मैत्रेय उवाच
चरमः सिद्विशेषाणामनेकोऽसंयुक्तः सदा ।
परमानुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥१॥
सत एव पदार्थस्य स्वरुपावस्थिस्य यत ।
कैवल्यं परममहानविशेषो निरन्तरः ॥२॥
एवं कालोऽप्यनुमितः सौक्ष्मे स्थौल्ये च सत्तम ।
संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः ॥३॥
स कालः परमाणुर्वै यो भुडक्तें परमाणुताम ।
सतोऽविशेषभुग्यस्तु स कालः परमो महान ॥४॥
अणुर्द्वो परमाणु स्यात्त्रसरेनुस्त्रयः स्मृतः ।
जालार्करश्म्यवगतः खमेवानुपतन्नगात ॥५॥
त्रसनेणुत्रिकं भुड्क्ते यः कालः स त्रुटि स्मृतः ।
शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृत ॥६॥
निमेषस्त्रिलवो ज्ञेय आम्रातस्ते त्रयः क्षणः ।
क्षणान पंच विदुः काष्ठा लघु ता दश पंच च ॥७॥
लघुनि वै सामाम्राता दश पंच च नाडिका ।
ते द्वे मुहुर्तः प्रहरः षड्यामः सप्त वा नृणाम ॥८॥
द्वादशार्धपलोन्मानं चतुर्भिश्चरंगुलैः ।
स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम ॥९॥
यामाश्चत्वाश्चत्वारो मर्त्यानामहर्नी उभे ।
पक्षः पंचदशाहानि शुक्लः कृष्णाश्च मानद ॥१०॥
तयोः समुच्चयो मासः पितृणां तदहर्निशम ।
द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥११॥
अयने चाहनी प्रहुर्वत्सरे द्वादश स्मृतः ।
संवत्सरशतं नृणां परमानुर्निरुपितम ॥१२॥
ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत ।
संवत्सरावसानेन पर्येत्यानिमिषो विभुः ॥१३॥
संवत्सरः परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ॥१४॥
यः सृज्यशक्तिमुरुधोच्छ्वसयन स्वशक्त्या पुंसोऽभ्रमाय दिवि धावति भुतभेदः ।
कालाख्यया गुणमयं क्रतुभिर्वितन्वं स्तस्मै बलिं हरत वत्सरपंचकाय ॥१५॥
विदुर उवाच
पितृदेवमनुष्याणामायुः परमिदं स्मृतम ।
परेशां गतिमाचक्ष्व ये स्युः कल्पाद बहिर्विदः ॥१६॥
भगवान वेद कालस्य गतिं भगवतो ननु ।
विश्वं विचक्षते धीर योगराद्धेन चक्षुषा ॥१७॥
मैत्रेय उवाच
कृतं त्रेतां द्वापरं च कलिश्चेति चतुर्युगम ।
दिव्यैर्द्वादशभिर्वषैः सावधानं निरुपितम ॥१८॥
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम ।
संख्यातानि सहस्त्राणि द्विगुणानि शतानि च ॥१९॥
संध्यांशयोरन्तरेण यः कालः शतसंख्ययोः ।
तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥२०॥
धर्मश्चतुष्पान्मनुजान कृते समनुवर्तते ।
स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥२१॥
त्रिलोक्या युगसाहस्त्रं बहिराब्रह्माणो दिनम ।
तावत्येव निशा तात यन्निमीलति विश्वसृक ॥२२॥
निशावसान आरब्धो लोककल्पाऽनुवर्तते ।
यावद्दिनं भगवतो मनुन भुत्र्जंश्चतुर्दश ॥२३॥
स्वं स्वं कलं मनुर्भुडक्तें साधिकां ह्योकसप्ततिम ।
मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।
भवन्ति चैव युग्पत्सुरेशाश्वानु ये च तान ॥२४॥
एष दैनन्दिनः सर्गो ब्राह्मस्त्रेलोक्यवर्तनः ।
तिर्यनृपितृदेवानां सम्भवो यत्र कर्मभिः ॥२५॥
मन्वन्तरेषु भगवान बिभ्रत्सत्त्वं स्वमूर्तिभिः ।
मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ॥२६॥
तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।
कालेनानुगताशेष आस्ते तूष्णो दिनात्यये ॥२७॥
तमेवान्वपिधियन्ते लोका भुरादयस्त्रयः ।
निशायामनुवृत्तायां निर्मुक्तशशिभास्करम ॥२८॥
त्रिलोक्य दह्यामानायाम शक्त्या संकर्षणाग्निना ।
यान्त्युष्मणा महर्लोकांज्जनं भृग्वादयोऽर्दिताः ॥२९॥
तावत्त्रिभुवनं सद्यः कल्पान्तैधितासिन्धवः ।
प्लावयन्त्युत्कटातोअपचण्डवातेरितोर्मयः ॥३०॥
अन्तः स तस्मिन सलिल आस्तेऽनन्तासनो हरिः ।
उयोगनिरानिमीलाक्षः स्तुयमानो जनालयैः ॥३१॥
एवं विधैरहोरात्रैः कालगत्योपलक्षितैः ।
अपक्षितमिवास्यापि परमायुर्वयःशतम ॥३२॥
यदर्धमायुषस्तस्य परार्धमभिधीयते ।
पुर्व परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते ॥३३॥
पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभुत ।
कल्पो यत्राभवदब्रह्मा शबब्रहोति यं विदः ॥३४॥
तस्यैव चान्ते कल्पोऽभुदं यं पाद्ममभिचक्षते ।
यद्धरेर्नाभिसरस आसील्लोकसरोरुहम ॥३५॥
अयं तु कथितः कल्पो द्वितीयस्यापि भारतः ।
वाराह इति विख्यातो यत्रासीत्सूकरो हरिः ॥३६॥
कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।
अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः ॥३७॥
कालोऽयं पर्माण्वदिर्द्विपरार्ध्यान्त ईश्वरः ।
नैवेशितुं प्रभुर्भुम्न ईश्वरो धाममानिनाम ॥३८॥
विकारई सहितो युक्तैर्विशेषादिभिरावृतः ।
आण्डकोशोबहिरयं पंचाशत्कोटिविस्तृतः ॥३९॥
दशोत्तराधिकैर्यत्र प्रविष्टः परमानूवत ।
लक्ष्यतेऽन्तर्गाताश्चन्ये कोटिशो ह्र्याण्डराशयः ॥४०॥
तदाहुरक्षरं ब्रह्मा सर्वकारनकारणम ।
विष्णोर्धामं परं साक्षात्पुरुष महात्मनः ॥४१॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां तृतीयस्कन्धे एकादशोऽध्यायः ॥११॥