शौनक उवाच
कपिलस्तत्त्वसंख्यात भगवात्ममायया ।
जातः स्वयमजः साक्षादात्मप्रज्ञत्पये नृणाम ॥१॥
न हास्य वर्ष्मणः पुसं वरिष्णः सर्वयोगिनाम ।
विश्रुती श्रुतदेवस्य भुरि तृष्यन्ति मेऽसवः ॥२॥
यद्यद्विधते भगवन स्वच्छन्दात्माऽऽत्ममायया ।
तानि मे श्रद्धधानस्य कीर्तन्यान्यनुकीर्तय ॥३॥
सुत उवाच
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥४॥
मैत्रेय उवाच
पितारि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।
तस्मिन बिन्दुसरेऽवात्सीद्भगवान कपिल किल ॥५॥
तमासीनकर्माणं तत्त्वमार्गाग्रदर्शनम ।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥६॥
देवहुतिरुवाच
निर्विण्णा नितरां भुमन्नसदिन्द्रियतर्षणात ।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥७॥
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम ।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात ॥८॥
य आद्यो भगवान पुंसामीश्वरो वै भवान किल ।
लोकस्य तमसान्धस्य चक्षुः सुर्य इवोदितः ॥९॥
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।
योऽवग्रहोऽहंममेतीत्येतस्मिन योजितस्त्वया ॥१०॥
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम ।
जिज्ञासयाहं प्रकृतेः पुरुषस्य नमामि सद्धर्मविदां वरिष्ठम ॥११॥
मैत्रेय उवाच
इति स्वमातुर्निरद्यमीत्सितं निशम्य पुंसामपवगवर्धनम ।
धियाभिनन्द्यात्मवतां सतां गति र्बभाष ईषात्स्मितशोभिताननः ॥१२॥
श्रीभगवानुवाच
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥१३॥
तमिसं ते प्रवक्ष्यामि यमवोचं पुरानघे ।
ऋषींणां श्रोतुकामानां योगं सर्वांगनैपुणम ॥१४॥
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम ।
गुणेषु सक्तं बन्धाय रतं वा पुंसिक मुक्तये ॥१५॥
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः ।
वीतं यदा मनः शुद्धमदुः खमसुखं समम ॥१६॥
तदा पुरुष आत्मानं केवलं प्रकृतेः परम ।
निरन्तरं स्वयंज्योतिरणिमानखण्डितम ॥१७॥
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।
परिपश्यत्यदासीनं प्रकृतिं च हतौजसम ॥१८॥
न युज्यमानया भक्त्या भगवत्याखिलात्मनि ।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मासिद्धये ॥१९॥
प्रसंगमजरं पाशमात्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम ॥२०॥
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥२१॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥२२॥
मदाश्रयाः कथा मृष्टाः श्रृण्वन्ति कथयन्ति च ।
तपन्ति विविधस्तापा नैतान्मन्दतचेतसः ॥२३॥
त एते साधवः साध्वि सर्वसंगविवर्जिताः ।
संगस्तेश्वथ ते प्रार्थ्यः संगदोषहरा हि ते ॥२४॥
संतां प्रसंगन्मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥२५॥
भक्त्या पुमात्र्जातविराग ऐन्द्रियाद दृष्ट श्रुतान्मद्रचनानुचिन्तया ।
चितस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥२६॥
असे वयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहवरुन्धे ॥२७॥
देवहुतिरुवाच
काचित्वय्युचिता भक्तिः कीदृशि मम गोचरा ।
यया पदं ते निर्वाणमज्जसान्वाश्रवा अहम ॥२८॥
यो योगो भववद्वाणो निर्वाणात्मंस्त्वयो दितः ।
कीदृशः कति चांगनि यतस्तत्त्वावबोधनम ॥२९॥
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।
सुखं बुद्धयेय दुर्बोधं योषा भवदनुग्रहात ॥३०॥
मैत्रेय उवाच
विदित्वार्थ कपिलो मातुरिथ्यं जातस्नेहो यत्र तन्वाभिजातः ।
तत्वाम्नायं यत्प्रवदन्ति साख्यं प्रोवाच्च वै भक्तिवितानयोगमः ॥३१॥
श्रीभगवानुवाच
देवानां गुणलिगांनामानु श्रविककर्मणाम ।
सत्त्व एवैकमनसो वृत्तिः स्वाभविकी तु या ॥३२॥
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥३३॥
नैकात्मतां मे स्पृहयन्ति केचिन मत्पादसेवाभिरता मदीहाः ।
येऽन्योन्यतो भागवतः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥३४॥
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि ।
रुपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥३५॥
तैर्दशनीयावयवैरुदार विलासहासेक्षितवामसुक्तैः ।
हृतात्मनो हृतप्राणांश्च भक्ति रनिच्छतो मे गतिमण्वीं प्रयुड्क्ते ॥३६॥
अथो विभुतिं मम मायाविनस्तामैं श्वर्यामष्टांगमनुप्रवृत्तम ।
श्रियम भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्रुवत तु लोके ॥३७॥
न कर्हिचिन्मत्पराः शान्तरुपे नंक्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
ये षामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम ॥३८॥
इमं लोकं तथैवामुमात्मानमुभयायिनम ।
आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥३९॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम ।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥४०॥
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात ।
आत्मनः सर्वभुतानां भयं तीव्रं निवर्तते ॥४१॥
मद्भायाद्वति वातोऽयं सुर्यस्तपति मद्भायात ।
वर्षतीन्द्रो दहत्याग्निर्मृत्युश्चरति मद्भायात ॥४२॥
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।
क्षेमाय पादमुलं मे प्रविशन्त्यकुतोभयम ॥४३॥
एतावानेव लोकेऽस्मिनः पुंसां निःश्रेयासोदयः ।
तीव्रेण बक्तियोगेन मनो मय्यर्पितं स्थिरम ॥४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने पंचविंशोऽध्यायः ॥२५॥