श्रीशुक उवाच
द्वरी द्युनद्या ऋषभः कुरुणं मैत्रेयमासीनमगाधबोधम ।
क्षत्तोपसृत्याच्युतभावशुद्ध पप्रच्छ सौशील्यगुणाभितृप्तः ॥१॥
विदुर उवाच
सुखाय कर्मणि करोति लोको न तईः सुखं वान्यदुपरमं वा ।
विन्देत भुयस्तत एव दुःखं यदत्र युक्तं भगवान वदेन्नः ॥२॥
जनस्य कृष्णद्विमुखस्य दैवा दधर्मशीलस्य सदुः खितस्य ।
अनुर्गहायेह चरन्ति नुनं भुतानि भव्यानि जनार्दनस्य ॥३॥
तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान येन पुंसाम ।
हृदि स्थितो यच्छति भक्तिपुते ज्ञानं सतत्वाधिगमं पुराणम ॥४॥
करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्यधीशः ।
यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्ती जगतो विधते ॥५॥
यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः ।
योगेश्वराधीश्वर एक एत दनु प्रविष्टो बहुधा यथाऽऽसीत ॥६॥
क्रीडन विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः ।
मनो ते तृप्यत्यत्पि श्रृण्वतांनः शुश्लोकर्मालैस्चरितामृतानि ॥७॥
यैस्तत्त्वभेदैरधोलोकनाथो लोकानलोकान सह लोकपालान ।
अचीक्लृपद्यन्न हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः ।८॥
येन प्रजानामुत आत्मकर्म रुपाभिधानां न भिदां व्यधत्त ।
नारायणो विश्वसुदात्मयोनि रेतच्च नो वर्णय विप्रवर्य ॥९॥
परवरेषां भगवत व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम ।
अतृन्पुम क्षुल्लसुकहवहांना तेषामृते कृष्णकथामृतौघात ॥१०॥
कस्तृप्नुयात्तीर्थपदोऽभिधानात सत्रेषु वः सुरिभिरीड्यमानात ।
यः कर्णनाडीं पुरुषस्य यातो भवप्रदं गेहरतिं छिनत्ति ॥११॥
मुनिर्विवक्षुर्भ वदगुणांना सखापि ते भारतमाह कृष्णः ।
यस्मिन्नुणां ग्रामयसुखानुवादै र्मतिर्गृहिता नु हरेः कथायाम ॥१२॥
सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः ।
हरेः पदनुस्मतिनिर्वृतस्य समस्तदुः खात्ययमाशु धत्ते ॥१३॥
तान शोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन ।
क्षिणोति देवोऽनिमिषस्तु येषा मायुर्वृथवादगतिस्मृतीनाम ॥१४॥
तदस्य कौषारव शर्मदातु र्हरेः कथामेव कथासु सारम ।
उदधृय पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥१५॥
स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहितशक्तिः ।
चकार कर्माण्यतिपुरुषाणि यानीश्वर कीर्तय तानि महाम ।१६॥
श्रीशुक उवाच
स एवं भगवान पृष्टः क्षत्त्रा कौषरविर्मुनिः ।
पुंसा निःश्रेयसर्थेन तमह बहु मानयन ॥१७॥
मैत्रेय उवाच
साधु पॄष्ट्र त्वया साधो लोकान साध्वनुगह्णता ।
कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥१८॥
नैतच्चितं त्वयि क्षत्तर्बादरायणवीर्यजे ।
गृहीतोऽनन्यभावेन यत्त्वया हरीरीश्वरः ॥१९॥
मान्डव्यशापद्भवान प्रजासंयमनो यमः ।
भ्रातुःक्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात ॥२०॥
भवान भगवतो नित्यं सम्मतः सानुगस्य च ।
यस्य ज्ञानोपदेशाय माऽऽदिशद्भगवान व्रजन ॥२१॥
अथ ते भगवल्लीला योगमायोपबृंहितः ।
विश्वस्थित्युद्भवान्तार्था वर्नयाम्यनुपूर्वशः ॥२२॥
भगवानेका आसेदमग्न आत्मऽऽत्मनां विभुः ।
आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥२३॥
स वा एष द्रष्टा नापश्यद दृश्यमेकाराट ।
मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तदृक ॥२४॥
सा व एतस्य संद्रष्टुः शक्ति सदसदात्म्का ।
माया नाम महाभाग ययेदं निर्ममे विभुः ॥२५॥
