धर्मारण्य खण्डः - अध्याय २३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच॥
अतः परं प्रवक्ष्यामि ब्रह्मणा यत्कृतं पुरा ॥
तत्सर्वं कथयाम्यद्य शृणुष्वैकाग्रमानसः ॥१॥
देवानां दानवानां च वैराद्युद्धं बभूव ह ॥
तस्मिन्युद्धे महादुष्टे देवाः संक्लिष्टमानसाः ॥२॥
बभूवुस्तत्र सोद्वेगा ब्रह्माणं शरणं ययुः ॥३॥
॥ देवा ऊचुः ॥
ब्रह्मन्केन प्रकारेण दैत्यानां वधमेव च ॥
करोम्यद्य उपायं हि कथ्यतां शीघ्रमेव मे ॥४॥
॥ ब्रह्मोवाच ॥
मया हि शंकरेणैव विष्णुना हि तथा पुरा ॥
यमस्य तपसा तुष्टैर्धर्मारण्यं विनिर्मितम् ॥५॥
तत्र यद्दीयते दानं यज्ञं वा तप उत्तमम् ॥
तत्सर्वं कोटिगुणितं भवेदिति न संशयः ॥६॥
पापं वा यदि वा पुण्यं सर्वं कोटि गुणं भवेत् ॥
तस्माद्दैत्यैर्न धर्षितं कदाचिदपि भोः सुराः ॥७॥
श्रुत्वा तु ब्रह्मणो वाक्यं देवाः सर्वे सविस्मयाः ॥
ब्रह्माणं त्वग्रतः कृत्वा धर्मार ण्यमुपाययुः ॥८॥
सत्रं तत्र समारभ्य सहस्राब्दमनुत्तमम् ॥
वृत्वाऽऽचार्यं चांगिरसं मार्कंण्डेयं तथैव च ॥९॥
अत्रिं च कश्यपं चैव होता कृत्वा महामतिः ॥
जमदग्निं गौतमं च अध्वर्युत्वं न्यवेदयन् ॥१०॥
भरद्वाजं वसिष्ठं तु प्रत्यध्वर्युत्वमादिशन् ॥
नारदं चैव वाल्मीकिं नोदना याकरोत्तदा ॥११॥
ब्रह्मासने च ब्रह्माणं स्थापयामासुरादरात् ॥
क्रोशचतुष्कमात्रां च वेदिं कृत्वा सुरैस्ततः ॥१२॥
द्विजाः सर्वे समाहूता यज्ञस्यार्थे हि जापकाः ॥
ऋग्यजुःसामाथर्वान्वै वेदानुद्गिरयंति ये ॥१३॥
गणनाथं शंभुसुतं कार्त्तिकेयं तथैव च ॥
इन्द्रं वज्रधरं चैव जयंतं चन्द्रसूनुकम् ॥१४॥
चत्वारो द्वारपालाश्च देवाः शूरा विनिर्मिताः ॥
ततो राक्षोघ्नमंत्रेण हूयते हव्यवाहनः ॥१५॥
तिलांश्च यवमिश्रांश्च मध्वाज्येन च मिश्रितान् ॥
जुहुवुस्ते तदा देवा वेदमंत्रैर्नरेश्वर ॥१६॥
आघारावाज्यभागौ च हुत्वा चैव ततः परम् ॥
द्राक्षेक्षुपूगनारिंग जंबीरं बीजपूरकम् ॥१७॥
उत्तरतो नालिकेरं दाडिमं च यथाक्रमम् ॥
मध्वाज्यं पयसा युक्तं कृशरशर्करायुतम् ॥१८॥
तंडुलैः शतपत्रैश्च यज्ञे वाचं नियम्य च ॥
विचिंत्य च महाभागाः कृत्वा यज्ञं सदक्षिणम् ॥१९॥
उत्तमं च शुभं स्तोमं कृत्वा हर्षमुपाययुः ॥
अवारितान्नमददन्दीनांधकृपणेष्वपि ॥२०॥
ब्राह्मणेभ्यो विशेषेण दत्तमन्नं यथेप्सितम् ॥
पायसं शर्करायुक्तं साज्यशाकसमन्वितम् ॥२१॥
मंडका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ॥
सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः ॥२२॥
ओदनश्च तथा दाली आढकीसंभवा शुभा ॥
तथा वै मुद्गदाली च पर्पटा वटिका तथा ॥२३॥
प्रलेह्यानि विचित्राणि युक्तास्त्र्यूषणसंचयैः ॥
कुल्माषा वेल्लकाश्चैव कोमला वालकाः शुभाः ॥२४॥
कर्कटिकाश्चार्द्रयुता मरिचेन समन्विताः ॥
एवंविधानि चान्नानि शाकानि विविधानि च ॥२५॥
भोजयित्वा द्विजान्सर्वान्धर्मारण्य निवासिनः ॥
अष्टादशसहस्राणि सपुत्रांश्च तदा नृप ॥२६॥
प्रतिदिनं तदा देवा भोजयंति स्म वाडवान् ॥
एवं वर्षसहस्रं वै कृत्वा यज्ञं तदामराः ॥२७॥
कृत्वा दैत्यवधं राजन्निर्भयत्वमवाप्नुयुः ॥
स्वर्गं जग्मुस्ते सहसा देवाः सर्वे मरुद्गणाः ॥२८॥
तथैवाप्सरसः सर्वा ब्रह्मवि ष्णुमहेश्वराः ॥
कैलासशिखरं रम्यं वैकुंठं विष्णुवल्लभम् ॥२९॥
ब्रह्मलोकं महापुण्यं प्राप्य सर्वे दिवौकसः ॥
परं हर्षमुपाजग्मुः प्राप्य नंदनमुत्तम् ॥३०॥
स्वेस्वे स्थाने स्थिरीभूत्वा तस्थुः सर्वे हि निर्भयाः ॥३१॥
ततः कालेन महता कृताख्ययुगपर्यये ॥
लोहासुरो मदोन्मत्तो ब्रह्मवेषधरः सदा ॥३२॥
आगत्य सर्वान्विप्रांश्च धर्षयेद्धर्मवित्तमान् ॥
शूद्रांश्च वणिजश्चैव दंडघातेन ताडयेत् ॥३३॥
विध्वंसयेच्च यज्ञादीन्होमद्रव्याणि भक्षयेत् ॥
वेदिका दीर्घिका दृष्ट्वा कश्मलेन प्रदूषयेत् ॥३४॥
मूत्रोत्सर्गपुरीषेण दूषयेत्पुण्यभूमिकाः ॥
गहनेन तथा राजन्स्त्रियो दूषयते हि सः ॥३५॥
ततस्ते वाडवाः सर्वे लोहासुरभयातुराः ॥
प्रनष्टाः सपरीवारा गतास्ते वै दिशो दश ॥३६॥
वणिजस्ते भयोद्विग्ना विप्राननुययुर्नृप ॥
महाभयेन संभीता दूरं गत्वा विमृश्य च॥३७॥
सह शूद्रैद्विजैः सर्व एकीभूत्वा गतास्तदा ॥
मुक्तारण्यं पुण्यतमं निर्जनं हि ययुश्च ते ॥३८॥
निवासं कारयामासुर्नातिदूरे नरेश्वर ॥
वजिङ्नाम्ना हि तद्ग्रामं वासयामासुरेव ते ॥३९॥
लोहासुरभयाद्राजन्विप्र नाम्ना विनिर्मितम् ॥
शंभुना वणिजा यस्मात्तस्मात्तन्नामधारणम् ॥४०॥
शंभुग्राममिति ख्यातं लोके विख्यातिमागतम् ॥
अथ केचिद्भयान्नष्टा वणिजः प्रथमं तदा ॥४१॥
ते नातिदूरे गत्वा वै मंडलं चक्रुरुत्तमम् ॥
विप्रागमनकांक्षास्ते तत्र वासमकल्पयन् ॥४२॥
मंडलेति च नाम्ना वै ग्रामं कृत्वा न्यवीवसन् ॥
विप्रसार्थपरिभ्रष्टाः केचित्तु वणिजस्तदा ॥४३॥
अन्यमार्गे गता ये वै लोहासुरभयार्दिताः ॥
धर्मारण्यान्नाति दूरे गत्वा चिंतामुपाययुः ॥४४॥
कस्मिन्मार्गे वयं प्राप्ताः कस्मिन्प्राप्ता द्विजातयः ॥
इति चिंतां परं प्राप्ता वासं तत्र त्वकारयन् ॥४५॥
अन्यमार्गे गता यस्मात्तस्मात्तन्नामसंभवम् ॥
ग्रामं निवासयामासुरडालंजमिति क्षितौ ॥४६॥
यस्मिन्ग्रामे निवासी यो यत्संज्ञश्च वणिग्भवेत् ॥
तस्य ग्रामस्य तन्नाम ह्यभवत्पृथिवीपते ॥४७॥
वणिजश्च तथा विप्रा मोहं प्राप्ता भयार्दिताः ॥
तस्मान्मोहेतिसंज्ञास्ते राजन्सर्वे निरब्रुवन् ॥४८॥
एवं प्रनषणं नष्टास्ते गताश्च दिशो दिश ॥
धर्मारण्ये न तिष्ठंति वाडवा वणिजोऽपि वा ॥४९॥
उद्वसं हि तदा जातं धर्मारण्यं च दुर्लभम् ॥
भूषणं सर्वतीर्थानां कृतं लोहासुरेण तत् ॥५०॥
नष्टद्विजं नष्टतीर्थं स्थानं कृत्वा हि दानवः ॥
परां मुदमवाप्यैव जगाम स्वालयं ततः ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनाम त्रयोविंशो ऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : November 19, 2024
TOP