उद्धव उवाच
ततः स आगत्य पुरं स्वपित्रो श्चिकीर्षया शं बलदेवसंयुतः ।
निपात्य तुगांद्रिपुयुथनाथं हतं व्यकर्षद व्यसुमोजसोर्व्यम ॥१॥
सान्द्रीपनेः सात्कृत्प्रोक्त ब्रह्माधीत्य सविस्तरम ।
तस्मै प्रादाद्वरं पुत्रं मृतं पत्र्चजनोदरात ॥२॥
समाहुता भीष्मककन्यया ये श्रियाः सवर्णेन बुभूषयैषाम
गान्धर्ववृत्या मिषतां स्वभागं जह्ने पदं मूर्ध्नि दधत्सुपर्ण ॥३॥
कुकुद्यतोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजीतिमुवाह ।
तद्भग्रमानानपि गृध्यतोऽज्ञा त्र्जघ्रेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥४॥
प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद द्युतरुं यदर्थे ।
वज्रयाद्रवतं सगणो रुषन्धाः क्रीडामृगो नूनमयं वधुनाम ॥५॥
सुतं मृधें खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथित धरित्र्या ।
आमन्त्रित्स्तत्तनयाय शेषं दत्त्वा तदन्तः पुरमविवेशः ॥६॥
तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम ।
उत्थाय सद्यो जगृह प्रहर्ष व्रीडा नुरागप्रहितावलोकैः ॥७॥
आसां मुहुर्त एकस्मिन्नानागरेषु योषिताम ।
सविधं जगृहे पाणीननुरुपः स्वमायय ॥८॥
तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।
एकैकस्यां दश दश प्रकृतेर्विबुभुषया ॥९॥
कालमागधशाल्वादिननीकै रुन्धतः पुरम ।
अजी ;घनत्स्वयं दिव्यं स्वपुरंसां तेज आदिशुत ॥१०॥
शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।
अन्यास्च दन्तवक्त्रादीनवधीत्काश्च घातयत ॥११॥
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नुपान ।
चचाल भूः कुरुक्षेत्रं येशामापततां बलैः ॥१२॥
स कर्णकुश्शसानसौबलांना कुमन्त्रपकेन हतश्रीयायुष्यम ।
सुयोधनं सानुचरं शयानं भग्र्नोरुमूर्व्य न ननन्द पश्यन ॥१३॥
कियान भुवोऽनं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममुलैह ।
आष्टदशाक्षौहिणिको मंदशै रास्ते बलं दुर्विषहं यदुनाम ॥१४॥
मिथो यदैषां भविता विवादो मध्यामतदाताम्रविलोचनानम ।
नैषां वधोपाय इत्यानतोऽन्यो मय्युद्यतेऽन्त्रर्दधते स्व्यं स्म ॥१५॥
एवं संचिन्त्य भगवान स्वराज्ये स्थाप्य धर्मजम ।
नन्दयामस सृहृदः साधुनां वर्त्म दर्शयन ॥१६॥
उत्तरायां धृतः पुरोर्वंशः साध्वभिमन्युना ।
स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥१७॥
अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।
सोऽपि क्ष्म्यामनुजै रक्षन रेमे कृष्णमनुव्रतः ॥१८॥
भगवानपि विश्वात्मा लोकवेदपथानुगः ।
कामान सिषेवे द्वार्वत्यामसक्तः सांख्यामास्थितः ॥१९॥
स्निन्धस्मितावलोकेन वाचा पीयुषकल्पया ।
चरित्रेनानवद्येन श्रीज्निकेतेन चत्मना ॥२०॥
इमं लोकममुं चैव रमयन सुतरां यद्वन ।
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृदः ॥२१॥
तस्यैव रममाणस्य संवत्सरगणन बहुन ।
गृहमेधेषु योगेषु विरागः समजायत ॥२२॥
दैवधीनेषु कामेषु दैवाधीनः स्वयं पुमान ।
को विस्मम्भेत योगेन योगेश्वरमनुव्रतः ॥२३॥
पुर्या कदाचित्क्रीडाद्भिर्यदुभोजकुमारकैः ।
कोपिता मुनयह शेपुर्भगवन्मतकोविदाः ॥२४॥
ततः कतिपयैर्मासैर्वृष्णिभोजन्धकाद्यः ।
ययुः प्रभास संहृष्ट्या रथैर्देवविमोहिताः ॥२५॥
तत्र स्नात्वा पितृन्वेवानृषीश्चैवं तदम्भसा ।
तर्पयित्वथ विप्रेभ्यो गावो बहुगुणा ददुः ॥२६॥
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान ।
यानं रथानिभान कन्या धरां वृत्तिकारीमापि ॥२७॥
अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम ।
गोविप्रार्थासवः शुराः प्रणेमुर्भुवि मुर्धाभिः ।२८॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयास्कन्धे विदुरोद्धसवदे तृतीयोऽध्यायः ॥३॥