ऋषिरुवाच
इति तासं स्वशक्तिंना सतीनामसमेत्य सः ।
प्रसुत्पलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥१॥
कालसंज्ञां तदा देवीम बिभ्रच्छक्तिमुरुक्रमः ।
त्रयोविंशतितत्वानां गण युगपदविशत ॥२॥
सोऽनुप्रविष्टो भगवांश्चेष्टारुपेन तं गणम ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन ॥३॥
प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।
प्रेरितोऽजनयत्स्वाभिर्मात्राभिरधिपुरुषम ॥४॥
परेण विशता स्वस्मिन्मात्रया विश्वस्रुग्ग्णः ।
चुक्षोभन्योन्यमासाद्य यस्मिँल्लोकाश्चराचराः ॥५॥
हिरण्यमः स पुरुषः सह्स्त्रपरिवत्सरान ।
आण्डकोश उवासाप्सु सर्वसत्तोपबृंहितः ॥६॥
स वै विश्वसृजां गर्भो देवकार्मात्मशक्तिमान ।
विबभाजात्मनाऽऽत्मानमेकधा दशधा त्रिधा ॥७॥
एष ह्याशेषसत्त्वानामात्मांशः परमात्मनः ।
आद्योऽवतारो यत्रासौ भुतग्रामो विभव्यते ॥८॥
साध्यात्मः साधिदैवश्च साधिभुत इति त्रिधा ।
विराट प्राणो दशविध एकधा हृदयेन च ॥९॥
स्मरन विश्वसृजमीशो विज्ञापितमधोक्षजः ।
विराजमतपत्स्वेन तेजसैषां विवृत्तये ॥१०॥
अथ तस्याभितप्तस्य कति चायतनानि ह ।
निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥११॥
तस्याग्निरस्यं निर्भिन्नं लोकोपालोऽविशत्पदम ।
वाचा स्वाशेनं वक्तव्यं ययसौ प्रतिपद्यते ॥१२॥
निर्भिन्नं तालु वरुणों लोकपालोऽविशद्धरेः ।
जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥१३॥
निर्भिन्ने अश्विनी नासे विष्णोराविशतां पदम ।
घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत ॥१४॥
निर्भिन्ने अक्षिणीक त्वष्ठा लोकपालोऽविषद्विभोः ।
चक्षुषाशेनं रुपाणां प्रतिपत्तिर्यतो भवेत ॥१५॥
निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत ।
प्राणेनांशेन संस्पर्श येनासौ प्रतिपद्यते ॥१६॥
कर्णावस्य विनिर्भिनौ धिष्ण्यं स्वं विविशुर्दिशः ।
श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥१७॥
त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः ।
अंशेन रोमभिः कण्डुं यैरसौ प्रतिपद्यते ॥१८॥
मेढ्रां तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत ।
रेतसांशेन येनासावानन्दं प्रतिपद्यते ॥१९॥
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत ।
पायुनांशेन येनासौ विसर्ग प्रतिपद्यते ॥२०॥
हस्तावस्य विनिर्भिन्नविद्नः स्वर्पतिराविशत ।
वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥२१॥
पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत ।
गत्या स्वाशेन पुरुषो यया प्राप्यं प्रपद्यते ॥२२॥
बुद्धीं चास्य विनिर्भिन्नं वागीशो धिष्ण्यमाविशत ।
बोधेनांशेन बोद्धव्यं प्रतिपत्तिर्यतो भवेत ॥२३॥
हृदयं चास्य निर्भिस्यं चन्द्रमा धिष्णयमाविशत ।
मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥२४॥
आत्मानं चास्य निर्भिन्नमभिमानोऽविशत्पदम ।
कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥२५॥
सत्वं चास्य विनिर्भिन्नं महान्धिष्ण्यमुपाविशत ।
चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥२६॥
शीष्णौऽस्य द्यौर्धस्य पद्भर्यां खं नाभेरुदपद्यतः ।
गुणांना वृत्तयो येषु प्रतीयन्ते सुरादयः ॥२७॥
आत्यन्तिकेन सत्वेन दिवं देवाः प्रपेदिरे ।
धरां रजः स्वभावेन भगवन्नाभिमाश्रिताः ॥२८॥
तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः ।
उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥२९॥
मुखतोऽवर्तत ब्रह्मा पुरुशस्य कुरुद्वह ।
यस्तुन्मुखत्वाद्वणांना मुखोऽभुद ब्राह्मणो गुरुः ॥३०॥
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रत ।
यो जातस्त्रायते वर्णान पौरुषः कण्टकक्षातात ॥३१॥
विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।
वैश्यस्तदुद्भवो वर्तां नृणां य समवर्तयत ॥३२॥
पद्भयां भगवतो यज्ञे शुश्रुषा धर्मसिद्धये ।
तस्या जातः पुरा शुद्रो यदवृत्या तुष्यते हरिः ॥३३॥
एते वार्णाः स्वधर्मण यजन्ति स्वगुरुं हरिम ।
श्रद्धयाऽऽत्मविशुद्धर्थं यज्जाताः सह वृत्तिभिः ॥३४॥
एतत्क्षत्तर्भगतो दैवकर्मात्मरुपिणः ।
कः श्रद्धध्यादुपाकर्तु योगमायाबलोदयम ॥३५॥
अथापि कीर्तयाम्यंग यथामति यथाश्रुतम ।
कीर्ति हरेः स्वां सत्कर्तं गिरमन्याभिधसतीम ॥३६॥
एकान्तलाभं वचसो नु पंसां सुश्लोकमौर्लेगुणवादमाहुः ।
श्रुतेश्व विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम ॥३७॥
आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।
संवत्सरसहस्रान्ते धिया योगविपक्कया ॥३८॥
अतो भगवतो माया मायिनामपि मोहिनी ।
यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥३९॥
यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह ।
अहं चान्य इमे देवास्तस्मैः भगवतो नमः ॥४०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयास्कन्धे षष्ठोऽध्यायः ॥६॥