संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|तृतीयः स्कन्धः|
अथ विंशोऽध्यायः

तृतीयः स्कन्धः - अथ विंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


शौनक उवाच

महीं प्रतिष्ठामध्यस्य सौते स्वयम्भुवो मनुः ।

कान्यन्वतिष्ठद द्वारणि मार्गायवरजन्मनाम ॥१॥

क्षत्ता महाभागवतः कृष्णस्यैकान्तिकह सुहृत ।

यस्तत्याजग्रजं कृष्णै सापत्यमघवनिती ॥२॥

द्वैपायनादनवरो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥३॥

किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।

उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम ॥४॥

तयोः संवदतोः सुतः प्रवृत्त ह्मामलाः कथाः ।

आपो गांगां इवाघघ्रीर्हरेः पादाम्बुजाश्रयाः ॥५॥

ताः नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।

रसज्ञः को नृतृप्येत हरिलीलामृतं पिबन ॥६॥

एवमुग्रश्रवा पृष्ट ऋषिभिर्नैमिषायनैः ।

भगवत्यार्पिताध्यात्मास्तनाह श्रुयतामिति ॥७॥

सुत उवाच

हरे‍र्धुतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात ।

लीलां हिरण्याक्षमवज्ञया हतं सत्र्जातहषो मुनिमाह भारतः ॥८॥

विदुर उवाच

प्रजापतिपतिः सृष्टवा प्रजसर्गे प्रजापतीन

किमारभत मे ब्रह्मान प्रब्रुह्याव्यक्तमार्गवित ॥९॥

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।

ते वै ब्रह्माण आदेशात्कथमेतदभावयन ॥१०॥

सद्वितीयाः किमसृजन स्वतन्त्रा उत कर्मसु ।

आहेस्वित्संहताः सर्व इदं स्म समकल्पयन ॥११॥

मैत्रेय उवाच

दैवेन दुर्वितर्क्यण परेणानिमिषेण च ।

जातक्षोभाद्भग्वतो महानासीद गुणत्रयात ॥१२॥

रजः प्रधानान्महतास्त्रिलिंगो दैवचोदितात ।

जातः ससर्ज भुतादिर्वियदादीनि पंचशः ॥१३॥

तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम ।

संहत्य दैवयोगेन हैममण्डमवासृजन ॥१४॥

सोऽशियिष्टब्धिसलिले आण्डकोशो निरात्मकः ।

साग्रम वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः ॥१५॥

तस्य नाभेरभुत्पद्यं सहस्त्रार्कोरुदीधिति ।

सर्वजीवनिकार्योको यत्र स्वयमभूत्स्वराट ॥१६॥

सोऽनिविष्ठो भगवता यः शेते सलिलाशये ।

लोकसंस्था यथापूर्व निर्ममे संस्थया स्वया ॥१७॥

ससर्ज छाययाविद्यां पंचपर्वाणमग्रतः ।

तामिस्रमन्धतामिस्त्र तमो मोहो महातमः ॥१८॥

विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम ।

जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तुटममुद्धवाम ॥१९॥

क्षुत्तृंभयामुपसृष्टास्ते तं जग्धुमभिदुद्रुवः ।

म रक्षतैनं जक्षध्वमित्युचुः क्षुत्तृडर्दिताः ॥२०॥

देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।

अहो मे यक्षरक्षांसि प्रजा युयं बभुविथ ॥२१॥

देवताः प्रभया या या दिव्यन प्रमुख्यतोऽसृजत ।

ते अहार्षुर्देवन्तो विसृष्टा तां प्रभामहः ॥२२॥

देवोऽदेवात्र्जघनतः सृजति स्मातिलोलुपान ।

त एनं लोलुपतया मैथुनायाभिपोदिरे ॥२३॥

ततो हसन स भगवानसुरैर्निरपत्रपैः ।

अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत ॥२४॥

स उपव्रज्य वरदं प्रपन्नर्तिहरं हरिम ।

अनुग्रहाय भक्तानामनुरुपात्मदर्शनम ॥२५॥

पाहि मां परमात्मस्तें प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपाक्रमान्ति मां प्रभोः ॥२६॥

त्वमेकः किल लोकांना क्लिष्टांना क्लेशानाशानः ।

त्वमेकः क्लेशदतेषामनासन्नपदां तव ॥२७॥

सोऽवधार्यास्य कार्पण्य विविक्ताध्यात्मदर्शनः ।

विमुंचात्मतनुं घोआमित्युक्तो विमुमोच ह ॥२८॥

तां क्वणच्चरणाम्भोजं मदविह्नललोचनाम ।

कात्र्चीकलापाविलसद्रुकुलच्छन्नरोधसम ॥२९॥

अन्योन्यश्‍लेषयोऽत्तंगनिरन्तरपयोधराम ।

सुनासं सुद्विजां स्रिग्धहासलीलावलोकनाम ॥३०॥

गुहन्ती व्रीडयाऽऽत्मानं नीलालकवरुथिनीम ।

उपलभ्यासुर धर्म सर्व सम्मुमुहुः स्त्रियम ॥३१॥

अहो रुपमहो धैर्यमहो अस्या नवं वयः ।

मध्ये कामयमानानामकामेव विसर्पति ॥३२॥

वितर्कयन्तो बहुधा तां संन्ध्यां प्रमदाकृतिम ।

अभिसम्भाव्य विश्वम्भात्पर्यपृच्छन कुमेधसः ॥३३॥

कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि ।

रुपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥३४॥

या वा काचित्वमबले दिष्ट्या सन्दर्शनं तव ।

उत्सुनोषीक्षणामांनां कन्दुकक्रीडया मनः ॥३५॥

नैकत्र ते जयाति शालिनि पादपद्मं घ्रन्त्या मुहुः करतलेन पतत्पतंगम ।

मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिरमल सुशिखासमुहः ॥३६॥

इति सायन्तनीं सन्ध्यामसुराः प्रमयायतीम ।

प्रलोभयन्ती जगृहुर्मत्वा मुढधियः स्त्रियम ॥३७॥

प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।

कन्त्या ससर्ज भगवान गन्धर्वाप्सरसां गणान ॥३८॥

विससर्ज तनुं तां वैं ज्योत्स्नां कान्तिमतीं प्रियाम ।

त एवं चाददुः प्रीत्या विश्वाव्सुपुरोगमाः ॥३९॥

सृष्टवा भुतपिषाचांस्च भगवानात्मतन्दिणा ।

दिग्वाससो मुक्तकेशान वीक्ष्य चामीलयददृशौ ॥४०॥

जगृहस्तद्विष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्रामिन्द्रियाविक्लेदो यया भुतेषु दुश्यते ।

येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥४१॥

ऊर्जस्वन्तं मन्यमानं आत्मानं भगवानजः ।

साध्यानह गणान पितृगणान परोक्षोणासुजत्पभुः ॥४२॥

त आत्मसर्गं त कायं पितरं प्रतिपेदिरे ।

साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥४३॥

सिद्धान विद्याधरांश्चैव तिरोधानेन सोऽसृजत ।

तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम ॥४४॥

स किन्नरान किम्पुरुषान प्रत्यात्म्येनासृजत्प्रभुः ।

मानयन्नात्मनाऽऽत्मानत्माभासं विलोकयन ॥४५॥

ते तु तज्जगुह रुपं त्यंक्तं यत्परमिष्ठिना ।

मिथुनीभुय गायन्तस्तमेवोषसि कर्मभिः ॥४६॥

देहेन वै भोगवता शयानो बहुचिन्तया ।

सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः ॥४७॥

येऽहीयन्तामुतः केशा अहयस्तेऽड जज्ञिरे ।

सर्पाः प्रसर्पतः क्रुरा नगा भोगोरुकन्धराः ॥४८॥

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभुः ।

तदा मनुन ससर्जान्ते मनसा लोकभावनात ॥४९॥

तेभ्यः सोऽत्यसृजत्स्वीयं पुरं पुरुषमात्मवान ।

तान दृष्टवा ये पुरा सृष्टाः प्रशंशंसुः प्रजापतिम ॥५०॥

अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम ।

प्रतिष्ठिताह क्रिया यस्मिन साकमन्नमदामहे ॥५१॥

तपसा विद्यया युक्तो योगेन सुसमाधिना ।

ऋषीनृषिर्हृषीकेशः सहर्जाभिमताः प्रजाः ॥५२॥

तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः ।

यत्तत्समाधियोगर्द्धितपोविद्यविरक्तिमत ॥५३॥

इति श्रीमद्भागवते महापुराणे पारमंहस्यां संहितायां तृतीयस्कन्धे विंशोंऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP