धर्मारण्य खण्डः - अध्याय १७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
दक्षिणे स्थापिता राजञ्छाँता देवी महाबला ॥
सा विविधाम्बरधरा वनमालाविभूषिता ॥१॥
तामसी सा महाराज मधुकैटभनाशिनी ॥
विष्णुना तत्र वै न्यस्ता शिवपत्नी नृपोत्तम ॥२॥
सा चैवाष्टभुजा रम्या मेघश्यामा मनोरमा ॥
कृष्णांबरधरा देवी व्याघ्रवाहनसंस्थिता ॥३॥
द्वीपिचर्मपरीधाना दिव्याभरणभूषिता ॥
घंटात्रिशूलाक्षमालाकमंडलुधरा शुभा ॥४॥
अलंकृतभुजा देवी सर्वदेवनमस्कृता ॥
धनं धान्यं सुतान्भोगान्स्वभक्तेभ्यः प्रयच्छति ॥५॥
पूजयेत्कमलै र्दिव्यैः कर्पूरागरुचंदनैः ॥
तदुद्देशेन तत्रैव पूजयेद्द्विजसत्तमान् ॥६॥
कुमारीर्भोजयेदन्नैर्विविधैर्भक्तिभावतः ॥
धूपैर्दीपैः फलैः रम्यैः पूजयेच्च सुरादिभिः ॥७॥
मांसैस्तु विविधैर्दिव्यैरथवा धान्यपिष्टजैः ॥
अन्यैश्च विविधैर्धान्यैः पायसैर्वटकैस्तथा ॥८॥
ओदनैः कृशरापूपैः पूजयेत्सुसमाहितः ॥
स्तुतिपाठेन तत्रैव शक्तिस्तोत्रैर्मनोहरैः ॥९॥
रिपवस्तस्य नश्यंति सर्वत्र विजयी भवेत् ॥
रणे राजकुले द्यूते लभते जयमंगलम् ॥१०॥
सौम्या शांता महाराज स्थापिता कुलमातृका ॥
श्रीमाता सा प्रसिद्धा च माहात्म्यं शृणु भूपते ॥११॥
कुलमाता महाशक्तिस्तत्रास्ते नृपसत्तम ॥
कुमारी ब्रह्मपुत्री सा रक्षार्थं विधिना कृता ॥१२॥
स्थानमाता च सा देवी श्रीमाता साभिधानतः ॥
त्रिरूपा सा द्विजातीनां निर्मिता रक्षणाय च ॥१३॥
कमण्डलुधरा देवी घण्टाभरणभूषिता ॥
अक्षमालायुता राजञ्छुभा सा शुभरूपिणी ॥१४॥
कुमारी चादिमाता च स्थानत्राणकरापि च ॥
दैत्यघ्नी कामदा चैव महामोहविनाशिनी ॥१५॥
भक्तिगम्या च सा देवी कुमारी ब्रह्मणः सुता ॥
रक्तांबरधरा साधुरक्तचंदनचर्चिता ॥१६॥
रक्तमाल्या दशभुजा पंचवक्त्रा सुरेश्वरी ॥
चंद्रावतंसिका माता सुरा सुरनमस्कृता ॥१७॥
साक्षात्सरस्वतीरूपा रक्षार्थं विधिना कृता ॥
ॐकारा सा महापुण्या काजेशेन विनिर्मिता ॥१८॥
ऋषिभिः सिद्धयक्षा दिसुरपन्नगमानवैः ॥
प्रणम्यांघ्रियुगा तेभ्यो ददाति मनसेप्सितम् ॥१९॥
पालयन्ती च संस्थानं द्विजातीनां हिताय वै ॥
यथौरसान्सुतान्माता पालयन्तीह सद्गुणैः ॥२०॥
अथ पालयती देवी श्रीमाता कुलदेवता ॥
उपद्रवाणि सर्वाणि नाशयेत्सततं स्तुता ॥२१॥
सर्वविघ्नोपशमनी श्रीमाता स्मरणेन हि ॥
विवाहे चोपवीते च सीमंते शुभकर्मणि ॥२२॥
सर्वेषु भक्तकार्येषु श्रीमाता पूज्यते सदा ॥
यथा लंबोदरं देवं पूज यित्वा समारभेत् ॥२३॥
कार्यं शुभं सर्वमपि श्रीमातरं तथा नृप ॥
यत्किंचिद्भोजनं त्वत्र ब्राह्मणेभ्यः प्रयच्छति ॥२४॥
अथवा विनिवेद्यं च क्रियते यत्परस्परम् ॥
अनिवेद्य च तां राजन्कुर्वाणो विघ्नमेष्यति ॥२५॥
तस्मात्तस्यै निवेद्याथ ततः कर्म समारभेत् ॥
तद्वरेणाखिलं कर्म अविघ्नेन हि सिद्धति ॥
हेमंते शिशिरे प्राप्ते पूजयेद्धर्मपुत्रिकाम् ॥२६॥
हेमपत्रे समालिख्य राजते वाथ कारयेत् ॥
पादुकां चोत्तमां राजञ्छ्रीमातायै निवेदयेत् ॥२७॥
स्नात्वा चैव शुचिर्भूत्वा तिलामलकमिश्रितैः॥
वासोभिः सुमनोभिश्च दुकूलैः सुमनोहरैः ॥२८॥
लेपयेच्चंदनैः शुभ्रैः कुकुमैः सिंदुरासकैः ॥
कर्पूरागुरुकस्तूरीमिश्रितैः कर्द्दमैस्तथा ॥२९॥
कर्णिकारैश्च कह्लारैः करवीरैः सितारुणैः ॥
चंपकैः केतकीभिश्च जपा कुसुमकैस्तथा ॥३०॥
यक्षकर्द्दमकैश्चैव विल्वपत्रैरखंडितैः ॥
पालाशजातिपुष्पैश्च वटकैर्माषसंभवैः ॥
पूपभक्तादिदालीभिस्तोषयेच्छाकसंचयैः ॥३१॥
धूपदीपादिपूर्वं तु पूजयेज्जगदंबिकाम् ॥
तद्धियैव कुमारीर्वै विप्रानपि च भोजयेत् ॥
पायसैर्घृतयुक्तैश्च शर्करामिश्रितैर्नृप ॥३२॥
पक्वान्नैर्मोदकाद्यैश्च तर्पयेद्भक्तिभावतः ॥
तर्प्यमाणे द्विजैकस्मिन्सहस्रफलमश्नुते ॥३३॥
दैत्यानां घातकं स्तोत्रं वाचयेच्च पुनः पुनः ॥
एकाग्रमानसो भूत्वा श्रीमातरं स्तुवीय यः ॥३४॥
तस्य तुष्टा वरं दद्यात्स्नापिता पूजिता स्तुता ॥
अनिष्टानि च सर्वाणि नाशयेद्धर्मपुत्रिका ॥३५॥
अपुत्रो लभते पुत्रान्नि र्धनो धनवान्भवेत्॥
राज्यार्थी लभते राज्यं विद्यार्थी लभते च ताम्॥३६॥
श्रियोर्थी लभते लक्ष्मीं भार्यार्थी लभते च ताम् ॥
प्रसादाच्च सरस्वत्या लभते नात्र संशयः ॥३७॥
अन्ते च परमं स्थानं यत्सुरैरपि दुर्लभम् ॥
प्राप्नोति पुरुषो नित्यं सरस्वत्याः प्रसादतः ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये श्रीमातामाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : November 19, 2024
TOP