धर्मारण्य खण्डः - अध्याय ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ राम उवाच ॥
जीर्णोद्धारं करिष्यामि श्रीमातुर्वचनादहम् ॥
आज्ञा प्रदीयतां मह्यं यथादानं ददामि वः ॥१॥
पात्रे दानं प्रदातव्यं कृत्वा यज्ञवरं द्विजाः ॥
नापात्रे दीयते किंचिद्दत्तं न तु सुखावहम् ॥२॥
सुपात्रं नौरिव सदा तारयेदुभयोरपि ॥
लोहपिंडोपमं ज्ञेयं कुपात्रं भञ्जनात्मकम् ॥३॥
जातिमात्रेण विप्रत्वं जायते न हि भो द्विजाः ॥
क्रिया बलवती लोके क्रियाहीने कुतः फलम् ॥४॥
पूज्यास्तस्मात्पूज्यतमा ब्राह्मणाः सत्यवादिनः ॥
यज्ञकार्ये समुत्पन्ने कृपां कुर्वंतु सर्वदा ॥५॥
॥ ब्रह्मोवाच ॥
ततस्तु मिलिताः सर्वे विमृश्य च परस्परम् ॥
केचिदूचुस्तदा रामं वयं शिलोंछजीविकाः ॥६॥
संतोषं परमास्थाय स्थिता धर्मपरायणाः ॥
प्रतिग्रहप्रयोगेण न चास्माकं प्रयोजनम् ॥७॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ॥
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥८॥
राजप्रतिग्रहो घोरो राम सत्यं न संशयः ॥
तस्माद्वयं न चेच्छामः प्रतिग्रहं भया वहम् ॥९॥
एकाहिका द्विजाः केचित्केचित्स्वामृतवृत्तयः ॥
कुम्भीधान्या द्विजाः केचित्केचित्षट्कर्मतत्पराः ॥१०॥
त्रिमूर्तिस्थापिताः सर्वे पृथग्भावाः पृथग्गुणाः ॥
केचिदेवं वदंति स्म त्रिमूर्त्याज्ञां विना वयम् ॥११॥
प्रतिग्रहस्य स्वीकारं कथं कुर्याम ह द्विजाः ॥
न तांबूलं स्त्रीकृतं नो ह्यद्मो दानेन भषितम् ॥१२॥
विमृश्य स तदा रामो वसिष्ठेन महात्मना ॥
ब्रह्मविष्णुशिवादीनां सस्मार गुरुणा सह ॥
स्मृतमात्रास्ततो देवास्तं देशं समुपागमन्॥
सूर्यकोटिप्रतीकाशीवमानावलिसंवृताः ॥१४॥
रामेण ते यथान्यायं पूजिताः परया मुदा ॥१३॥
निवेदितं तु तत्सर्वं रामेणातिसुबुद्धिना ॥१५॥
अधिदेव्या वचनतो जीर्णोद्धारं करोम्यहम् ॥
धर्मारण्ये हरिक्षेत्रे धर्मकूपसमीपतः ॥१६॥
ततस्ते वाडवाः सर्वे त्रिमूर्त्तीः प्रणिपत्य च ॥
महता हर्षवृंदेन पूर्णाः प्राप्तमनोरथाः ॥१७॥
अर्घ्यपाद्यादिविधिना श्रद्धया तानपूजयन् ॥
क्षणं विश्रम्य ते देवा ब्रह्मविष्णुशिवादयः ॥१८॥
ऊचू रामं महाशक्तिं विनयात्कृतसंपुटम् ॥१९॥
॥ देवा ऊचुः ॥
देवद्रुहस्त्वया राम ये हता रावणादयः ॥
तेन तुष्टा वयं सर्वे भानुवंशविभूषण ॥२०॥
उद्धरस्व महास्थानं महतीं कीर्तिमाप्नुहि ॥२१॥
लब्ध्वा स तेषामाज्ञां तु प्रीतो दशरथात्मजः ॥
जीर्णोद्धारेऽनंतगुणं फलमिच्छन्निलापतिः ॥२२॥
देवानां संनिधौ तेषां कार्यारंभमथाकरोत् ॥
स्थंडिलं पूर्वतः कृत्वा महागिरि समं शुभम्॥२३॥
तस्योपरि बहिःशाला गृहशाला ह्यनेकशः ॥
ब्रह्मशालाश्च बहुशो निर्ममे शोभनाकृतीः ॥२४॥
निधानैश्च समायुक्ता गृहोपकरणै र्वृताः ॥
सुवर्णकोटिसंपूर्णा रसवस्त्रादिपूरिताः ॥२५॥
धनधान्यसमृद्धाश्च सर्वधातुयुतास्तथा ॥
एतत्सर्वं कारयित्वा ब्राह्मणेभ्यस्तदा ददौ ॥२६॥
एकैकशो दशदश ददौ धेनूः पयस्विनीः ॥
चत्वारिंशच्छतं प्रादाद्ग्रामाणां चतुराधिकम् ॥२७॥
त्रैविद्यद्विजविप्रेभ्यो रामो दशरथात्मजः ॥
काजेशेन त्रयेणैव स्थापिता द्विजसत्तमाः ॥२८॥
तस्मात्त्रयीविद्य इति ख्यातिर्लोके बभूव ह ॥
एवंविधं द्विजेभ्यः स दत्त्वा दानं महाद्भुतम् ॥२९॥
आत्मानं चापि मेने स कृतकृत्यं नरेश्वरः ॥
ब्रह्मणा स्थापिताः पूर्वं विष्णुना शंकरेण ये ॥३०॥
