।
प्रतस्थे रथमारुह्या सभार्यः स्वपुरं नॄपः ॥२६॥
उभयोऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः ॥२७॥
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजः पतिम ।
गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥२८॥
बर्हिंष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन यत्र रोमाणि यज्ञस्यांग विधुन्वतः ॥२९॥
कुशाः काश्यास्त एवासन शश्वद्धरितवर्चसः ।
ऋषयो यैः पराभाव्या यज्ञघ्रान यज्ञमीजिरे ॥३०॥
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनुः ।
अजयद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम ॥३१॥
बर्हिंष्मतीं नाम विभुर्यां निर्विश्य समावसत ।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम ॥३२॥
सभार्यः सप्रजः कामान बुभुजेऽन्याविरोधतः ।
संगीयमानसत्कीर्तीः सस्त्रीभिः सुरगायकैः ।
प्रत्युषेष्वनुबद्धेन हृदा श्रुण्वन हरेः कथाः ॥३३॥
निष्णातं योगमायासु मुनिं स्वायाम्भुवं मनुम ।
यदा भ्रंशयितुं भोगा न शेकुर्भगवत्परम ॥३४॥
अयातयामास्तस्यासन यामाः स्वान्तरयापनाः ।
श्रृण्वतो ध्यायतो विष्णोः कुर्वतोक ब्रुवतः कथाः ॥३५॥
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम ।
वासुदेवप्रसंगेन परिभुतगतित्रयः ॥३६॥
शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम ॥३७॥
यः पुष्टो मुनिभिः प्राह धर्मान्नानाविधात्र्छुभान ।
नृणां वर्णाश्रमाणां च सर्वभुतहितः सदा ॥३८॥
एतत्त आदिराजस्य मनोश्वरितद्भुतम ।
वर्णितं वर्ननीयस्य तदपत्योदयं श्रुणु ॥३९॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे द्वाविंद्शोऽध्यायः ॥२२॥