धर्मारण्य खण्डः - अध्याय ३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
व्यास उवाच ॥
श्रूयतां नृपशार्दूल कथां पौराणिकीं शुभाम् ॥
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१॥
एकदा धर्मराजो वै तपस्तेपे सुदुष्करम् ॥
ब्रह्मविष्णुमहेशाद्यैर्जलवर्षांतपादिषाट् ॥२॥
आदौ त्रेतायुगे राजन्वर्षाणामयुतत्रयम् ॥
मध्येवनं तपस्यंतमशोकतरुमूलगम् ॥३॥
शुष्कस्नायुपिनद्धास्थिसंचयं निश्चलाकृतिम् ॥
वल्मीककीटिकाकोटिशोषिताशेषशोणितम् ॥४॥
निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥
शंखकुदेंदुतहिनमहाशंखलसच्छ्रियम् ॥५॥
सत्त्वावलंबितप्राणमायुःशेषेण रक्षितम् ॥
निश्वासोच्छ्वास पवनवृत्तिसूचितजीवितम् ॥६॥
निमेषोन्मेषसंचारपशुनीकृतजन्तुकम् ॥
पिशंगितस्फुरद्रश्मिनेत्रदीपितदिङ्मुखम् ॥७॥
तत्तपोग्निशिखादाव चुंबितम्लानकाननम् ॥
तच्छांत्युदसुधावर्षसंसिक्ताखिलभूरुहम ॥८॥
साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ॥
निराकृतिं निराकाशं कृत्वा भक्तिं च कांचनम् ॥९॥
कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ॥
निनादभीषणास्यैश्च वनजैः परिरक्षितम् ॥१०॥
एतादृशं महाभीमं दृष्ट्वा देवाः सवासवाः ॥
ध्यायंतं च महादेवं सर्वेषां चाभयप्रदम् ॥११॥
ब्रह्माद्या दैवता सर्वे कैलासं प्रति जग्मिरे ॥
पारिजाततरुच्छायामासीनं च सहोमया ॥१२॥
नदिर्भृंगिर्महाकालस्तथान्ये च महागणाः ॥
स्कन्दस्वामी च भगवान्गणपश्च तथैव च ॥
तत्र देवाः सब्रह्माद्याः स्वस्वस्थानेषु तस्थिरे ॥१३॥
॥ ब्रह्मोवाच ॥
नमोस्त्वनंतरूपाय नीलश्च नमोऽस्तु ते ॥
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥१४॥
नांतं देवा विजानंति यस्य तस्मै नमोनमः ॥
यं न वाचः प्रशंसंति नमस्तस्मै चिदात्मने ॥१५॥
योगिनो यं हृदः कोशे प्रणिधानेन निश्चलाः ॥
ज्योतीरूपं प्रपश्यति तस्मै श्रीब्रह्मणे नमः ॥१६॥
कालात्पराय कालाय स्वेच्छया पुरुषाय च ॥
गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥१७॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥
तमोरूपाय रुद्राय स्थितिसर्गांतकारिणे ॥१८॥
नमो बुद्धिस्वरूपाय त्रिधाहंकाररूपिणे ॥
पंचतन्मात्ररूपाय नमः प्रकृतिरूपिणे ॥१९॥
नमो नमः स्वरूपाय पंचबुद्धींद्रियात्मने ॥
क्षित्यादिपंचरूपाय नमस्ते विषयात्मने ॥२०॥
नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ॥
अर्वाचीनपराचीनविश्वरूपाय ते नमः ॥२१॥
अनित्यनित्यरूपाय सदसत्पतये नमः ॥
