श्रीशुक उवाच
इति भागवतः पृष्ट क्षत्त्रा वार्तां प्रियाश्रयाम ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठत्स्मारितेश्वरः ॥१॥
यः पत्र्चहायनो मात्रा प्रातराशाय याचितः ।
तत्रैच्छद्रचयन यस्य सपर्यां बाललीलया ॥२॥
स कथं सेवय तस्य कालेन जरसं गतः ।
पृष्टो वार्ता प्रतिर्ब्रुयाद्भर्तुह पादावनुस्मरन ॥३॥
स मुहुर्तमभूत्तुष्णी कृष्णांडघ्रिसुधया भृशम ।
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृत्तः ॥४॥
पुलकोद्भिन्नसर्वांगो मुत्र्चन्मीलदद्वशां शुचः ।
पूर्नार्थो लक्षितस्तेन स्नेहप्रसरमल्पुतः ॥५॥
शनकैर्भावल्लोकान्नृलोकं पुनरागतः ।
विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन ॥६॥
उद्धव उवाच
कृष्णद्युमणिनिम्लोचे गीर्णेश्वजगरेण ह ।
किं नु नः कुशलं ब्रुयां गतश्रीषु गृहेष्वहम ॥७॥
दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम ॥८॥
इडिंतज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः ।
सात्वतामृषभं सर्वे भूतावासमसमंसत ॥९॥
देवस्य मायया स्पृष्टा ये चान्यदसदाक्षिताः ।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युत्पात्मनो हरौः ॥१०॥
प्रदर्श्यातत्पतपसामवितृप्तदृशां नॄणाम ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम ॥११॥
यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहितम ।
विस्मापनं स्वस्य च सौभगद्धेः परं परं भूषणभूषणांगम ॥१२॥
यद्धर्मसुनोर्बत राजसुते निरिक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
कात्स्न्येन चाद्येह गतं विधातु रर्वाक्सृतौ कौशलमित्यमन्यत ॥१३॥
यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः ।
व्रजस्रियो दृग्भिरनुप्रवृत्त धियोवतस्थुः किल कृत्यशेषाः ॥१४॥
स्वशन्तरुपेष्वितरैः स्वरुपै रभ्यर्द्यमानिष्वनुकम्पितात्मा ।
परावरेशो महदंशयुक्तो ह्याजोपि जातो भगवान यथाग्निः ॥१५॥
मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे ।
व्रजे च वासोऽरिभयादिव स्वयं पुराद व्यवात्सीद्यदनन्तवीर्यः ॥१६॥
दिनोति चेतः स्मरतोममैतद यदाह पादावभिवन्द्य पित्रोः ।
ताताम्ब कंसादुरुशंकितांनां प्रसीदतं नोऽकृतिनिष्कृतीनाम ॥१७॥
को वा अमुष्याडघ्रिसरोजरेणुं विस्मर्तुमीशीतपुमान विजिघ्रन ।
यो विस्पुरदभ्रुविटपेन भुमे र्भारं कुतान्तेन तिरश्चकार ॥१८॥
दृष्टा भवर्द्भिर्ननु राजसुये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।
यां योगिनः संस्पृहयन्ति सम्यग योगेन कस्तद्विरहं सहेत ॥१९॥
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम ।
नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपुताः पदमापुरस्य ॥२०॥
स्वयं त्वसाम्यतिशयस्त्र्याधीशः स्वारायलक्ष्म्याप्तसमस्तकामः ।
बलिं हरिद्बिश्चिरलोकपालैः किरीटकोट्यडितपादपीठः ॥२१॥
तत्तस्य कैंकर्यमलं भृतान्नो विग्लापयत्यंग यदुग्रसेनम ।
तिष्ठन्निषण्णं परमोष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ॥२२॥
अहो बकीं यं स्तनकलकुटं जिघांसंयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालु शरणं व्रजेम ॥२३॥
मन्येऽसुरान भागवतांस्त्र्यधीशे संरम्भ्यामार्गाभिनिविष्टचित्तान ।
ये संयुगेऽचक्षत तार्क्ष्यपुत्र मंसे सुनाभयुधमापतन्तम ॥२४॥
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
चिकीर्षुर्भगवानस्याः शमजेनाभियचितः ॥२५॥
ततो नन्दव्रजमितः पित्रां कंसाद्विबिभ्यत ।
एकादश समास्तत्र गुढार्चिः सबलोऽवसत ॥२६॥
परीतो वत्सर्पैर्वत्सांश्चारयव व्यहरद्विभुः ।
यमुनोपवने कुजदद्विजसंकुलितांडघ्रिपे ॥२७॥
कौमारीं दर्शनश्चेष्टां प्रेक्षणींयां व्रजौकसाम ।
रुदन्निव हसन्मुग्धबालासिहावलोकनः ॥२८॥
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम ।
चारयन्ननुगान गोपान रणद्वेणररीमत ॥२९॥
प्रयुक्तान भोजराजेन मायिनः कामरुपिणः ।
लीलया व्यनुदत्तास्तानु बलः क्रीडनकानिवः ॥३०॥
विपप्रान विषपानेन निगृह्ना भुजागाधिपम ।
उत्थाप्यपाययद्गावस्तत्तोयं प्रकृतिस्थितम ॥३१॥
अयाजयद्रोसवेन गोपराजं द्विजोत्तमैः ।
वित्तस्य चोरुभारस्य चिकीर्षन सदव्ययं विभुः ॥३२॥
वर्ष तीन्द्रे व्रजः कोपाद्भग्रमानिऽतिविह्नलः ।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥३३॥
शरणच्छशिकरैर्मृष्टं मानयन रजनीमुखम ।
गायन कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥३४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां ; संहितायां तृतीयस्कन्धे विदुरेद्धवसंवादे द्वितीयोऽध्यायः ॥२॥