मैत्रेय उवाच
सत्सेवनीयो बत पुरुवंशो यल्लोकपालो भगवत्प्रधानः ।
बभुविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्षणम ॥१॥
सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्रतानां विरमाय तस्य ।
प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः ॥२॥
आसीनमुर्व्या भगवन्तमाद्यं संकंर्षणं देवमकुण्ठसत्तम ।
विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन ॥३॥
स्वमेव धिष्ण्यं बहु मानयन्तं यं वासुदेवाभिधमामनन्ति ।
प्रत्यग्धृताक्षाम्बुजकोशमीश दुन्मीलयन्तं विबुधोदयाय ॥४॥
स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृश्यन्तश्चरणोपधानम ।
पद्मं यदर्चन्त्यहिराजकन्याः सप्रेमनानाबलिभिर्वरार्थाः ॥५॥
मुहुर्गणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः ।
किरीटसाहस्त्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम ॥६॥
प्रोक्त किल्लैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन ।
सनत्कृमाराय स चाह पृष्टः सांख्यायनायांग धृतव्रताय ॥७॥
सांख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभुतीः ।
जगाद सोऽस्मदुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च ॥८॥
प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम ।
सोऽहं तवैतत्कथयामि वत्स श्राद्धालवे नित्यमनुव्रताय ॥९॥
उदाप्त्लुतं विश्वमिदं तदाऽऽसीद यन्निद्रयामीलिअदृड न्यमीलयत ।
अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरती निरीहः ॥१०॥
सोऽन्तं शरीरेऽर्पितभुतसुक्ष्मः कालत्मिकां शक्तिमुदीरयाणः ।
उवस तस्मिन सलिले पदे स्वे यथानलो दारुणि रुद्धर्वीर्यः ॥११॥
चर्तुर्यगांनां च सहस्रमप्सु स्वपन स्वयोदीरितया स्वशक्त्या ।
कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपईतान्ददृशे स्वदेहे ॥१२॥
तस्यार्थसुक्ष्मभिनिविष्टदृष्टे रन्तर्गतोऽर्थो रजस तनीयान ।
गुणेन कालानुगतेन विद्धः सुष्यंस्तदाभिद्यत नाभिदेशात ॥१३॥
स पद्मकोशः सासोदतिष्ठत कालेन कर्मप्रतिबोधनन ।
स्वरोषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः ॥१४॥
तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम ।
तस्मिन स्वयं वेदमयो विधाया स्वयम्भुवं स्म वदन्ति सोऽभुत ॥१५॥
तस्या स चाम्भोरुहकर्णिकाया मवस्थोतो लोकपश्यमनः ।
परिक्रमन व्योम्रि विवृत्तनेत्र श्र्चत्वारिलेभेऽनिदिशं मुखानि ॥१६॥
तस्माद्युगान्त श्वसनावघूर्ण जलोर्मिचक्रात्सलिलादिरुढम ।
उपाश्रितः कत्र्जमु लोकतत्व नात्मानमद्धाविदददिदेवः ॥१७॥
क एष योऽसावहमब्जपृष्ठ एतात्कृतो वाब्जर्मनन्यदप्सु ।
अस्ति ह्याधस्तादिह कित्र्चनैत दधिष्ठितं यत्र सता नु भाव्यम ॥१८॥
स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश ।
नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वस्तविन्दताजः ॥१९॥
तमस्यपारे विदुरात्मसर्ग विचिन्वतोऽभुत्सुमहांस्त्रिणेमिः ।
यो देहभाजां भयमीरयाणः परीक्षिणोत्यायुरजस्य हेतिः ॥२०॥
ततो निवृत्तोऽप्रतिलब्धकामः स्वाधिष्णयमसासाद्य पुनः स देवः ।
शनैर्जितश्वासैनिवृत्तचित्तो न्यर्षिददरुढामाधियोगः ॥२१॥
कलेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरुढबोध ।
स्वयं तदन्यर्हृयेऽवभात मपश्यतपश्यत यन्न पूर्वम ॥२२॥
मृणालगरुरायतशेषभोगपर्यंक एकं पुरुषं शयानम ।
फणातपत्रायुतमुर्धरत्न द्युर्भिर्हतध्वान्तयुगान्ततोये ॥२३॥
प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममुर्ध्नः ।
रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजांडघ्रिपाडघ्रेः ॥२४॥
आयामतो विस्तरतः स्वमानदेहेन लोकत्रयसंग्रहेण ।
विचित्रदिव्याभरणाशुकाना कृताश्रियापाश्रितवेषदेहम ॥२५॥
पुंसां स्वकामाय विविक्तमार्गे रभ्यर्चतां कामदुघाडघ्रिपद्मम ।
प्रदर्शयन्तं कृपया नखेन्दु मयुखभिन्नडुलिचारुपत्रम ॥२६॥
मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्दितेन ।
शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्रवा ॥२७॥
कदम्बा किंजल्कपिशंगवाससा स्वलंकृतं मेखलया नितम्बे ।
हारेण चानन्तधनेन वत्स श्रीवत्सवक्षः स्थलवल्लभेन ॥२८॥
परार्ध्यकेयुरमणिप्रवेक पर्यस्तदोर्दन्डसहस्रशाखम ।
अव्यक्तमुलं भुवनाडघ्रिपेन्द्र महीन्द्रभोगैरधिवीतवल्शम ॥२९॥
चराचारौको भगवन्महीध्र महीन्द्रबन्धुं सलिलोपगूढम ।
कीरीटसाहस्रहिरण्यश्रृगं माविर्भवत्कृस्तुभरत्नगर्भम ॥३०॥
निवीतमाम्रायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम ।
सूर्येन्दुवाय्वग्न्यनमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम ॥३१॥
तर्ह्योव तन्नाभिसरः सरोज मत्मानमम्भः श्वसनं वियच्च ।
ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥३२॥
स कर्मबीजं रजसोपरक्तः प्रजः सिसृक्षन्नियदेव दृष्ट्वा ।
अस्तैद्विसर्गाभिमुखस्तमीड्य मव्यक्तवर्मन्यभिवेशितात्मा ॥३३॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयस्कन्धेऽष्टमोऽध्यायः ॥८॥