नमस्ते भक्तकृपया स्वेच्छावि ष्कृतविग्रह ॥२२॥
तव निश्वसितं वेदास्तव वेदोऽखिलं जगत् ॥
विश्वाभूतानि ते पादः शिरो द्यौः समवर्तत ॥२३॥
नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ॥
चंद्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ॥२४॥
त्वमेव सर्वं त्वयि देव सर्वं सर्वस्तुति स्तव्य इह त्वमेव ॥
ईश त्वया वास्यमिदं हि सर्वं नमोऽस्तु भूयोऽपि नमो नमस्ते ॥२५॥
इति स्तुत्वा महादेवं निपेतुर्दंडवत्क्षितौ ॥
प्रत्युवाच तदा शंभुर्वरदोऽस्मि किमिच्छति ॥२६॥
॥ महादेव उवाच ॥
कथं व्यग्राः सुराः सर्वे बृहस्पतिपुरोगमाः ॥
तत्समाचक्ष्व मां ब्रह्मन्भवतां दुःखकारणम् ॥२७॥
॥ ब्रह्मोवाच ॥
नीलकंठ महादेव दुःखनाशाभयप्रद ॥
शृणु त्वं दुःखमस्माकं भवतो यद्वदाम्यहम् ॥२८॥
धर्मराजोऽपि धर्मात्मा तपस्तेपे सुदुःसहम् ॥
न जानेऽसौ किमिच्छति देवानां पदमुत्तमम् ॥२९॥
तेन त्रस्तास्तत्तपसा सर्व इंद्रपुरोगमाः ॥
भवतोंघ्रौ चिरेणैव मनस्तेन समर्पितम् ॥
तमुत्थापय देवेश किमिच्छति स धर्मराट् ॥३०॥
॥ ईश्वर उवाच ॥
भवतां नास्ति नु भयं धर्मात्सत्यं ब्रवीम्यहम् ॥३१॥
तत उत्थाय ते सर्वे देवाः सह दिवौकसः ॥
रुद्रं प्रदक्षिणीकृत्य नमस्कृत्वा पुनःपुनः ॥३२॥
इन्द्रेण सहिताः सर्वे कैलात्पुनरागताः ॥
स्वस्वस्थाने तदा शीघ्रं गताः सर्वे दिवौकसः ॥३३॥
इन्द्रोऽपि वै सुधर्मायां गतवान्प्रभुरीश्वरः ॥
न निद्रां लब्धवांस्तत्र न सुखं न च निर्वृतिम् ॥३४॥
मनसा चिंतयामास विघ्नं मे समुपस्थितम् ॥
अवाप महतीं चितां तदा देवः शचीपतिः ॥३५॥
मम स्थानं पराहर्तुं स्तपस्तेपे सुदुश्चरम् ॥
सर्वान्देवान्समाहूय इदं वचनमब्रवीत् ॥३६॥
॥ इन्द्र उवाच ॥
शृण्वंतु देवताः सर्वा मम दुःखस्य कारणम् ॥
दुःखेन मम यल्लब्धं तत्किं वा प्रार्थयेद्यमः ॥
बृहस्पतिः समालोक्य सर्वान्दे वानथाब्रवीत् ॥३७॥
बृहस्पतिरुवाच ॥
तपसे नास्ति सामर्थ्यं विघ्नं कर्तुं दिवौकसः ॥
उर्वश्याद्या समाहूय संप्रेष्यंतां च तत्र वै ॥३८॥
तासामाकारणार्थाय प्रतिद्वारं प्रतस्थिवान्॥
स गत्वा ताः समादाय सभायां शीघ्रमाययौ॥३९॥
आगतास्ता हरिः प्राह महत्कार्यमुपस्थितम् ॥
गच्छन्तु त्वरिताः सर्वा धर्मारण्यं प्रति द्रुतम् ॥४०॥
यत्र वै धर्मराजोसौ तपश्चक्रे सुदुष्करम् ॥
हास्यभावकटाक्षैश्च गीतनृत्यादिभिस्तथा ॥४१॥
तं लोभयध्वं यमिनं तपःस्थानाच्च्युतिर्भवेत् ॥
देवस्य वचनं श्रुत्वा तथा अप्सरसां गणाः ॥४२॥
मिथः संरेभिरे कर्तुं विचार्य च परस्परम्॥
धर्मारण्यं प्रतस्थेसावुर्वशी स्वर्वरांगना ॥४३॥
तुष्टुवुः पुष्पवर्षाश्च ससृजुस्तच्छिरस्यमी ॥
ततस्तु देवैर्विप्रैश्च स्तूयमानः समंततः ॥४४॥
निर्ययौ परमप्रीत्या वनं परमपावनम् ॥
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥४५॥
न सूर्यो भाति तत्रैव महांधकार संयुतम्॥
निर्जनं निर्मनुष्यं च बहुयोजनमायतम् ॥४६॥
मृगैः सिंहैर्वृतं घोरेरन्यैश्चापि वनेचरैः ॥
पुष्पितैः पादपैः कीर्णं सुमनोहरशाद्वलम् ॥४७॥
विपुलं मधुरानादैर्नादितं विहगैस्तथा ॥
पुंस्कोकिलनिनादाढ्यं झिल्लीकगणनादितम् ॥४८॥
प्रवृद्धविकटैर्वृक्षैः सुखच्छायैः समावृतम् ॥
वृक्षैराच्छादिततलं लक्ष्म्या परमया युतम् ॥४९॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कंटकी ॥
षट्पदैरप्यनाकीर्णं नास्मिन्वै काननेभवेत् ॥५०॥
विहंगैर्नादितं पुष्पैरलंकृतमतीव हि ॥
सर्वर्तुकुसमैर्वृक्षैः सुखच्छायैः समावृतम् ॥५१॥
मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः ॥
पुष्पवृष्टिं विचित्रां तु विसृजंति च पादपाः ॥५२॥
दिवस्पृशोऽथ संपुष्टाः पक्षिभिर्मधुरस्वनैः ॥
विरेजुः पादपास्तत्र सुगन्धकुसुमैर्वृताः ॥५३॥
तिष्ठंति च प्रवालेषु पुष्पभारावनादिषु ॥
रुवंति मधुरालापाः षट्पदा मधुलिप्सवः ॥५४॥
तत्र प्रदेशांश्च बहूनामोदांकुरमंडितान् ॥
लतागृह परिक्षिप्तान्मनसः प्रीतिवर्द्धनान् ॥५५॥
संपश्यंती महातेजा बभूव मुदिता तदा ॥
परस्पराश्लिष्टशाखैः पादपैः कुसमाचितैः ॥५६॥
अशोभत वनं तत्तु महेंद्रध्वजसन्निभैः ॥
सुखशीतसुगन्धी च पुष्परेणुवहोऽनिलः ॥५७॥
एवंगुणसमायुक्तं ददर्श सा वनं तदा ॥
तदा सूर्योद्भवां तत्र पवित्रां परिशोभिताम् ॥५८॥
आश्रमप्रवरं तत्र ददर्श च मनोरमम् ॥
पतिभिर्वालखिल्यैश्च वृतं मुनिगणा वृतम् ॥५९॥
अग्न्यगारैश्च बहुभिर्वृक्षशाखावलंबितैः ॥
धूगम्रपानकणैस्तत्र दिग्वासोयतिभिस्तथा ॥६०॥
पाल्या वन्या मृगास्तत्र सौम्या भूयो बभूविरे ॥
मार्जारा मूषकैस्तत्र सर्पैश्च नकुलास्तथा ॥६१॥
मृगशावैस्तथा सिंहाः सत्त्वरूपा बभूविरे ॥
परस्परं चिक्रीडुस्ते यथा चैव सहोदराः ॥
दूराद्ददर्श च वनं तत्र देवोऽब्रवीत्तदा ॥६२॥
॥ इन्द्र उवाच ॥
अयं च खलु धर्मराड् तपस्तुग्रेवतिष्ठते ॥
मम राज्याभिकांक्षोऽसावतोर्थे यत्यतामिह ॥६३॥
तपोविघ्नं प्रकुर्वंतु ममाज्ञा तत्र गम्यताम्॥
इन्द्रस्य वचनं श्रुत्वा उर्वशी च तिलोत्तमा ॥६४॥
सुकेशी मंजुघोषा च घृताची मेनका तथा ॥
विश्वाची चैव रंभा च प्रम्लोचा चारुभाषिणी ॥६५॥
पूर्वचित्तिः सुरूपा च अनुम्लोचा यशस्विनी ॥
एताश्चान्याश्च बहुशस्तत्र संस्था व्यचिंतयन् ॥६६॥
