विदुर उवाच
अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।
प्रजाः सहर्ज कतिधा दैहिकिर्मानसीर्विभुः ॥१॥
ये च मे भगवन पृष्टास्त्वय्यर्था बहुर्वित्तम ।
तान वदस्वानुपुर्व्येण छिन्धि नः सर्वसंशयान ॥२॥
सुत उवाच
एवं सत्र्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।
प्रीतः प्रत्याह तान प्रश्नात हृदिस्थानथ भार्गव ॥३॥
मैत्रेय उवाच
विरित्र्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।
आत्मन्यात्मनमावेश यदाह भगवानजः ॥४॥
तद्विलोक्याब्जसम्भुतो वायुना यदधिष्ठितः ।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम ॥५॥
तपसा ह्योधमानेन विद्यया चात्मसंस्थया ।
विवृद्धविज्ञानबलो न्यपद वायुं सहाम्भसा ॥६॥
तद्विलोक्य वियदव्यापि पुष्करं यदधिष्ठितम ।
अनेन लोकान प्राग्लीनान कल्पितास्मीत्यचिन्तयत ॥७॥
पद्मकोशं तदाऽविश्व भगवत्कर्मचोदितः ।
एकं व्यभांगिदुरुधा त्रिधा भाव्यं द्विसत्पधा ॥८॥
एतावत्र्जीवलोकस्य संस्थाभेदः समाहृतः ।
धर्मस्य ह्वानिमित्तस्य विपाक परमेष्ठसौ ॥९॥
विदुर उवाच
यदात्थ बहुरुपस्य हरेरद्भुतकर्मणः ।
कालाख्यं लक्षणं ब्रह्मान यथा वर्णय नः प्रभो ॥१०॥
मैत्रेय उवाच
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।
पुरुषस्तदुपादानमात्मनं लीलयासृजत ॥११॥
विश्वं वै ब्रह्मातन्मात्रं संस्थिनं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमुर्तिना ॥१२॥
यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम ।
सर्गो नवविधस्तस्य प्राकृते वैकॄतस्तु यः ॥१३॥
कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ।
आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥१४॥
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः ।
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान ॥१५॥
चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।
वैकारिको देवसर्गेः पंचमो यन्मयं मनः ॥१६॥
षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभो ।
षडिमो प्राकृताः सर्गा वैकृतानपि मे श्रृणु ॥१७॥
रजोभाजो भगवतो लीलेयं हरिमेधसः ।
सप्तमो मुख्यसर्गस्तु षडविधस्तस्थुषां च यः ॥१८॥
वनस्पत्योषधिलतात्वक्सासा वीरुधो द्रुमाः ।
उत्स्रोतसस्तमः प्राया अन्तः स्पर्शा विशेषिणः ॥१९॥
तिरश्चामष्टमः सर्गः सोऽष्टाविंशाद्विधो मतः ।
अविदो भुरितमसो घ्राणज्ञा हृद्यवेदिनः ॥२०॥
गौरजो महिषः कृष्णः सुकरो गवयो रुरुः ।
द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥२१॥
खरोऽश्चोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफः क्षत्तः श्रुणु पंचनखान पशुन ॥२२॥
श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ ।
सिंह कपिर्गजः कूर्मो गोधा च मकरादयः ॥२३॥
कंकगृध्रवटश्येनभासभल्लुकबर्हिणः ।
हंससारसचक्राह्वकाकोलुकादयः खगाः ॥२४॥
अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम ।
रजोऽधिकाः कर्मपरा दुःखे सुखमानिनः ॥२५॥
वै कृतास्त्रय एवैते देवसर्गश्च सत्तम ।
वैकारिकस्तु यः प्रोक्त कौमारस्तु भयात्मकः ॥२६॥
देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।
गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥२७॥
भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।
दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥२८॥
अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च ।
एवं रजः प्लुतः स्रष्ट कल्पादिष्वात्मभूर्हरिः ।
सृजत्यमोघसंकल्प आत्मैवात्मानमात्मना ॥२९॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धे दशमोऽध्यायः ॥१०॥