कालवृत्या तु माययां गुणमय्यामधोक्षजः ।
पुरुषेणात्मभुतेन वीर्यमाधत्त वीर्यवान ॥२६॥
ततोऽभवन महत्तत्वमव्यक्तात्कालचोदितात ।
विज्ञानात्माऽऽत्मदेह्स्थं विश्वं व्यत्र्जंस्तमोदुन्दः ॥२७॥
सोऽप्यं शगुणकालात्मा भवददुष्टिगोचरः ।
आत्मानं व्यकारोदात्मा विश्वस्यास्य सिसृक्षया ॥२८॥
महत्तत्वाद्व९कुर्वानादहंतत्वं व्यजायत ।
कर्यकारणकर्त्रात्मा भुतेन्दिर्यमनोमयः ॥२९॥
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।
अहंतत्त्वादिकृर्वाणान्मनो वैकारिकादभुत ।
वैकारिकाश्च ये देवा अर्थाभिव्यत्र्जनं यतः ॥३०॥
तैजसानीन्दियाण्येव ज्ञानकर्ममयानि च ।
तामसो भुतसुक्ष्मादिर्यतः खं लिंगमात्मनः ॥३१॥
कालमायंशयोगेन भग्वद्वीक्षितं नभः ।
नभसोऽनुसॄतं स्पर्श विकृर्वन्निर्ममेऽनिलम ॥३२॥
अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।
ससर्ज रुपतन्मात्रं ज्योतिर्लोकस्य लोचनम ॥३३॥
अनिलेनान्वितं ज्योतिर्विकृर्वत्परवीक्षितम ।
आधात्ताम्भो रसमयं कालमायांशयोगतः ॥३४॥
ज्योतिषाम्भोऽनुसंसृष्टं विकृर्वदब्रह्मवीक्षितम ।
महीं गन्धगुणामाधात्कालमायांशयोगतः ॥३५॥
भुतांना नभाअदिनां यद्यद्भव्यावरावरम ।
तेषां परनुसंसर्गाद्यथासंख्य गुणान विदुः ॥३६॥
एते देवाः कला विष्णोः कालमायांशलिंगिनः ।
नानात्वात्स्वक्रियानीशाः प्रोचुः प्रात्र्जलयो विभुम ॥३७॥
देवा ऊचुः
नमाम ते देव पदरविन्दं प्रपन्नतापोपशमातपत्रम ।
यन्मुलकेता यतयोऽत्र्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ॥३८॥
धातर्यदस्मिन भव ईश जीवा स्तापत्रयेणोपहत नशर्म ।
आत्मँल्लभन्ते भगवंस्तवाडघ्रि च्छायां सविद्यामत आश्रयेम ॥३९॥
मार्गन्ति यत्ते मुखपद्मनीडै श्छन्दः सुपर्णैऋषयो विविक्ते ।
यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥४०॥
यच्छ्रद्धया श्रुतवत्या च भक्त्या संमुज्यमाने हृदये ऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽडघ्रिसरोजपीठम ॥४१॥
विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्भुजं ते ।
व्रजेम सर्वे शरण यदीशम स्मृतं प्रयच्छत्यभयं स्वपुंसाम ॥४२॥
यत्सानबन्धेऽसति देहगेहे ममाहमित्युढदुराग्रहाणाम ।
पुंसां सुदुरं वसतोऽपि पुर्यों भजेत तत्ते भगवान पदाब्जम ॥४३॥
तान वै ह्यासदवृत्तिभिरक्षिभिर्य पराहृतात्नर्मनसः परेश ।
अथो न पश्यन्त्युरुगाय नुनं ये ते पदनासविलासलक्ष्याः ॥४४॥
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथात्र्जसान्वीयुर्कुण्ठधिष्णम ॥४५॥
तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृति बलिष्ठम ।
त्वामेव धीराः पुरुषं विशन्ति तेषाः श्रम स्यान्न तु सेवया ते ॥४६॥
तत्ते वयं लोकसिसृक्षयाऽऽद्य त्वयानुसष्टास्त्रिभिरात्मभिः स्म ।
सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत्प्रतिहर्तव्य ते ॥४७॥
यावदुबलिं तेऽज हराम काले यथा वय चान्नमदाम यत्र ।
यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनुहाः ॥४८॥
त्वं नः सुराणमसि सान्वयानां कुटस्थ आद्यः पुरुषः पुराणः ।
त्वं देव शक्त्या गुणकर्मयोनी रेतस्त्वजाय़ां कविमादधेऽजः ॥४९॥
ततो वयं सत्प्रमुखा यदर्थे बभुविमात्मन करवाम किं ते ।
त्वं नः स्वचक्षुः परिदोहि शक्त्या देव क्रियार्थ यदनुग्रहाणाम ॥५०॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितायां तृतीयास्कन्धे पंचमोऽध्यायः ॥५॥