मैत्रेय उवाच
निशम्यात्मभुवा गीतं कारणं शंडकयोज्झिताः ।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥१॥
दितिस्तु भर्तुरादेशादपत्यापरिशकिनी ।
पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥२॥
उप्ताता बहवस्तत्र निपेतुर्जामानयोः ।
दिवि भुव्यन्तरिक्षे च लोकस्योरुभयवहाः ॥३॥
सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।
सोल्वश्चाशनयः पेतुः केतवश्चार्तिहेतवः ॥४॥
ववौ वायुः सुदुःस्पर्शः फुत्करानीरयन्मुहुः ।
उन्मुलयन्नगतीन्वात्यानीको रजोध्वजः ॥५॥
उद्धसत्तडिदम्भोदघटया नष्टभागणे ।
व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम ॥६॥
चक्रोश विमना वार्धिरुदुर्मिः क्षुभितोदरः ।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपंकजाः ॥७॥
मुहुः परिधयोऽभुवन सराह्योः शशीसुर्ययोः ।
निर्घाता रथनिर्ह्यादा विवरेभ्यः प्रजज्ञिरे ॥८॥
अन्तर्ग्रामेषु मुखतो वमन्तो वह्निमुल्बणम ।
सृगालोलुकटकांरैः प्रणेदुरशिवं शिवाः ॥९॥
संगीतवद्रोदनवदुन्नमय्य शिरोधराम ।
व्यमुत्र्नविव्धा वचो ग्रामसिंहास्ततस्ततः ॥१०॥
खराश्च कर्कशैः क्षत्त खुरैर्घन्तो धरातलम ।
खार्काररभसा मत्ताः पर्यधावन वरुथशः ॥११॥
रुदन्तो रासभत्रस्ताः नीडादुदपतन खगाः ।
घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वतः ॥१२॥
गावो७त्रसन्नसृद्गोहास्तोयदाः पुयवर्षिणः ।
व्यरुदन्देवालिंगनि द्रुमः पेतुर्विनानिलम ॥१३॥
ग्रहान पुण्यतमानन्ये भगणांश्चापि दीपिताः ।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम ॥१४॥
दृष्टन्यांश्च महोत्पातानतत्त्वत्त्वविदः प्रजा ।
ब्रह्मापुत्रनृते भीता मेनिरे विश्वसंप्लवम ॥१५॥
तावादिदैत्यो सहस व्यज्यमानात्मपौरुषौ ।
ववृदातेऽश्मसारेण कायेनाद्रिपती इव ॥१६॥
दिविस्प्रुशौ हेमकिरीटकोटिभि निरुद्धकाष्ठौ स्फुरदाभुजौ ।
गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकात्र्जायाऽर्काम्तीत्य तस्थतु ॥१७॥
प्रजापतीर्नाम तयोरकार्षीद यः प्राक स्वदेहाद्यमयोरजायत ।
तं वै हिरण्यकशिपु विदुह प्रजा यं तं हिरण्याक्षमसुत साग्रतः ॥१८॥
चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मावरेण च ।
वशे सपालाँल्लोकांस्त्रीनकुतोमृत्युरुद्धतः ॥१९॥
हिरण्यक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम ।
गदापानिर्दिव यातो युयुत्सुर्मृगयन रणम ॥२०॥
तं वीक्ष्य दुःसहजवं रणत्का त्र्चननुपुरम ।
वैजयन्त्या स्रजा जुष्टंमंसन्यस्तमहागदम ॥२१॥
मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम ।
भीता निलिल्यिय्रेदेवास्तार्क्ष्यत्रस्ता इवाहयः ॥२२॥
स वै तिरोहितान दृष्ट्वा महसा स्वेन दैत्यराट ।
सैन्द्रान्देवगणान क्षीबानपश्यन व्यनदद भृशम ॥२३॥
ततो निवृत्तः क्रीडिष्यन गम्भीरं भीमनिस्वनम ।
विजगाहे महासत्वो वार्धि मत्त इव द्विपः ॥२४॥
तस्मिन प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः ।
अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दुरतरं प्रदुद्रुवुः ॥२५॥
स वर्षपुगानुदर्धौ महाबल श्चरन्महोर्मीत्र्छवसनेरितान्मुहः ।
मौर्व्याभिजघ्ने गद्या विभावरी मासेदिवांस्तात पुरें प्रचेतसः ॥२६॥
तत्रोपलभ्यासुरलोकपालकं यादोगणानमृषभं प्रचेतसम ।
स्मयन प्रलब्धुं प्रणिपत्य नीचव ज्जगाद मे देह्याधिराज संयुगम ॥२७॥
त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्योपहो दुर्मदवीरमानिनाम ।
विजित्य लोकेऽखिलदैत्यदानवान यद्राजसुयेन पुरायजत्प्रभो ॥२८॥
स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः ।
रोष समुत्थं शमयन स्वया धिया व्यवोचदंगोपशमं गता वयम ॥२९॥
पश्यामि नान्यम पुरुषात्पुरातनाद यः संयुगे त्वा रणमार्गकोविदम ।
आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥३०॥
तं वीरमारादभिपद्म विस्मयः शयिष्यसे वीरशये श्वर्भिर्वृतः ।
यस्त्वद्विधानामसतां प्रशान्तये रुपाणि धत्ते सदनुग्रहेच्छया ॥३१॥
इति श्रीमद्भागवते महापुराने पारमहंस्यां संहितायां तृतीयस्कन्धे हिरण्यक्षदिग्विजये सत्पदशोऽध्यायः ॥१७॥