विदुर उवाच
स्वायम्भुवस्य च मनोर्वशः परमसम्मतः ।
कथ्यतां भगवन यत्र मैथुनेनैधिरे प्रजाः ॥१॥
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।
यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम ॥२॥
तस्य वै दुहिता ब्रह्मान्देवहुतीति विश्रुता ।
पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥३॥
तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।
ससर्ज कतिधा वीर्यं तन्मे शुश्रुषवे वद ॥४॥
रुचिर्यो भगवान ब्रह्मान्दक्षो वा ब्राह्मणः सुतः ।
यथा ससर्ज भुतानि लब्ध्वा भार्या च मानवीम ॥५॥
मैत्रेय उवाच
प्रजाः सृजेति भगवान कर्दमो ब्रह्माणोदितः ।
सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥६॥
ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम ॥७॥
तावत्प्रसन्नो भगवान पुष्कराक्षः कृते युगे ।
दर्शयामास तं क्षत्तः शाब्दं ब्रह्मा दधद्वपुः ॥८॥
स तं विरजमर्काभं सितपद्मोत्पलस्रजम ।
स्निग्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम ॥९॥
किरीटिनं कुण्डलिनं शंखचक्रगदाधरम ।
श्वेतोत्पलक्रीदनकं मनःस्पर्शस्मितेक्षणम ॥१०॥
विन्यस्तचरणाम्भोजमंसदेश गुरुत्मतः ।
दॄष्टवा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम ॥११॥
जातहर्षोऽपतन्मुर्धा क्षितौ लब्धमनोरथः ।
गीर्भिस्त्वभ्यगृनात्प्रीतिस्वभावात्मा क्रुताज्जालिः ॥१२॥
ऋषिरुवाच
जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः ।
यद्दर्शनं जन्मभिरीड्य सद्धिराशासते योगिनो रुढयोगाः ॥१३॥
ये मायया ते हतमेधसत्त्वत पादरविन्दं भवसिन्धुपोतम ।
उपासते कामलवाय तेषां रासीश कामन्निरयेऽपि ये स्युः ॥१४॥
तथा स चाहम परिवोढुकामः समानशीलां गृहमेधधेनुम ।
उपेयिवान्मुलमशेषमुलं दुरशयः कामदुघाडघ्रिपस्य ॥१५॥
प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः ।
अहं च लोकानुगतो वहामि बलिं च शुक्लऽनिमिषाय तुभ्यम ॥१६॥
लोकंश्च लोकानुगतान पशुंश्र्च हित्वा श्रितास्ते चरणतपत्रम ।
परस्परं त्वद्र्णवादसीधु पीयुषनिर्यापितदेहधर्माः ॥१७॥
न तेऽजरक्षभ्रमिरयुरेषां त्रयोदशार त्रिशत षष्टिपर्व ।
षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत ॥१८॥
एकः स्वयं सत्र्जगतह सिसृक्षयाऽद्वितीययाऽऽत्मन्नधियोगमायया ।
सृजस्यदः पासि पुनर्ग्र सिष्यसे यथोर्णनाभिर्भगवन स्वशक्तिभिः ॥१९॥
नैतद्वताधीश पदं तवेत्सितं यन्मायया नस्तनुषे भुतसुक्ष्मम ।
अनुग्रहायास्त्वापि यर्हि मायया लसतुलस्य तनुवा विलक्षितः ॥२०॥
तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम ।
नमाम्यभीक्ष्ण नमनीयपाद सरोजमलीपयसि कामवर्षम ॥२१॥
ऋषिरुवच
इत्यव्यलीकं प्रनुतोऽब्जनाभ स्तमाबभावे वचसामृतेन ।
सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमदभ्रुः ॥२२॥
श्रीभगवानुवाच
विदित्वा तव चैत्यं मे पुरैव समयोजि तत ।
यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः ॥२३॥
न वै जातु मृषैव स्यात्पजाध्यक्ष मदर्हणम ।
भवद्विधेष्वतितरां मयि संगृभितात्मनाम ॥२४॥
प्रजापतिसुतः सम्राण्मनुर्विख्यातमंगलः ।
ब्रह्मावर्तं योऽधिवसन शास्ति सप्तार्णवां महीम ॥२५॥
स चेह विप्र राजर्षिर्महिष्या शतरुपया ।
आयास्यति दिदृक्षुस्त्वां परश्चो धर्मकोविदः ॥२६॥
आत्मजामसितापांडी वयः शीलगुणान्विताम ।
मृगयन्ती पतिं दास्यत्यनुरुपाय ते प्रभो ॥२७॥
समाहितं ते हृअयं यत्रेमान परिवत्सरान ।
सा त्वां ब्रह्मान्नृइपवधुः काममाशु भजिष्यति ॥२८॥
या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।
वीर्ये त्वदीये ऋषय आधास्यन्त्यत्र्जसाऽऽत्मनः ॥२९॥
त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः ।
मयि तीर्थाकृताशेषाक्रियार्थो मां प्रपत्स्यसे ॥३०॥
कृत्वा दयां च जीवेषु दत्त्वा चाभयमत्मवान ।
मय्यात्मानं सह जगद द्रक्ष्यस्यात्मनि चापि माम ॥३१॥
सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।
तव क्षेत्रे देवहुत्यां प्रणेष्ये तत्वसंहिताम । \३२॥
मैत्रेय उवाअ
एव तमनुभाष्याथ भगवान प्रत्यगक्षजः ।
जगाम बिन्दुसरसः सरस्वत्या परिश्रितात ॥३३॥
निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः ।
आकर्णयन पत्ररथेन्द्रपक्षै रुच्चारितं स्तोममुदीर्णसाम ॥३४॥
अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः ।
आस्ते स्म बिन्दुसरसिं तं कालं प्रतिपालयन ॥३५॥
मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम ।
आरोप्य स्वां दुहितरं साभार्यः पर्यटन्महीम ॥३६॥
तस्मिन सुधन्वन्नहनि भगवान यत्समादिशत ।
उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत ॥३७॥
यस्मिन भगवतो नेत्रान्न्यपतनश्रुबिन्दवः ।
कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम ॥३८॥
तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम ।
पुण्यम शिवामृतजलं महर्षिगणोसेवितम ॥३९॥
पुण्यद्गुमलताजालैः कुजत्पुण्यमृगद्विजैः ।
सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम ॥४०॥
मत्ताद्विजगणैर्घृष्टं मत्तभ्रमरविभ्रमम ।
मत्तबर्हिनटाटेपमाह्वयन्मत्तकोकीलम ॥४१॥
कदम्बचम्पकाशोकक्रत्र्जबकुलासनैः ।
कुन्दमन्दारकुतजैश्चुतपोतैरलंकृतम ॥४२॥
कारण्डवैः प्लवैर्हसैः कुररैर्जलकुक्कुटैः ।
सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कुजितम ॥४३॥
तथैव हरिणैः क्रोडैः श्वाविद्गवयकुत्र्जरैः ।
गोपुच्छैर्हरिभिर्मकैर्नकुलैर्नाभिभिर्वृतम ॥४४॥
प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः ।
ददशं मुनिमासीन तस्मिन हुतहुताशनम ॥४५॥
विद्योतमानं वपुषा तपस्युग्रयुजा चिरम ।
नातिक्षामं भगवतः स्निग्धापांगावलोकनात ।
तदव्याहृतामृतकलापीयुषश्रवणेन च ॥४६॥
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम ।
उपसंसृत्य मलिनं यथार्हणमसंस्कृतम ॥४७॥
अथोटजमुपायांत नृदेवं प्रणतं पुरः ।
सपर्यया पर्यगृह्नात्प्रतिनन्द्यानुरुपया ॥४८॥
गृहीतार्हणमासीन संयतं प्रीणयन्मुनिः ।
स्मरन भगादादेशमित्याह श्लक्ष्नया गिरा ॥४९॥
नुनं चडक्रमणं देव सतां सरक्षणाय ते ।
वधाय चासतां यस्त्वां हरेः शक्तिर्हि पालिनी ॥५०॥
योऽर्केन्द्वग्रीन्द्रवायुनां यमधर्मप्रचेतसाम ।
रुपाणिस्थान आधत्से तस्मै शुक्लाय ते नमः ॥५१॥
न यदा रथामास्थाय जैत्रंक मणिगणर्पितम ।
विस्फुर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान ॥५२॥
स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः ।
विकर्षन बृहतीं सेनां पर्यटस्यंशुमानिव ॥५३॥
तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।
भगवद्रचिता राजन भिद्येरन बत दस्युभिः ॥५४॥
अधर्मश्च समेधेत लोलुपैर्व्यडकुशैर्नृभिः ।
शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनंडक्ष्यति ॥५५॥
अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः ।
तद्वयं निर्व्यलीकेन प्रतिपद्मामहे हृदा ॥५६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥२१॥