परस्परं विलोक्यैव शंकमाना भयेन हि ॥
यमश्चैव तथा शक्र उभौ वायतनं हि वः ॥ ॥६७॥
एवं विचार्य बहुधा वर्द्धनी नाम भारत ॥
सर्वासामप्सरसां श्रेष्ठा सर्वाभरणभूषिता ॥६८॥
उवाचैवोर्वशी तत्र किं खिद्यसि शुभानने॥
देवानां कार्यसिद्ध्यर्थं मायारूपबलेन च ॥
वर्णधर्मो यथा भूयात्करिष्ये पाकशासन ॥६९॥
॥ इन्द्र उवाच ॥
साधुसाधु महाभागे वर्द्धनी नाम सुव्रता ॥
शीघ्रं गच्छ स्वयं भद्रे कुरु कार्यं कृशोदरि ॥७०॥
धीराणामवने शक्ता नान्या सुभ्रु त्वया विना ॥
वर्द्धनी च तथेत्युक्त्वा गता यत्र स धर्मराट् ॥७१॥
महता भूषणेनैव रूपं कृत्वा मनोरमम् ॥
कुंकुमैः कज्जलैर्वस्त्रैर्भूषणैश्चैव भूषिता ॥७२॥
कुसुमं च तथा वस्त्रं किंकिणीकटिराजिता ॥
झणत्कारैस्तथा कष्टैर्भूषिता च पदद्वये ॥७३॥
नानाभूषणभूषाढ्या नानाचंदनचर्चिता ॥
नानाकुसुम मालाढ्या दुकूलेनावृता शुभा ॥७४॥
प्रगृह्य वीणां संशुद्धां करे सर्वांगसुन्दरी ॥
नर्तनं त्रिविधं तत्र चक्रे लोकमनोरमम् ॥७५॥
तारस्वरेण मधुरैर्वंशनादेन मिश्रितम् ॥७६॥
मूर्च्छनातालसंयुक्तं तंत्रीलयसमन्वितम् ॥
क्षणेन सहसा देवो धर्मराजो जितात्मवान् ॥
विमनाः स तदा जातो धर्मराजो नृपात्मजः ॥७७॥
॥ युधिष्ठिर उवाच ॥
आश्चर्यं परमं ब्रह्मञ्जातं मे ब्रह्मसत्तम ॥
कथं ब्रह्मोपपन्नस्य तपश्छेदो बभूव ह ॥७८॥
धर्मे धरा च नाकश्च धर्मे पातालमेव च ॥
धर्मे चंद्रार्कमापश्च धर्मे च पवनोऽनलः ॥७९॥
धर्मे चैवाखिलं विश्वं स धर्मो व्यग्रतां कथम् ॥
गतः स्वामिंस्तद्वैयग्र्यं तथ्यं कथय सुव्रत ॥८०॥
॥ व्यास उवाच ॥
पतनं साहसानां च नरकस्यैव कारणम् ॥
योनिकुण्डमिदं सृष्टं कुंभीपाकसमं भुवि ॥८१॥
नेत्ररज्ज्वा दृढं बद्ध्वा धर्षयंति मनस्विनः॥
कुचरूपैर्महादंडैस्ताड्यमानमचेतसम् ॥८२॥
कृत्वा वै पातयंत्याशु नरकं नृपसत्तम ॥
मोहनं सर्वभूतानां नारी चैवं विनिर्मिता ॥८३॥
तावद्धंत मनःस्थैर्यं श्रुतं सत्यमनाकुलम् ॥
यावन्मत्तांगनाग्रे न वागुरेव सुचेतसा म् ॥४॥
तावत्तपोभिवृद्धिस्तु तावद्दानं दया दमः॥
तावत्स्वाध्यायवृत्तं च तावच्छौचं धृतं व्रतम् ॥८५॥
यावत्त्रस्तमृगीदृष्टिं चपलां न विलोकयेत्॥
तावन्माता पिता तावद्धाता तावत्ससुहृज्जनः ॥८६॥
तावल्लज्जा भयं तावत्स्वाचारस्तावदेव हि ॥
ज्ञानमौदार्यमैश्वर्यं तावदेव हि भासते ॥
यावन्मत्तांगनापाशैः पातितो नैव बन्धनैः ॥८७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये इन्द्रभ यकथनंनाम तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : November 18, 2024
TOP