मैत्रेय उवाच
इति ते वर्णितः क्षत्त कालाख्यः पामात्मनः ।
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे ॥१॥
ससर्जग्रेऽन्धतामिस्तमथ तामिस्त्रिमादिकृत ।
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥२॥
दृष्ट्वा पापीयसीं सृष्टीं नात्मानं बह्वमन्यतं ।
भगवद्धयाअनपुतेन मनसान्या ततोऽसृजत ॥३॥
सनकं च सनन्दं च सनातनमथात्मभुः ।
सनत्कुमारं च मुनीन्निष्क्रियानुर्ध्वरेतसः ॥४॥
तान बभाषे स्वभुः पुत्रान प्रजाः सृजतः पुत्रका ।
तन्नैच्छन्मोक्षधर्मनो वासुदेवपरयणाः ॥५॥
सोऽवध्यतः सुतैरेवं प्रत्याख्यातानुशासनैः ।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥६॥
धिया निगृह्यामाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः ।
सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥७॥
स वै रुरोद देवानां पूर्वजो भगवान भवः ।
नामानि कुरु मे धातः स्थानानि च जगदगुरो ॥८॥
इति तस्य वचः पाद्मोः भगवान परिपलयन ।
अभ्यधाद भद्रया वाचा मा रोदीस्तत्करोमि ते ॥९॥
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।
ततस्त्वामभिधास्यन्ति नाम्रा इति प्रजाः ॥१०॥
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही ।
सुर्यश्चन्द्रस्तश्चैव स्थानान्यग्रे कृतानि मे ॥११॥
मन्युर्मनुर्महिनसो महात्र्छिव ऋतध्वजः ।
उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥१२॥
धीर्वृतिरुशनोमा च नियुत्सर्पिरिलाम्बिका \
इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥१३॥
गृहाणैतानि नामानि स्थानानि च सयोषणः ।
एभिः सृज प्रजा बह्वीः प्रजानामस्ति यत्पतिः ॥१४॥
इत्यादिष्टः स गुरुणा भगवान्नेललोहितः ।
सत्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥१५॥
रुद्राणां रुद्रसृष्टांना समान्ताद ग्रसतां जगत ।
निशाम्यासंख्यशो युथान प्रजापतिशंकत ॥१६॥
अलं प्रजाभिः सृष्टाभिरिदृशीभिः सुरोत्तम ।
मया सह दहन्तीभिर्दिशश्र्चक्षुर्भिरुल्बणैः ॥१७॥
तप आतिष्ठ भद्र ते सर्व भ्तसुखावहम ।
तपसैव यथापूर्वं स्रष्ठा विश्वमिदं भवान ॥१८॥
तपसैवं परं ज्योतिर्भगवन्तमधोक्षजम ।
सर्वभुतगुहावासमत्र्जसा विन्दते पुमान ॥१९॥
मैत्रेय उवाच
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम \
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम ॥२०॥
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।
भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः ॥२१॥
मरीचिरत्र्यंगिंरसौ पुलस्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो दर्क्षश्च दशमस्तत्र नारदः ॥२२॥
उत्सगंन्नारदो जज्ञे दक्षोऽगुंष्ठात्स्वयम्भुव ।
प्राणद्वसिष्ठः सत्र्जातो भृगुस्त्वाचि करात्क्रुतः ॥२३॥
पुलहो नाभितो जज्ञे पुलस्त्यःकर्णयोऋषिः ।
अंगिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत ॥२४॥
धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम ।
अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयंकर ॥२५॥
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात ।
आस्याद्वाक्सिन्धवो मेढ्रान्निऋतिः पायोरघाश्रयः ॥२६॥
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।
मनसो देहतश्चेद जज्ञे विश्वकृतो जगत ॥२७॥
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।
अकामां चमके क्षत्तः सकाम इति नः श्रुतम ॥२८॥
तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन ॥२९॥
नैतत्पूर्वंकृतं त्वद्ये न करिष्यन्ति चापरे ।
यत्त्वं दुहितरं गच्छेरनिगृह्यागंज प्रभुः ॥३०॥
तेजीयसामपि ह्योतन्न सुश्लोक्य जगदुगुरो ।
यदवृत्तमनुतिष्ठन वै लोकः क्षेमाय कल्पते ॥३१॥
तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
आत्मस्थं व्यत्र्जयामास स धर्मं पातुमर्हति ॥३२॥
स इत्थं गृणतः पुत्रान पुरो दृष्टवा प्रजापतीन ।
प्रजापतिपतिस्तन्व तत्याज व्रीदीतस्तदा ।
तां दिशों जगृहुर्घोरां नीहारं यद्विदुस्तमः ॥३३॥
कदाचिद ध्यायतः स्रष्टर्वेदा आसंश्चतुर्मुखात ।
कथं स्रक्ष्याम्यहं लोकान समवेतान यथा पुरा ॥३४॥
चातुर्ह्योत्रं कर्मतन्त्रमुपवेदनयैः सह ।
धर्मस्य पादाश्चत्वारस्तथैवश्रमवृत्तयः ॥३५॥
विदुर उवाच
स वै विश्वसृजामीशो वेदादीन मुखतोऽसृजत ।
यद यद येनासृजद देवस्तन्मे ब्रुहि तपोधन ॥३६॥
मैत्रेय उवाच
ऋग्यजुः सामाथर्वाख्यान वेदान पूर्वादिभिर्मुखैः ।
शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चितं व्यधात्क्रमात ॥३७॥
आयुर्वेदं धनुर्वेदं गान्धर्व वेदमात्मनः ।
स्थापत्यं चासृजद वेदं क्रमात्पुर्वादिभिर्मुखैः ॥३८॥
इतिहासपुराणानि पंचम वेदमीश्वरः ।
सर्वेभ्य एव वक्तरेभ्यः ससृजे सर्वदर्शनः ॥३९॥
षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम ॥४०॥
विद्या दानं तपः सत्यं धर्मस्येति पदानि च ।
आश्रमाम्श्च यथा संख्यमसृजत्सह वृत्तिभिः ॥४१॥
सावित्रं प्राजापत्यं च बाह्मं चाथ बृहत्तथा ।
वार्तासज्चयशालीनशिलोत्र्छ इति वै गृहे ॥४२॥
वैखानसा वालखिल्योदुम्बराः फेनपा वने
न्यासे कुटिचकः पूर्व बह्लोदो हंसनिष्क्रियौ ॥४३॥
अन्वीक्षिकी त्रयी वार्ता दन्डनीतिस्तथैव च ।
एवं व्याहृतयश्वासन प्रणवो हास्य दह्रतः ॥४४॥
तस्योऽष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।
त्रिष्टुम्मासांत्स्नुतोऽनुष्टुगत्यस्थ्नः प्रजापतेः ॥४५॥
मज्जायाः पडिक्तरुप्तन्ना बृहती प्राणतोऽभवत ।
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥४६॥
ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः ।
स्वराः सत्प विहारेण भवन्ति स्म प्रजापतेः ॥४७॥
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ।
ब्रह्मावभाति विततो नानाशक्त्युपंबृहितः ॥४८॥
ततोऽपरामुपादाय स सर्गाय मनो दधे ।
ऋषीणा भुरिवीर्याणामपि सर्गमविस्तृतम ॥४९॥
ज्ञात्वा तदधृदये भूयश्चिन्तयामास कौरव ।
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ॥५०॥
न ह्योधन्ते प्रजा नुनं दैवमत्र विघातकम ।
एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा ॥५१॥
कास्य रुपमभुद द्वेधा यत्कायमभिचक्षते ।
ताभ्यां रुपविभागाभ्यां मिथुनं समपद्मत ॥५२॥
यस्तु तत्र पुमान सोऽभुन्मनुः स्वायम्भुवः स्वराट ।
स्त्री याऽऽसीच्छतरुपाख्या महिष्यस्य महात्मनः ॥५३॥
तदामिथुनधर्मेण प्रजा ह्योधाम्बभुविरे ।
स चापि शतरुपायां पंचापत्यान्यजीजनत ॥५४॥
प्रियव्रतोत्तानपादौ तिस्रः कन्यश्च भारत ।
आकूतिर्देवहुतिश्च प्रसुतिरिति सत्तम ॥५५॥
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम ।
दक्षायादात्प्रसितिं च यत आपुरितं जगत ॥५६॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥१२॥