श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥१॥
विदुर उवाच
ब्रह्मान कथं भगवतश्चिन्मात्रस्याविकारिणः ।
लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ॥२॥
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः ।
स्वतस्तृप्तस्य च कथं निवृतस्य सदान्यतः ॥३॥
अस्त्राक्षीद्भगवन विश्व गुणमय्याऽऽत्ममायया ।
तया संस्थापयत्येतद्भुयः प्रत्यपिधास्यति ॥४॥
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।
अविलुप्तावबोधात्मा स युज्येताजया कथम ॥५॥
भगवानेक एर्वैष सर्वक्षेत्रेष्ववस्थितः ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिःकुतः ॥६॥
एतस्मिन्मे मनो विद्वन खिद्यतेऽज्ञानसंकटे ।
तन्नः परणुद विभो कश्मलं मानसं महत ॥७॥
श्रीशुक उवाच
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।
प्रत्याह भगवच्चित्तः समयन्निव गतस्मय ॥८॥
मैत्रेय उवाच
सेयं भगवतो माया यन्नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम ॥९॥
यदर्थेन विनामुष्य पुंस आत्मविपर्ययः ।
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥१०॥
यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।
दृश्यतेऽसन्नपि द्रष्टुरात्मनो नात्मनो गुणः ॥११॥
स वै निवृत्तधर्मेण वासुदेवनुकम्पया ।
भगवद्भाक्तियोगेन तिरोधत्ते शनैरिह ॥१२॥
यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मानि परे हरौ ।
विलीयन्ते तदा क्लेशाः संसुत्पस्येव कृत्स्नशः ॥१३॥
अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः ।
कुतः पुनस्तच्चरणारविन्दपरागसेवरतिरात्मलब्धा ॥१४॥
विदुर उवाच
संछिन्नः संशयो मह्यं तव सुक्तासिना विभो ।
उभयत्रापि भगवन्मनो मे सम्प्रधावापि ॥१५॥
साध्वेतद व्याहृतं विद्वन्नात्ममायायनं हरेः ।
आभात्यपार्थं निर्मुलं विश्वमुलं न यद्वहिः ॥१६॥
यश्व मुढतमो लोके यश्च बुद्धेः परं गतः ।
तावुभौ सुखमेधेत क्लेश्यत्यन्तरितो जनः ॥१७॥
अर्थाभवं विनिश्चित्य प्रतीतस्यापि नात्मनः ।
तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥१८॥
यत्सेवया भगवतः कुटस्थस्य मधुद्विषः ।
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥१९॥
दुरापा ह्याल्पतपसः सेवा वैकुण्ठवर्त्मसु ।
यत्रोपगीयते नित्यम देवदेवो जनर्दनः ॥२०॥
सृष्टाग्रे महदादीनि सविकाराण्यनुक्रमात ।
तेभ्यो विराजमुदधृत्य तमनु प्रविशद्विभुः ॥२१॥
यमाहुराद्यं पुरुषं सहस्त्राडघ्रयुरुबाहुकम ।
यत्र विश्व इमे लोकाः सविकाशं समासते ॥२२॥
यस्मिन दशविधः प्राण सेन्द्रियार्थेन्दियास्त्रिव्रूत ।
त्वयेरितो यतो वर्नास्तिद्वभूर्तीर्वदस्व नः ॥२३॥
यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।
प्रजा विचित्राकुतय आसन याभिरिदं ततम ॥२४॥
प्रजापतींना स पतिश्चक्लॄपे कान प्रजापतीन ।
सर्गाश्चैवानुसर्गाश्च मनुन्मन्वन्तराधिपान ॥२५॥
एतेषामपि वंशांश्च वंशानुचारितानि च ।
उपर्यधश्च ये लोका भुमेर्मित्रात्मजासते ॥२६॥
तेषां संस्थां प्रमाणम च भुर्लोकस्य च वर्णय ।
तिर्यडमानुषदेवानां सरीसृपपतत्त्रिणाम ।
वद नः सर्गसंव्युहं गार्भस्वेदद्विजोद्भिदाम ॥२७॥
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम ।
सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम ॥२८॥
वर्णाश्रमविभागाश्च रुपशीलस्वभावतः ।
ऋषींणा जन्मकर्मादि वेदस्य च विकर्षणम ॥२९॥
यज्ञस्य च वितानानि योगस्य च पथः प्रभो ।
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम ॥३०॥
पाखण्डपथवैषम्य प्रतिलोमनिवेशनम ।
जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥३१॥
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ।
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक ॥३२॥
श्राद्धस्य च विधिं ब्रह्मान पितृणं सर्गमेव च ।
ग्रुहनक्षत्रातारांणां कालावयवसंस्थितिम ॥३३॥
दानस्य तपसो वापि यच्चेष्टापूर्तयो फलम ।
प्रवासस्थस्य यो धर्मा यश्च पुंस उतापदि ॥३४॥
येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दनः ।
सम्प्रसीदति वा येषामेतदाख्याहि चानघ ॥३५॥
अनुव्रतानां शिष्यांणां पुत्रांणा च द्विजोत्तम ।
अनापृष्टमपि ब्रुयर्गुरवी दीनवत्सलाः ॥३६॥
तत्त्वांनां भगवंस्तेषां कतिधा प्रतिसंक्रमः ।
तत्रेमं क उपासीरन क उ स्विदनुशेरते ॥३७॥
पुरुषस्य च संस्थानं स्वरुपं वा परस्य च ।
ज्ञानं च नैगमं यत्तदगुरुशिष्यप्रयोजनम ॥३८॥
निमित्तानि च तस्येह प्रोक्तान्यनद्य सुरिभिः ।
स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥३९॥
एतान्मे पृच्छतः प्रश्नान हरेः कर्मविवित्सया ।
ब्रुहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुषः ॥४०॥
सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।
जीवाभयप्रदानस्य न कुर्वीरन कलामपि ॥४१॥
श्रीशुक उवाच
स इत्थमपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः ।
प्रवृद्धहर्षो भगवत्कथायां संचोदितस्तं प्रहसन्निवाह ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥७॥