धर्मारण्य खण्डः - अध्याय १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ युधिष्ठिर उवाच ॥
रक्षसां चैव दैत्यानां यक्षणामथ पक्षिणाम् ॥
भयनाशाय काजेशैर्धर्मारण्यनिवासिनाम् ॥१॥
शक्तीः संस्थापिता नृनं नानारूपा ह्यनेकशः ॥
तासां स्थानानि नामा नि यथारूपाणि मे वद ॥२॥
॥ व्यास उवाच ॥
शृणु पार्थ महाबाहो धर्ममूर्ते नृपोत्तम ॥
स्थाने वै स्थापिता शक्तिः काजेशैश्चैव गोत्रपा ॥३॥
श्रीमाता मदारिकायां शांता नंदापुरे वरे ॥
रक्षार्थं द्विजमुख्यानां चतुर्दिक्षु स्थिताश्च ताः ॥४॥
युक्ताश्चैव सुरैः सर्वैः स्वस्वस्थाने नृपोत्तम ॥
वनमध्ये स्थिताः सर्वा द्विजानां रक्षणाय वै ॥५॥
सा बभूव महाराज सावित्रीति प्रथा शिवा ॥
असुराणां वधार्थाय ज्ञानजा स्थापिता सुरैः ॥६॥
गात्रायी? पक्षिणी देवी छत्रजा द्वारवासिनी ॥
शीहोरी चूटसंज्ञा या पिप्पलाशापुरी तथा ॥
अन्याश्च बहवश्चैव स्थापिता भयरक्षणे ॥७॥
प्रतीच्योदीच्यां याम्यां वै विबुधैः स्थापिता हि सा ॥
नानायुधधरा सा च नानाभरणभूषिता ॥८॥
नानावाहनमारूढा नानारूपधरा च सा ॥
नानाकोपसमायुक्ता नानाभयविना शिनी ॥९॥
स्थाप्या मातर्यथास्थाने यथायोग्या दिशोदिश ॥
गरुडेन समारूढा त्रिशूलवरधारिणी ॥१०॥
सिंहारूढा शुद्धरूपा वारुणी पानदर्पिता ॥
खड्गखेटकबाणाढ्यैः करैर्भाति शुभानना ॥११॥
रक्तवस्त्रावृता चैव पीनोन्नतपयोधरा ॥
उद्यदादित्यबिंबाभा मदाघूर्णितलोचना ॥१२॥
एवमेषा महादिव्या काजेशैः स्थापिता तदा ॥
रक्षार्थं सर्वजंतूनां सत्यमंदिरवासिनाम् ॥१३॥
सा देवी नृपशार्दूल स्तुता संपूजिता सह ॥
ददाति सकलान्कामान्वांछितान्नृपमत्तम ॥१४॥
धर्मारण्यात्पश्चिमतः स्थापिता छत्रजा शुभा ॥
तत्रस्था रक्षते विप्रान्कियच्छक्तिसम न्विता ॥१५॥
भैरवं रूपमास्थाय राक्षसानां वधाय च ॥
धारयंत्यायुधानीत्थं विप्राणामभयाय च ॥१६॥
सरश्चकार तस्याग्रे उत्तमं जल पूरितम् ॥
सरस्यस्मिन्महाभाग कृत्वा स्नानादितर्पणम् ॥१७॥
पिंडदानादिकं सर्वमक्षयं चैव जायते ॥
भूमौ क्षिप्तांजलीन्दिव्यान्धूपदीपादिकं सदा ॥१८॥
तस्य नो बाधते व्याधिः शत्रूणां नाश एव च ॥
बलिदानादिकं तत्र कुर्याद्भूयः स्वशक्तितः ॥१९॥
शत्रवो नाशमायांति धनं धान्यं विवर्धते ॥
आनंदा स्थापिता राजञ्छक्त्यंशा च मनोरमा ॥२०॥
रक्षणार्थं द्विजातीनां माहात्म्यं शृणु भूपते ॥
शुक्लांबरधरा दिव्या हेमभूषणभूषिता ॥२१॥
सिंहारूढा चतुर्हस्ता शशांककृतशेखरा ॥
मुक्ताहारलतोपेता पीतोन्नतपयोधरा ॥२२॥
अक्षमालासिहस्ता च गुण तोमरधारिणी ॥
दिव्यगंधवराधारा दिव्यमालाविभूषिता ॥२३॥
सात्त्विकी शक्तिरानंदा स्थिता तस्मिन्पुरे पुरा ॥
पूजयेत्तां च वै राजन्कर्पूरारक्त चंदनैः ॥२४॥
भोजयेत्पायसैः शुभ्रैर्मध्वाज्यसितया सह ॥
भवान्याः प्रीतये राजन्कुमार्याः पूजनं तथा ॥२५॥
तत्र जप्तं हुतं दत्तं ध्यातं च नृपसत्तम ॥
तत्सर्वं चाक्षयं तत्र जायते नात्र संशयः ॥२६॥
त्रिगुणे त्रिगुणा वृद्धिस्तस्मिन्स्थाने नृपोत्तम ॥
साधकस्य भवेन्नूनं धनदारादिसं पदः ॥२७॥
न हानिर्न च रोगश्च न शत्रुर्न च दुष्कृतम् ॥
गावस्तस्य विवर्द्धंते धनधान्यादिसंकुलम् ॥२८॥
न शाकिन्या भयं तस्य न च राज्ञश्च वैरिणः ॥
न च व्याधिभयं चैव सर्वत्र विजयी भवेत् ॥२९॥
विद्याश्चतुर्द्दशास्यैव भासंते पठिता इव ॥
सूर्यवद्द्योतते भूमावानंदमा श्रितो नरः ॥३०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्य आनंदास्थापनवर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP