मैत्रेय उवाच
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।
दयालु शालिनीमाह शुक्लभिव्यहृतं स्मरन ॥१॥
ऋषिरुवाच
मा खिदो राजपुत्रीत्थमात्मान प्रत्यनिन्दिते ।
भगवांस्तेऽक्षरो गर्भमदुरात्सम्प्रपत्स्यते ॥२॥
धृतव्रतासि भद्रं ते दमेन नियमेव च ।
तपोद्रविणदानैश्च श्रद्धया चेश्चरं भज ॥३॥
स त्वयाऽऽराधितः शुक्लो वितन्वन्मामकं यशः ।
छेत्ता ते हृदयग्रन्थिमौदर्या बह्माभावनः ॥४॥
मैरेय उवाच
देवहुत्यपि संदेश गौरवेण प्रजापतेः ।
सम्यक श्रद्धाय पुरुषं कुटस्थमभजद्गुजम ॥५॥
तस्या बहुतिथे काले भगवान्मधुसुदनः ।
कार्दमं वीर्यमापत्रो यज्ञेऽग्निरिव दारुणी ॥६॥
अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः ।
गायन्तिं तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥७॥
पेतुः सुमनसो दिव्या खेचरैरपवर्जिता ।
प्रसेदुश्च दिशः सर्वां अम्भांसि च मनांसि च ॥८॥
तत्कार्दमाश्रमपदं सरस्वत्य परिश्रितम ।
स्वयम्भुः साकमृषिभिर्मरीच्या दिभिरभ्ययात \।९॥
भगवन्तं परं ब्रह्मा सत्त्वेनांशेन शत्रुहन ।
तत्वसंख्यानविज्ञपत्यै जातं विद्वानजः स्वराट ॥१०॥
सभाजयन विशुद्धेन चेतसा तच्चिकीर्षितम ।
प्रहष्यमाणैरसुभिः कर्दमं चेदनभ्यधात ॥११॥
ब्रह्मोवाच
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।
यन्मे सत्र्जगृहे वाक्य भवान्मानद मानयन ॥१२॥
एतावत्येव शुश्रुषा कार्या पतरी पुत्रकैः ।
बाढमित्यानुमन्येत गौरवेण गुरोर्वचः ॥१३॥
इमा दिहितरः सभ्य तव वत्स सुमध्यमाः ।
सर्गमेतं प्रभावैः स्वैर्बृहयिष्यन्त्यनेद्कधा ॥१४॥
अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।
आत्मजाः परिदेह्याद्य विस्तृणीहि यशो भुवि ॥१५॥
वेदाहमाद्यं पुरुषमवतीर्ण स्वमायया ।
भुतांना शेवधिं देहं बिभ्राणं कपिलं मुने ॥१६॥
ज्ञानविज्ञानायोगेन कर्मणामुद्धरन जटाः ।
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥१७॥
एष मानवि ते गर्भं प्रविष्टः कैटभार्दन ।
अविद्यासंशयग्रन्थिं छित्वा गां विचारिष्यति ॥१८॥
अयं सिद्धगणाधीशः सांख्याचार्यै सुसम्मतः ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥१९॥
मैत्रेय उवाच
तावाश्चास्य जगत्स्रष्टा कुमारैः सहनारदः ।
हंसो हंसेन यानेन त्रिधाना परमं ययौ ॥२०॥
गये शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।
यथोदितं स्वदुहितौः प्रादद्विश्वसृजां तवः ॥२१॥
मरीचये कलां प्रादादनसुयामथात्रये ।
श्रद्धामगीरसेऽयच्छत्पुलस्त्याय हविर्भुवम ॥२२॥
पुलहाय गतिं युक्तां क्रतवे च क्रिया सताम ।
ख्यातिं च भुगवेऽयच्छद्वसिष्ठायाप्यरुध्नतीम ॥२३॥
अथर्वणेऽददाच्छन्ति यया यज्ञो वितन्यते ।
विप्रर्षभान कृतोद्वाहान सदरान समलालतय ॥२४॥
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्रय तम ।
प्रातिष्ठिन्नन्दिपन्नाः स्वं स्वमाश्रममण्डलम ॥२५॥
स चावतीर्ण त्रियुगमाज्ञाय विबुधर्षभम ।
विविक्त उपसंगम्य प्रणम्य समभाषत ॥२६॥
अहो पापच्यमानानां निरये स्वैरमंगलैः ।
कालेन भुयसा नुनं प्रसीदन्तीह देवताः ॥२७॥
बहुजन्मविपक्वेन सम्यग्योगसमाधिना ।
द्रष्टुं यतन्ते यतयः शुन्यागारेषु यत्पदम ॥२८॥
स एव भगवानद्य हेलनं नगणय्य नः ।
गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥२९॥
स्वीयं वाक्यमृतं कर्तृमवतीर्णोऽसि मे गृहे ।
चिकिर्षुर्भगवान ज्ञानं भक्तांना मानवर्धनः ॥३०॥
तान्येव तेऽभिरुपाणि रुपाणी भगवंस्तव ।
यानि यानि च रोचन्ते स्वजनानामरुपिणः ॥३१॥
त्वां सुरिभिस्तत्त्वबुव्भुत्सयाद्धा सदाभिवादार्हणपादपीठम ।
ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पुर्तमयं प्रपद्ये ॥३२॥
परं प्रधानं पुरुषं महन्तं कलं कविं त्रिवृतं लोकपालम ।
आत्मानुभूत्य्नुगतप्रपंच स्वच्छन्दशक्ति कपिलं प्रपद्ये ॥३३॥
आ स्माभिपृच्छेऽद्य पतिं प्रजाणां त्वयावतीर्नार्ण उतापकामः ।
परिव्र्जप्तदवीमास्थितोऽहं चरिष्ये त्वा हृदि युज्जन विशोकः ॥३४॥
श्रीभगवानुच मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥३५॥
एतन्मे जन्म लोकऽस्मिन्मुमुक्षुणां दुराशयात ।
प्रसंख्यानाय तत्वांना सम्मतयात्मदर्शने ॥३६॥
एष अत्मपथोऽव्यक्तो नष्टः कालेन भुयसा ।
तं प्रवर्तयितुं देहमिमम विद्धि मया भृतम ॥३७॥
गच्छ कामं मयाऽऽपृष्टो मयि संन्यस्तकर्मणा ।
जित्वा सदुर्जयं मृत्युममृतत्वाय मां भज ॥३८॥
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयन ।
आत्मनेवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥३९॥
मात्र अध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम ।
वितारिष्ये यथा चासौ भयं चातितरिष्यति ॥४०॥
मैत्रेय उवाच
एवं समुदितस्तेन कपिलेन प्रजापतिः ।
दक्षिणीकृतं तं प्रीतो वनमेव जगाम ह ॥४१॥
व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ।
निःसंगो व्यचरत्क्षोणीमनग्नीरनिकेतनः ॥४२॥
मन , ब्राह्मणि युत्र्जानो यतत्सदसतः परम ।
गुणावभासे विगुण एकभक्त्यानुभाविते ॥४३॥
निरहंकृतिर्निर्ममश्च निर्द्वन्दुः समदृक स्वदृक ।
प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥४४॥
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धन ॥४५॥
आत्मानं सर्वभुतेषु भगवन्तमवास्थितम ।
अपश्यत्सर्वभुतानि भगवत्यपि चात्मनि ॥४६॥
इच्छाद्वेषाविहीनेन सर्वत्र समचेतसा ।
भगवद्भाक्तियुक्तेन प्राप्त भागवती गतिः ॥४७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलिये चतुर्विशोऽध्यायः ॥२४॥