ते पूजिता राघवेण जीर्णोद्धारे कृते सति ॥
षट्त्रिंशच्च सहस्राणि गोभुजा ये वणिग्वराः ॥३१॥
शुश्रूषार्थं प्रदत्ता वै देवैर्हरिहरादिभिः॥
संतुष्टेन तु शर्वेण तेभ्यो दत्तं तु चेत नम् ॥३२॥
श्वेताश्वचामरौ दत्तौ खङ्गं दत्तं सुनिर्मलम् ॥
तदा प्रबोधितास्ते च द्विजशुश्रूषणाय वै ॥३३॥
विवाहादौ सदा भाव्यं चामरै मंगलं वरम् ॥
खङ्गं शुभं तदा धार्य्यं मम चिह्नं करे स्थितम् ॥३४॥
गुरुपूजा सदा कार्या कुलदेव्याः पुनःपुनः ॥
वृद्ध्यागमेषु प्राप्तेषु वृद्धि दायकदक्षिणा ॥३५॥
एकादश्यां शनेर्वारे दानं देयं द्विजन्मने ॥
प्रदेयं बालवृद्धेभ्यो मम रामस्य शासनात् ॥३६॥
मंडलेषु च ये शुद्धा वणिग्वृत्तिरताः पराः ॥
सपादलक्षास्ते दत्ता रामशासनपालकाः ॥३७॥
मांडलीकास्तु ते ज्ञेया राजानो मंडलेश्वराः ॥
द्विज शुश्रूषणे दत्ता रामेण वणिजां वराः ॥३८॥
चामरद्वितयं रामो दत्तवान्खड्गमेव च ॥
कुलस्य स्वामिनं सूर्यं प्रतिष्ठाविधिपूर्वकम् ॥३९॥
ब्रह्माणं स्थापयामास चतुर्वेदसमन्वितम् ॥
श्रीमातरं महाशक्तिं शून्यस्वामिहरिं तथा ॥४०॥
विघ्नापध्वंसनार्थाय दक्षिणद्वारसंस्थितम् ॥
गणं संस्थापयामास तथान्याश्चैव देवताः ॥४१॥
कारितास्तेन वीरेण प्रासादाः सप्तभूमिकाः ॥
यत्किं चित्कुरुते कार्यं शुभं मांगल्यरूपकम् ॥४२॥
पुत्रे जाते जातके वान्नाशने मुंडनेऽपि वा ॥
लक्षहोमे कोटिहोमे तथा यज्ञक्रियासु च ॥४३॥
वास्तुपूजाग्रहशांत्योः प्राप्ते चैव महोत्सवे ॥
यत्किंचित्कुरुते दानं द्रव्यं वा धान्यमुत्तमम् ॥४४॥
वस्त्रं वा धेनवो नाथ हेम रूप्यं तथैव च ॥
विप्राणामथ शूद्राणां दीनानाथांधकेषु च ॥४५॥
प्रथमं बकुलार्कस्य श्रीमातुश्चैव मानवः ॥
भागं दद्याच्च निर्विघ्नकार्यसिद्ध्यै निरन्तरम् ॥४६॥
वचनं मे समुल्लंघ्य कुरुते योऽन्यथा नरः ॥
तस्य तत्कर्मणो विघ्नं भविष्यति न संशयः ॥४७॥
एवमुक्त्वा ततो रामः प्रहृष्टेनांतरात्मना ॥
देवानामथ वापीश्च प्राकारांस्तु सुशोभनान् ॥४८॥
दुर्गोपकरणैर्युक्तान्प्रतोलीश्च सुविस्तृताः ॥
निर्ममे चैव कुंडानि सरांसि सरसीस्तथा ॥४९॥
धर्मवापीश्च कूपांश्च तथान्यान्देवनिर्मितान् ॥
एतत्सर्वं च विस्तार्य धर्मारण्ये मनोरमे ॥५०॥
ददौ त्रैविद्यमुख्येभ्यः श्रद्धया परया पुनः ॥
ताम्रपट्टस्थितं रामशासनं लोपयेत्तु यः ॥५१॥
पूर्वजास्तस्य नरके पतंत्यग्रे न संततिः ॥
वायुपुत्रं समाहूय ततो रामोऽब्रवीद्वचः ॥५२॥
वायुपुत्र महावीर तव पूजा भविष्यति ॥
अस्य क्षेत्रस्य रक्षायै त्वमत्र स्थितिमाचर ॥५३॥
आंजनेयस्तु तद्वाक्यं प्रणम्य शिरसादधौ ॥
जीर्णोद्धारं तदा कृत्वा कृतकृत्यो बभूव ह ॥५४॥
श्रीमातरं तदाभ्यर्च्य प्रसन्नेनांतरात्मना ॥
श्रीमातरं नमस्कृत्य तीर्थान्यन्यानि राघवः ॥५५॥
तेऽपि देवाः स्वकं स्थानं ययुर्बह्मपुरोगमाः ॥५६॥
दत्त्वाशिषं तु रामाय वांछितं ते भविष्यति ॥
रम्यं कृतं त्वया राम विप्राणां स्थापनादिकम् ॥५७॥
अस्माकमपि वात्सल्यं कृतं पुण्यवता त्वया ॥
इति स्तुवंतस्ते देवाः स्वानि स्थानानि भेजिरे ॥५८॥
इति श्रीस्कान्दे महापुराण एका शीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये श्रीरामचन्द्रस्य पुरप्रत्यागमनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥छ ॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP