मैत्रेय उवाच
तदेवमाकर्ण्य जलेशभाषितं महामनास्तद्विगणय्य दुर्मदः ।
हरेर्विदित्वा गतिमंग नारदाद रसातलं निर्विविशे त्वरान्वितः ॥१॥
ददर्श तत्राभिजितं धराधरं प्रोन्नियमानावनिमग्नदंष्ट्रया ।
मूष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिय जहास चाहो वनगोचरो मृगः ॥२॥
आहैनमेह्याज्ञ महीं विमुंच नो रसौकसां विश्वसृजेयमर्पिता ।
न स्वास्ति यास्यस्यनया ममेक्षतः सुराधमासादितसुकराकृते ॥३॥
त्वं नः सपत्नैरभवाय किं भृतो यो मायया हन्त्यसुरान परोक्षजित ।
त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥४॥
त्वयि संस्थिते गदया शीर्णशीष ण्यस्मद्भुजच्युतया ये च तुभ्यम ।
बलिं हरन्त्युषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमुलाः ॥५॥
स तुद्यमानोऽरिदुरुक्ततोमरै र्दंष्ट्राग्रगां गामुलक्ष्य भीताम ।
तोदं मृषन्निरगादम्बुमध्याद ग्राहाहतः सकरेणुर्यथेभः ॥६॥
तं निःसरन्तं सलिलादनुद्रुतो हिरण्यकेशो दिवदं यथा झषः ।
करालदंष्ट्रोऽशनिनिःस्वनोऽब्रवीद गतह्नियां किं त्वसतां विगर्हितम ॥७॥
स गामुदस्तात्सलिलस्य गोचरे विन्यस्य तस्यामदधात्सवसत्त्वम ।
अभिष्टुतो विश्वसृजा प्रसुनै रापुर्यमाणो विबुधैः पश्यतोऽरेः ॥८॥
परानुषक्तं तपनीयोपकल्पं महगदं कात्र्चनचित्रदंशम ।
मर्माण्यभीक्ष्णं प्रतुदन्तं दरुक्तैः प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥९॥
श्रीभगवानुवाच
सत्यं वयं भो वनगोचरा मृगा युष्माद्विधान्मृगये ग्रामसिंहान ।
न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्नन्त्यभद्र ॥१०॥
एते वयं न्यासहरा रसौकसां गतह्नियो गदया द्रावितास्ते ।
तिष्ठामहेऽथापि कथात्र्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम ॥११॥
त्वं पद्रथानां किल युथपाधिपो घटस्व नोऽस्वस्तव आश्वनुहः ।
संस्थाप्य चास्मन प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञा नातिपिपर्त्यसम्भः ॥१२॥
मैत्रेय उवाच
सोऽधिक्षित्पो भगवता प्रलब्धश्च रुषा भृशम ।
आजहारोब्लणं क्रोध क्रीडयमानोऽहिराडीव ॥१३॥
सृजन्नमर्षितः श्वासान्मन्युप्रचलितेन्द्रियः ।
आसाद्य तरस दैत्यो गदायाभ्यहनद्धरिम ॥१४॥
भगवास्तुं गदावेगं विसृष्टं रिपुणोरसि ।
अवंचयत्तिरश्चीनो योगारुढ इवान्तकम ॥१५॥
पुनर्गदां स्वामादाय भ्रामयन्तमक्षीक्ष्णशः ।
अभ्यधाद्धरि क्रुद्धः संरम्भाद्दष्टदच्छदम ॥१६॥
ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।
आजघ्रे स तु तां सौम्य गदया कावेदोऽहनत ॥१७॥
एवं गदाभ्यां गुर्वीभ्यां हर्यक्ष्यो हरिरेव च ।
जिगीषया सुसरंब्धावन्योन्यमभिजघ्रतुः ॥१८॥
तयोः स्पृधोस्तिग्मगदाहतागंयोः क्षतास्त्रवघ्राणविवृद्धमन्य्वोः ।
विचित्रमार्गं श्चरतोर्जिगीषया व्यभाकिलायामिव शुष्मिणॊर्मृधः ॥१९॥
दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः ।
कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागादृषिभिर्वृतः स्वराट् ॥२०॥
आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम ।
विलक्ष्य दैत्यं भगवान सहस्त्रवी र्जगाद नारायणमादिसुकरम ॥२१॥
ब्रह्मोवाच
एष ते देव देवानामड घ्रिमुलमुपेयुषाम ।
विप्राणां सौरभेयीम भुतानामप्यनगसाम ॥२२॥
आगस्कृद्द्भयकृदृष्कृदस्मद्राद्ध्यवरोऽसुरः ।
अन्वेषन्नप्रतिरथो लोकानटति कण्टकः ॥२३॥
मैनं मायविनं दृप्तं निरंगकुशमसत्तमम ।
आक्रीड बालवद्देव यथाऽऽश्गीविषमुत्थितम ॥२४॥
न यावदेष वर्धेष स्वां वेलां प्राप्य दारुणः ।
स्वाः देव मायामास्थाय तावज्जह्याघमच्युत ॥२५॥
एषा घोरतमा सन्ध्या लोकच्छम्बटकरी प्रभो ।
उपसर्पति सर्वात्मन सुराणां जयमावह ॥२६॥
अधुनैषोऽभिजिन्नाम योगो मौहुर्तिको ह्याग्रात ।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम ॥२७॥
दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम ।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥२८॥
इति श्रीमद्भागवते महापुराणे संहितायां तृतीयस्कन्धे हिरण्याक्षवधेऽष्टादशोऽध्यायः ॥१८॥