संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|तृतीयः स्कन्धः|
अथ त्रयोविंशोऽध्यायः

तृतीयः स्कन्धः - अथ त्रयोविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


मैत्रेय उवाच

पितृभ्यां प्रस्थिते स्वाध्वी पतिमिगितकोविदा ।

नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम ॥१॥

विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।

शुश्रुषया सौहृदेन वाचा मधुरय च भोः ॥२॥

विसृज्य कामं दम्भं च द्वेषं लोभमयं मदम ।

अप्रमत्तोद्मता नित्यं तेजीयांसमतोषयत ॥३॥

स वै देवर्षिवर्यस्तां मानवी समनुव्रताम ।

दैवादगरीयसः पत्युरशासानां महाशिषः ॥४॥

कालेन भुयसा क्षामा कार्शितां व्रतचर्यया ।

प्रेमगद्गदया वाचा पीडित कृपयाब्रवीत ॥५॥

कर्दम उवाच

तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रुषया परमया परया च भक्त्या ।

यो देहिनामतीव सौहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे ॥६॥

ये मे स्वधर्मनिरतस्य तपः समाधि विद्यात्मयोगाविजिता भगवत्प्रसादाः ।

तानेव ते मदनुसेवनयावरुद्धान दृष्टिं प्रपश्य वितराम्यभयानशोकान ॥७॥

अन्ये पुनर्भगातो भ्रुव उद्विजृभ्म विभ्रशितार्थरचनाः किमरुक्रमस्य ।

सिद्धासि भुडक्ष्व विभवान्निजधर्मदोहान दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥८॥

एवं ब्रुवाणनबलाखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत ।

सम्प्रश्रयाप्रणयविह्वलया गिरेषद व्रीडावलोकविलसद्धसिताननाऽऽह ॥९॥

देवहुतिरुवाच

राद्धं बत द्विजवृषैतदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः ।

यस्तेऽभ्यधायि समयः सकृदगंसगों भुयादगरीयसि गुणः प्रसवः सतीनाम ॥१०॥

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैषै मे कर्शितोऽतिरिरंसयाऽऽत्मा ।

सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व ॥११॥

मैत्रेय उवाच

प्रियायाः प्रियमन्विच्छन कर्दमो योगमास्थितः ।

विमानं कामगं क्षत्तस्तर्होवाविरचीकरत ॥१२॥

सर्वकामदुथं दिव्यं सर्वरत्‍नसमन्वितम ।

सर्वद्धर्युपचयोदर्क मणिस्तम्भै रुपस्कृतम ॥१३॥

दिव्योपकरणोपतं सर्वकालसुखावहम ।

पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम ॥१४॥

स्त्रग्भिर्विचित्रमाल्यभिर्मत्र्जुशित्र्जत्षडघ्रिभिः ।

दुकुलक्षौमकौशेयैर्नानावस्त्रै र्विराजितम ॥१५॥

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक ।

क्षिप्तैः कशिपुभिः कान्तं पर्यंकंव्यजनासनैः ॥१६॥

तत्र तत्र विनिक्षित्पनानाशिल्पोपशोभितम ।

महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥१७॥

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत ।

शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्चितम ॥१८॥

चक्षुष्मत्पद्मरागाग्रयैर्वज्रभित्तिषु निमित्तैः ।

जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः ॥१९॥

हंसपारायतव्रातैस्तत्र तत्र निकुजितम ।

कृत्रिमान मन्यमानैः स्वानधिरुह्याधिरुह्या च ॥२०॥

विहारस्थानविश्रामसंवेशप्रांगणाजिरैः ।

यथोपजोषं रचितैर्विस्मापनमिवात्मानः ॥२१॥

ईदृग्गृहं तत्पश्यन्ती नातिप्रीतेन चेतसा ।

सर्वभुताशयानिज्ञः प्रवोचत्कर्दमः स्वयम ॥२२॥

निमज्जास्मिन ह्रदे भीरु विमानमिदमारुह ।

इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम ॥२३॥

सा तद्भर्तृः समादाय वचः कुवलयेक्षणा ।

सरजं बिभ्रती वासो वेणीभुतांश्च मुर्धजान ॥२४॥

अंग च मलपकेन संछन्नं शबलस्तनम ।

आविवेश सरस्वत्याः सरः शिवजलाशयम ॥२५॥

सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः ।

सर्वाः किशोरवयसो ददर्शोप्तलगन्धयः ॥२६॥

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राज्ललयः स्त्रियः ।

वयं कर्मकरीस्तुभ्यं शाधि न करवाम किम ॥२७॥

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम ।

दुकुले निर्मले नुत्‍ने ददुस्स्यै च मानदाः ॥२८॥

भुषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।

अन्नं सर्वगुणोपेतं पानं चैवामृतासवम ॥२९॥

अथादर्शो स्वमात्मानं स्रग्विण विरजाम्बरम ।

विरजं कृतस्वस्त्ययनं कन्यभिर्बहुमानितम ॥३०॥

स्नातं कृतशिरः स्नानं सर्वाभरणभूषितम ।

निष्काग्रीवं वलयिनं कुजत्कात्र्चननुपुरम ॥३१॥

श्रोण्योरध्यस्तया कात्र्च्या कात्र्च्यन्या बहुरत्‍नया ।

हारेण च महार्हेण रुचकेन च भुषितम ॥३२॥

सुदता सुभ्रुवा श्लक्ष्णस्निग्धापांडेन चक्षुषा ।

पद्मकोशस्पृधा नीलैरलकैस्च लसन्मुखम ॥३३॥

यदा सस्मार ऋषभमृषीणां दयितं पतिम ।

तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः ॥३४॥

भर्तुः पुरसतादत्मानं स्त्रीसहस्रवृतं तदा ।

निशाम्य तद्योगगतिं संशयं प्रत्यपद्मत ॥३५॥

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत ।

आत्मनो बिभ्रतीं रुपं संवीतरुचिरस्तनीम ॥३६॥

विद्याधरीसहस्त्रेण सेव्यमानां सुवाससम ।

जातभावो विमानं तदारोहयदमित्रहन ॥३७॥

तस्मित्रलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने ।

बभ्राज उत्कचकुमुद्गणवनपीच्य स्ताराभिरावृत इवोडुपतिर्नभःस्थ ॥३८॥

तेनाष्तलोकपविहारकुलाचलेन्द्र द्रोणीष्वनंगसखमारुतसौ भगासु ।

सिद्धैर्नुतो द्युधुनिपांतशिवस्वनासु रेमे चिरं धनदवल्ललनावरुथी ॥३९॥

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।

मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥४०॥

भ्राजिष्णुना विमानेन कामगेन महीसया ।

वैमानिकानत्यशेत चरँल्लोकान यथानिलः ॥४१॥

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम ।

यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ॥४२॥

प्रेक्षयित्वा भुवो गोलं पत्‍न्यै यावान स्वसंस्थया ।

ब्राह्मश्चर्य महायोगी स्वाश्रमाय न्यवर्तत ॥४३॥

विभज्य नवधाऽऽत्मानं मानवीं सुरतोऽत्सुकाम ।

रामां नियमयन रेमे वर्षपुगान्मुहुर्तवत ॥४४॥

तस्मिन विमान उत्कृष्टां शय्यां रतिकरीं श्रितां ॥

न चाबुध्यतं तं कालं पत्यापीच्येन संगता ॥४५॥

एवं योगानुभावेन दम्पत्यो रममाणयोः ।

शतं व्यतीयुः शरदः कामलालसयोर्मनाक ॥४६॥

तस्यामाधत्त रेतस्तां भावयन्नात्मनाऽऽत्मवित ।

नोधा विधाय रुपं स्वं सर्वसंकल्पाविद्विभुः ॥४७॥

अतः सा सुषुवे सद्यो देवहुतिः स्त्रिः प्रजाः ।

सर्वास्ताश्चारुसर्वांग्यो लोहितोत्पलगन्धयः ॥४८॥

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती ।

स्मयमाना विक्लवेन हृदयेन विदुयता ॥४९॥

लिखन्त्यधोमुखी भुमिं पदा नखमणिश्रिया ।

उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥५०॥

देवहुतिरुवाच

सर्व तद्भगवान्मह्यामुपोवाह प्रतिश्रुतम ।

अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥५१॥

ब्रह्मान्द्रुहितृभिस्तुभ्यं विमृग्यां पतयः समाः ।

काश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम ॥५२॥

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।

इन्दोयार्थेषु सज्जन्त्या प्रसंगस्त्वायि मे कृतः ।

इन्द्रियार्थपसंगेन परित्यक्तपरात्मनः ॥५३॥

इन्द्रियार्थेषु सज्जन्त्य प्रसगंस्त्वयि मे कृतः ।

अजानन्त्या परं भावं तथाप्यस्त्वाभयाय मे ॥५४॥

संगो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ।

स एव साधुषु कृतो निःसंगत्वाय कल्पते ॥५५॥

नेह यत्कर्म धर्माय न विरागाय कल्पते ।

न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥५६॥

साहं भगवतो नुनं वचिता मायया दुढम ।

यत्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात ॥५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्यने त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP