धर्मारण्य खण्डः - अध्याय ४०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ नारद उवाच ॥
ज्ञातिभेदे तु संजाते तस्मिन्मोहेरके पुरे ॥
त्रैविद्यैः किं कृतं ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥१॥ ॥
॥ ब्रह्मोवाच ॥
स्वस्थाने वाडवाः सर्वे हर्षनिर्भरमानसाः ॥
अग्निहोत्रपरा केऽपि केऽपि यज्ञपरायणाः ॥२॥
केऽपि चाग्निसमाधानाः केऽपि स्मार्ता निरंतरम् ॥
पुराणन्यायवेत्तारो वेदवेदांगवादिनः ॥३॥
सुखेन स्वान्सदाचारान्कुर्वन्तो ब्रह्मवादिनः ॥
एवं धर्मसमाचारान्कुर्वतां कुशलात्मनाम् ॥४॥
स्थानाचारान्कुलाचारानधिदेव्याश्च भाषितान् ॥
धर्मशास्त्रस्थितं सर्वं काजेशैरुदितं च यत् ॥५॥
परंपरागतं धर्म मूचुस्ते वाडवोत्तमाः ॥६॥
॥ ब्राह्मणा ऊचुः ॥
उपास्ते यश्च लिखितं रक्तपादैस्तु वाडवाः ॥
ज्ञातिश्रेष्ठः स विज्ञेयो वलिर्देयस्ततः परम् ॥७॥
रक्तचंदनं प्रसाध्याथ प्रसिद्धं स्वकुलं तथा ॥
कुंकुमारक्तपादैस्तैर्गंधपुष्पादिचर्चितैः ॥८॥
संभूय लिखितं तच्च रक्तपादं तदुच्यते ॥
रामस्य लेख्यं ते सर्वे पूजयंतु समाहिताः ॥९॥
रामस्य करमुद्रां च पूजयंतु द्विजाः सदा ॥
येषां दोषाः सदाचारे व्यभिचारादयो यदि ॥१०॥
तेषां दण्डो विधेयस्तु य उक्तो विधिवद्विजैः ॥
चिह्नं न राममुद्राया यावद्दंडं ददाति न ॥११॥
विना दण्डप्रदानेन मुद्राचिह्नं न धार्यते ॥
मुद्राहस्ताश्च विज्ञेया वाडवा नृपसत्तम ॥१२॥
पुत्रे जाते पिता दद्द्याच्छ्रीमात्रे तु बलिं सदा ॥
पलानि विंशतिः सर्प्पिर्गुडः पंचप लानि च ॥१३॥
कुंकुमादिभिरभ्यर्च्य जातमात्रः सुतस्तदा ॥
षष्ठे च दिवसे राजन्षष्ठीं पूजयते सदा ॥१४॥
दद्यात्तत्र बलिं साज्यं कुर्याद्धि बलिपंचकम् ॥
पंचप्रस्थान्बलीन्दद्यात्सवस्त्राञ्छ्रीफलैर्युतान् ॥१५॥
कुंकुमादिभिरभ्यर्च्य श्रीमात्रे भक्तिपूर्वकम् ॥
वितशाठ्यं न कुर्वीत कुले संततिवृद्धये ॥१६॥
तद्धि चार्पयता द्रव्यं वृद्धौ यद्ध्रीणितं पुनः ॥
जन्मनो नंतरं कार्यं जातकर्म यथाविधि ॥१७॥
विप्रानुकीर्तिता याश्च वृत्तिः सापि विभज्यते ॥
प्रथमा लभ्यमाना च वृत्तिर्वै यावती पुनः ॥१८॥
तस्या वृत्तेरर्द्धभागो गोत्रदेव्यै तु कल्प्यताम् ॥
द्विगुणं वणिजा चैव पुत्रं जाते भवेदिति ॥१९॥
मांडलीयाश्च ये शूद्रास्तेषामर्ककरं त्विदम् ॥
अडालजानां त्रिगुणं गोभुजानां चतुर्गुणम् ॥२०॥
इत्येतत्कथितं सर्वमन्यच्च शूद्रजातिषु ॥
यस्य दोषस्तु हत्यायाः समुद्भूतो विधेर्वशात् ॥२१॥
दण्डस्तु विधिवत्तस्य कर्त्तव्यो वेदशास्त्रिभिः ॥
अन्यायो न्यायवादी स्यान्निर्द्दोषे दोषदायकः ॥२२॥
पंक्तिभेदस्य कर्ता च गोसहस्रवधः स्मृतः ॥
वृत्तिभागविभजनं तथा न्यायविचारणम् ॥
श्रीरामदूतकस्याग्रे कर्त्तव्यमिति निश्चयः ॥२३॥
तस्य पूजां प्रकुर्वीत तदा कालेऽथवा सदा॥
तैलेन लेपयेत्तस्य देहे वै विघ्नशांतये ॥२४॥
धूपं दीपं फलं दद्यात्पुष्पैर्नानाविधैः किल ॥
पूजितो हनुमानेव ददाति तस्य वांछितम् ॥२५॥
प्रतिपुत्रं तु तस्याग्रे कुर्यान्नान्यत्र कुत्रचित् ॥
श्रीमाताबकुलस्वामिभागधेयं तु पूर्वतः ॥२६॥
पश्चात्प्रतिग्रहं विप्रैः कर्त्तव्यमिति निश्चितम् ॥
समागमेषु विप्राणां न्यायान्यायविनिर्णये ॥२७॥
निर्णयं हृदये धृत्वा तत्रस्थं श्रावयेद्द्विजान् ॥
केवलं धर्मबुद्ध्या च पक्षपातं विवर्जयेत् ॥२८॥
सर्वेषां संमतं कार्यं तद्ध्यविकृतमेव च ॥
आकारितस्ततो विप्रः सभायां भयमेति चेत् ॥२९॥
न तस्य वाक्यं श्रोतव्यं निर्णीतार्थनिवारणे ॥
यस्य वर्जस्तु क्रियते मिलित्वा सर्व वाडवैः ॥३०॥
खानपानादिकं सर्वं कार्यं तेन विवर्जयेत् ॥
तस्य कन्या न दातव्या तत्संसर्गी च तादृशः ॥३१॥
ततो दंडं प्रकुर्वीत सर्वैरेव द्विजोत्तमैः ॥
भोजनं कन्यकादानमिति दाशरथेर्मतम् ॥३२॥
यत्किंचित्कुरुते पापं लब्धुं स्थलमथापि वा ॥
शुष्कार्द्रं वसते चान्ने तस्मादन्नं परि त्यजेत् ॥३३॥
कुर्वंस्तत्पापभागी स्यात्तस्य दंडो यथाविधि ॥
न्यायं न पश्यते यस्तु शक्तौ सत्यां सदा यतः ॥३४॥
पापभागी स विज्ञेय इति सत्यं न संशयः ॥
उत्कोचं यस्तु गृह्णाति पापिनां दुष्टकर्मिणाम् ॥
सकलं च भवेत्तस्य पापं नैवात्र सशयः ॥३५॥
तस्यान्नं गृह्यते नैव कन्यापि न कदाचन ॥
हितमाचरते यस्तु पुत्राणामपि वै नरः ॥३६॥
स एतान्नियमान्सर्वान्पालयेन्नात्र संशयः ॥
एवं पत्रं लिखित्वा तु वाडवास्ते प्रह र्षिताः ॥३७॥
प्राप्ते कलियुगे घोरे यथा पापं न कुर्वते ॥
इति ज्ञात्वा तु सर्वे ते न्यायधर्मं प्रचक्रिरे ॥३८॥
॥ व्यास उवाच ॥
कलौ प्राप्ते द्विजाः सर्वे स्थानभ्रष्टा यतस्ततः॥
पक्षमुत्कलं ग्रहीष्यंति तथा स्युः पक्षपातिनः ॥३९॥
भोक्ष्यंते म्लेच्छकग्रामान्कोलाविध्वंसिभिः किल ॥
वेदभ्रष्टाश्च ते विप्रा भविष्यंति कलौ युगे॥४०॥
॥ युधिष्ठिर उवाच॥
देशेदेशे गमिष्यंति ते विप्रा वणिजस्तथा॥
कथं वै ज्ञायते सर्वै केन चिह्नेन मारिष। ॥११॥
यस्मिन्गोत्रे समुत्पन्ना वाडवा ये महाबलाः ॥४२॥
व्यास उवाच।॥
ज्ञायते गोत्रसंज्ञाऽथ केचिच्चैव पराक्रमैः ॥
यस्ययस्य च यत्कर्म तस्य तस्यावटंककः॥४३॥
अवटंकैर्हि ज्ञायंते नान्यथा ज्ञायते क्वचित्॥
गोत्रैश्च प्रवरैश्चैव अवटंकैर्नृपात्मज॥४४॥
ज्ञायंते हि द्विजा राजन्मोढ ब्राह्मणसत्तमाः ॥१९॥
॥ युधिष्ठिर उवाच ॥
गोत्रैश्च प्रवरैश्चैव श्रुता एते तवाननात् ॥
कां वा शाखामधीयानास्तन्मे ब्रूहि पितामह ॥१६॥
॥ व्यास उवाच ॥
ज्ञायंते यत्रयत्रस्था माध्यंदिनीया महाबलाः ॥
कौथमीं च समाश्रित्य केचिद्विप्रा गुणान्विताः ॥४७॥
ऋगथर्वणजा शाखा नष्टा सा च महामते॥
एवं वै वर्तमानास्ते वाडवा धर्मसंभवाः॥४८॥
धर्मारण्ये महाभागाः पुत्रपौत्रान्विताऽभवन् ॥
शूद्राः सर्वे महाभागाः पुत्रपौत्र समावृताः ॥४९॥
धर्मारण्ये महातीर्थे सर्वे ते द्विजसेवकाः ॥
अभवन्रामभक्ताश्च रामाज्ञां पालयंति च ॥५०॥
आज्ञामत्याऽऽदरेणेह हनूमंतश्च वीर्यवान् ॥
पालयेत्सोऽपि चेदानीं सुप्राप्ते वै कलौ युगे ॥५१ ।
अदृष्टरूपी हनुमांस्तत्र भ्रमति नित्यशः॥
त्रैविद्या वाडवा यत्र चातुर्विद्यास्तथैव च ॥५२॥
सभायामुपविष्टा येऽन्यायात्पापं प्रकुर्वते ॥
जयो हि न्यायकर्तॄणामजयोऽन्यायकारिणाम् ॥५३॥
सापराधे यस्तु पुत्रे ताते भ्रातरि चापि वा ॥
पक्षपातं प्रकुर्वीत तस्य कुप्यति वायुजः॥ ५४॥
कुपितो हनुमानेष धननाशं करोति वै॥
पुत्रनाशं करोत्येव धामनाशं तथैव च ॥५५॥
सेवार्थं निर्मितः शूद्रो न विप्रान्परिषेवते ॥
वृत्तिं वा न ददात्येव हनुमांस्तस्य कुप्यति ॥५६॥
अर्थनाशं पुत्रनाशं स्थाननाशं महा भयम् ॥
कुरुते वायुपुत्रो हि रामवाक्यमनुस्मरन् ॥५७॥
यत्र कुत्र स्थिता विप्राः शूद्रा वा नृपसत्तम ॥
न निर्द्धना भवेयुस्ते प्रसादाद्राघवस्य च ॥५८॥
यो मूढश्चाप्यधर्मात्मा पापपाषंडमाश्रितः ।
निजान्विप्रान्परित्यज्य परज्ञातींश्च मन्यते ॥५९॥
तस्य पूर्वकृतं पुण्यं भस्मीभवति नान्यथा ॥
अन्येषां दीयते दानं स्वल्पं वा यदि वा बहु ॥६०॥
यथा भवति वै पूर्वं ब्रह्मविष्णुशिवैः कृतम् ॥
तस्य देवा न गृह्णंति हृव्यं कव्यं च पूर्वजाः ॥६१॥
वंचयित्वा निजान्विप्रानन्येभ्यः प्रददेत्तु यः ॥
तस्य जन्मार्जितं पुण्यं भस्मीभवति तत्क्षणात् ॥६२॥
ब्रह्मविष्णुशिवैश्चैव पूजिता ये द्विजोत्तमाः॥ ते
षां ये विमुखाः शूद्रा रौरवे निवसंति ते ॥६३॥
यो लौल्याच्च कुलाचारं गोत्राचारं प्रलोपयेत्॥
स्वाचारं यो न कुर्वीत कदाचिद्वै विमोहितः ॥६४॥
सर्वनाशो भवेत्तस्य भस्मीभवति तत्क्षणात् ॥
तस्मात्सर्वः कुलाचारः स्थानाचारस्तथैव च ॥६५॥
गोत्राचारः पालनीयो यथावित्तानुसारतः ॥
एवं ते कथितं राजन्धर्मारण्यं पुरातनम् ॥६६॥
स्थापितं देवदेवैश्च ब्रह्मविष्णुशिवादिभिः ॥
धर्मारण्यं कृतयुगे त्रेतायां सत्यमंदिरम्॥
द्वापरे वेदभवनं कालौ मोहेरकं स्मृतम् ॥६७ ॥ !
ब्रह्मोवाच ॥
य इदं शृणुयात्पुत्र श्रद्धया परया युतः॥
धर्मारण्यस्य माहात्म्यं सर्वकिल्बिषनाशनम् ॥६८॥
मनोवाक्कायजनितं पातकं त्रिविधं च यत्॥
तत्सर्वं नाशमायाति श्रवणात्कीर्तनात्सुकृत् ॥६९॥
धन्यं यशस्यमायुष्यं सुखसंतानदायकम्॥
माहात्म्यं शृणुयाद्वत्स सर्वसौख्याप्तये नरः ॥७०॥
सर्वतीर्थेषु यत्पुण्यं सर्वक्षेत्रेषु यत्फलम्॥
तत्फलं समवाप्नोति धर्मारण्यस्य सेवनात् ॥७१॥
॥ नारद उवाच ॥
धर्मारण्यस्य माहात्म्यं यच्छ्रुतं त्वन्मुखांबुजात् ॥
धर्मवाप्यां यत्र धर्म्मस्तपस्तेपे सुदुष्कुरम् ॥७२॥
तस्य क्षेत्रस्य महिमा मया त्वत्तोऽवधारितः ॥
स्वस्ति तेऽस्तु गमिष्यामि धर्मारण्यदिदृक्षया ॥७३॥
तत्र वाक्यजलौघेन पावितोऽहं चतुर्मुख ॥७४ ॥
व्यास उवाच ॥
इदमाख्यानकं सर्वं कथितं पांडुनंदन ॥
यच्छ्रुत्वा गोसहस्रस्य फलं प्राप्नोति मानवः ॥७५॥
अपुत्रो लभते पुत्रान्निर्द्धनो धनवान्भवेत् ॥
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥७६॥
विद्यार्थी लभते विद्यामुत्तमां कर्मसाधनाम् ॥
तीर्थयात्राफलं तस्य कोटिकन्याफलं लभेत् ॥७७॥
यः श्रृणोति नरो भक्त्या नारी वाथ नरोत्तम ॥
निरयं नैव पश्यंति एकोत्तरशतैः सह ॥७८॥
शुभे देशे निवेश्याथ क्षौमवस्त्रादिभिस्तथा ॥
पुराणपुस्तकं राजन्प्रयतः शिष्टसंमतः ॥७९॥
अर्चयेच्च यथा न्यायं गंधमाल्यैः पृथक्पृथक् ॥
समाप्तौ नृप ग्रंथस्य वाचकस्यानुपूजनम् ॥८०॥
दानादिभिर्यथान्यायं संपूर्णफलहेतवे ॥
मुद्रिकां कुंडले चैव ब्रह्मसूत्रं हिरण्मयम् ॥८१॥
वस्त्राणि च विचित्राणि गंधमाल्यानुलेपनैः ॥
देववत्पूजनं कृत्वा गां च दद्यात्पयस्विनीम् ॥८२॥
एवं विधानतः श्रुत्वा धर्मारण्यकथानकम्॥
धर्मारण्यनिवासस्य फलमाप्नोत्यसंशयम् ॥८३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये धर्मारण्यनिवासिव्यवस्थावर्णनपूर्वक धर्मारण्यपुराणश्रवणमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP