धर्मारण्य खण्डः - अध्याय ७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
संप्राप्य धर्मवाप्यां च यः कुर्यात्पितृतर्पणम् ॥
तृप्तिं प्रयांति पितरो यावदिंद्राश्चतुर्दश ॥१॥
पितरश्चात्र पूज्याश्च स्वर्गता ये च पूर्वजाः ॥
पिंडांश्च निर्वपेत्तेषां प्राप्येमां मुक्तिदायिकाम् ॥२॥
त्रेतायां पंच दिवसैर्द्वापरे त्रिदिनेन तु ॥
एकचित्तेन यो विप्राः पिंडं दद्यात्कलौ युगे ॥३॥
लोलुपा मानवा लोके संप्राप्ते तु कलौ युगे ॥
परदाररता लोकाः स्त्रियोऽतिचपलाः पुनः॥४॥
परद्रोहरताः सर्वे नरनारीनपुंसकाः॥
परनिन्दापरा नित्यं परच्छिद्रोपदर्शकाः ॥५॥
परोद्वेगकरा नूनं कलहा मित्रभेदिनः॥
सर्वे ते शुद्धतां यांति काजेशाः स्वयमब्रुवन् ॥६॥
एतदुक्तं महाभाग धर्मारण्यस्य वर्णनम् ॥
फलं चैवात्र सर्वं हि यदुक्तं शूलपाणिना ॥७॥
वाङ्मनः कायशुद्धाश्च परदारपराङ्मुखाः ॥
अद्रोहाश्च समाः क्रुद्धा मातापितृपरायणाः ॥८॥
अलौल्या लोभरहिता दानधर्मपरायणाः ॥
आस्तिकाश्चैव धर्मज्ञाः स्वामिभक्तिरताश्च ये ॥९॥
पतिव्रता तु या नारी पतिशुश्रूषणे रता ॥
अहिंसका आतिथेयाः स्वधर्मनिरताः सदा ॥१०॥
॥ शौनक उवाच ॥
शृणु सूत महाभाग सर्वधर्मविदांवर ॥
गृहस्थानां सदाचारः श्रुतश्च त्वन्मुखान्मया ॥११॥
एकं मनेप्सितं मेद्य तत्कथयस्व सूतज ॥
पतिव्रतानां सर्वासां लक्षणं कीदृशं वद ॥१२॥
॥ सूत उवाच ॥
पतिव्रता गृहे यस्य सफलं तस्य जीवनम् ॥
यस्यांगच्छायया तुल्या यत्कथा पुण्यकारिणी ॥१३॥
पतिव्रतास्त्वरुंधत्या सावित्र्याप्यनसूयया ॥
शांडिल्या चैव सत्या च लक्ष्म्या च शतरूपया ॥१४॥
मेनया च सुनीत्या च संज्ञया स्वाहया समाः ॥
पतिव्रतानां धर्मा हि मुनिना च प्रकीर्तिताः ॥१५॥
भुंक्ते भुक्ते स्वामिनि च तिष्ठ ति त्वनुतिष्ठति ॥
विनिद्रिते या निद्राति प्रथमं परिबुध्यति ॥१६॥
अनलंकृतमात्मानं देशांते भर्तरि स्थिते ॥
कार्यार्थं प्रोषिते क्वापि सर्व्वमंड नवर्जिता ॥१७॥
भर्तुर्नाम न गृह्णाति ह्यायुषोऽस्य हि वृद्धये ॥
पुरुषांतरनामापि न गृह्णति कदाचन ॥१८॥
आकृष्टापि च नाक्रोशेत्ताडितापि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ॥१९॥
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ॥२०॥
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥
अदातव्यं स्वयं किंचित्कर्हिचिन्न ददात्यपि॥ २१॥
पूजोपकरणं सर्वम नुक्ता साधयेत्स्वयम् ॥
नियमोदकबर्हींषि यत्र पुष्पाक्षतादिकम् ॥२२॥
प्रतीक्षमाणा च वरं यथाकालोचितं हि यत् ॥
तदुपस्थापयेत्सर्वमनुद्वि ग्नातिहृष्टवत् ॥२३॥
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥
दूरतो वर्ज्जयेदेषा समाजोत्सवदर्शनम् ॥२४॥
न गच्छेत्तीर्थयात्रादिविवाहप्रेक्षणा दिषु ॥
सुखसुप्तं सुखासीनं रममाणं यदृच्छया ॥२५॥
अंतरायेऽपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ॥२६॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नात्वा न शुध्यति ॥
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥२७॥
हरिद्रां कुकुमं चैव सिंदूरं कज्जलं तथा ॥
कूर्पासकं च तांबूलं मांगल्याभरणं शुभम् ॥२८॥
केशसंस्कारकं चैव करकर्णादिभूषणम् ॥
भर्तुरायुष्यमिच्छंती दूरयेन्न पतिव्रता ॥२९॥
भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ॥
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ॥३०॥
नोलूखले न मुशले न वर्द्धन्यां दृषद्यपि ॥
न यंत्रके न देहल्यां सती चोपविशेत्क्वचित् ॥३१॥
विना व्यवायसमयात्प्रागल्भ्यं न क्वचिच्चरेत ॥
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा ॥३२॥
इदमेव व्रतं स्त्रीणामयमेव परो वृषः ॥
इयमेव च पूजा च भर्तुर्वाक्यं न लंघयेत् ॥३३॥
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव वा ॥
सुस्थिरं दुःस्थिरं वापि पतिमेकं न लंघयेत् ॥३४॥
सर्पिर्लव(?)णहिंग्वादिक्षयेऽपि व पति व्रता ॥
पतिं नास्तीति न ब्रूयादायसीषु न भोजयेत् ॥३५॥
तीर्थस्नानार्थिनी चैव पतिपादोदकं पिबेत् ॥
शंकरादपि वा विष्णोः पतिरेवाधि कः स्त्रियः ॥३६॥
व्रतोपवामनियमं पतिमुल्लंघ्य या चरेत् ॥
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥३७॥
उक्ता प्रत्युत्तरं दद्यान्नारी या क्रोधत त्परा ॥
सरमा जायते ग्रामे शृगाली निर्जने वने ॥३८॥
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥
अभ्यर्च्य चरणौ भतुर्भो क्तव्यं कृतनिश्चया ॥३९॥
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥
तत्र पारुष्यवाक्यानि ब्रूयान्नैव कदाचन ॥४०॥
गुरूणां सन्निधौ वापि नोच्चैर्ब्रु यान्नवाहयेत् ॥४१॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ॥४२॥
ताडिता ताडयेच्चेत्तं सा व्याघ्री वृषदंशिका ॥
कटाक्षयति याऽन्यं वै केकराक्षी तु सा भवेत् ॥४३॥
या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ॥
ग्रामे सा सूकरी भूयाद्वल्गुली वाथ विङ्भुजा ॥४४॥
हुन्त्वंकृत्याप्रियं ब्रूते मूका सा जायते खलु ॥
या सपत्नीं सदैर्ष्येत दुर्भगा सा पुनःपुनः ॥
दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ॥४५॥
काणा च विमुखा वापि कुरूपापि च जायते ॥
बाह्यादायांतमालोक्य त्वरिता च जलासनैः ॥
तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ॥४६॥
तथैव चारुवचनैः स्वेदसंनोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥
मितं ददाति हि पिता मितं भ्राता सुतं सुतः ॥४७॥
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥४८॥
जीवहीनो यथा देही क्षणादशुचितां व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्य शुचिः सदा ॥४९॥
अमंगलेभ्यः सर्वेभ्यो विधवा स्यादमंगला ॥
विधवादर्शनात्सिद्धिः क्वापि जातु न जायते ॥५०॥
विहाय मातरं चैकां सर्वा मंगलवर्जिताः ॥
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् ॥५१॥
कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥
भर्तुः सहचरी भूयाज्जीवतो ऽजीवतोपि वा ॥५२॥
अनुव्रजन्ती भर्तारं गृहात्पितृवनं मुदा ॥
पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥५३॥
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ॥
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं व्रजेत्सती ॥५४॥
यमदूताः पलायंते तामालोक्य पतिव्रताम् ॥
तपनस्तप्यते नूनं दहनोपि च दह्यते ॥५५॥
कंपंते सर्वतेजांसि दृष्ट्वा पातिव्रतं महः ॥
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ॥५६॥
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ॥
धन्या सा जननी लोके धन्योऽसौ जनकः पुनः ॥५७॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ॥
पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते ॥५८॥
शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ॥
पितुर्मातुस्तथा पत्युरिहारमुत्र च दुःखिताः ॥५९॥
पतिव्रतायाश्चरणो यत्रयत्र स्पृशेद्भुवम् ॥
सा तीर्थभूमिर्म्मान्येति नात्र भारोऽस्ति पावनः ॥६०॥
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गन्धर्व एवापि स्वपावित्र्याय नान्यथा ॥६१॥
आपः पतिव्रतास्पर्शमभिलष्यंति सर्वदा ॥
गायत्र्याघविनाशो नो पातिव्रत्येन साऽघनुत् ॥६२॥
गृहेगृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥
परं विश्वेशभक्त्यैव लभ्यते स्त्री पति व्रता ॥६३॥
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफलायैव भार्या संतानवृद्धये ॥६४॥
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥
देवपित्रतिथीनां च तृप्तिः स्याद्भार्यया गृहे ॥
गृहस्थः स तु विज्ञेयो गृहे यस्य पतिव्रता ॥६५॥
यथा गंगावगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रतां दृष्ट्वा सदनं पावनं भवेत् ॥६६॥
पर्यंकशायिनी नारी विधवा पातयेत्पतिम्॥
तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया ॥६७॥
नैवांगोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् ॥
गन्धद्रव्यस्य संभोगो नैव कार्य्यस्तया क्वचित् ॥६८॥
तर्प्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् ॥६९॥
विष्णोः संपूजनं कार्यं पतिबुद्ध्या न चान्यथा ॥
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ॥७०॥
यद्यदिष्टतमं लोके यद्यत्पत्युः समीहितम् ॥
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥७१॥
वैशाखे कार्त्तिके मासे विशेषनियमांश्चरेत् ॥
स्नानं दानं तीर्थयात्रां पुराणश्रवणं मुहुः ॥७२॥
वैशाखे जलकुम्भाश्च कार्त्तिके घृतदीपिकाः ॥
माघे धान्यतिलोत्सर्गः स्वर्गलोके विशिष्यते ॥७३॥
प्रपा कार्या च वैशाखे देवे देया गलंतिका ॥
उशीरं व्यजनं छत्रं सूक्ष्मवासांसि चंदनम् ॥७४॥
सकर्पूरं च तांबूलं पुष्पदानं तथैव च ॥
जलपात्राण्यनेकानि तथा पुष्पगृहाणि च ॥७५॥
पानानि च विचित्राणि द्राक्षारंभाफलानि च ॥
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ॥७६॥
ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः॥
वृन्ताकं सूरणं चैव शूकशिंबीं च वर्जयेत् ॥७७॥
कार्त्तिके वर्जयेत्तैलं कांस्यं चापि विवर्जयेत् ॥
कार्त्तिके मौननियमे चारुघण्टां प्रदापयेत् ॥७८॥
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ॥
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥७९।
फलत्यागे फलं देयं रसत्यागे च तद्रसः ॥
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥
धेनुं दद्यात्प्रयत्ने न सालंकारा सकांचनाम् ॥८ ०॥
एकतः सर्वदानानि दीपदानं तथैकतः ॥
कार्त्तिके दीपदानस्य कलां नार्हंति षोडशीम् ॥५१॥
इत्यादिविधवानां च नियमाः संप्रकीर्तिताः ॥
तेषां फलमिदं राजन्नान्येषां च कदाचन ॥८२॥
धर्मवापीं समासाद्य दानं दद्याद्विचक्षणः ॥
कोटिधा वर्द्धते नित्यं ब्रह्मणो वचनं यथा ॥८३॥
तिलधेनुं च यो दयाद्धर्मेश्वरपुरः स्थितः ॥
तिलसंख्यानि वर्षाणि स्वर्गे लोके महीयते ॥६४॥
धर्मक्षेत्रे तु संप्राप्य श्राद्धं कुर्यादतंद्रितः ॥
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो धुवम् ॥८५॥
ये चान्ये पूर्वजाः स्वर्गे ये चान्ये नरकौकसः ॥
ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ॥८६॥
तान्सर्वान्धर्मकूपे वै श्राद्धं कुर्याद्यथाविधि ॥
अत्र प्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥
तेन ते तृप्तिमायांति ये पिशाचत्वमागताः ॥८७॥
येषां तु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ॥८८॥
या वै यवानां कणिकाः पतंति धरणीतले ॥
ताभिराप्यायनं तेषां ये तु देवत्वमागताः ॥८९॥
उद्धृतेष्यथ पिंडेषु यावान्नकणिका भुवि ॥
ताभिराप्यायनं तेषां ये च पातालमागताः ॥९०॥
ये वा वर्णाश्रमाचारक्रियालोपा ह्यसंस्कृताः ॥
विपन्नास्ते भवंत्यत्र संमार्जनजलाशिनः ॥९१॥
भुक्त्वा वाचमनं यच्च जलं पतति भूतले ॥
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयांति वै ॥९२॥
एवं यो यजमानश्च यच्च तेषां द्विजन्मनाम् ॥
क्वचिज्जलान्नविक्षेपः शुचिरस्पृष्ट एव च ॥९३॥
ये चान्ये नरके जातास्तत्र योन्यंतरं गताः ॥
प्रयांत्याप्यायनं वत्स सम्यक्छ्राद्धक्रियावताम् ॥९४॥
अन्यायोपार्जितैर्द्रव्यैः श्राद्धं यत्क्रियते नरैः ॥
तृप्यंति तेन चण्डालपुल्कसादिषु योनिषु ॥९५॥
एवमाप्यायिता वत्स तेन चानेक
बांधवाः ॥श्राद्धं कर्तुमशक्तिश्चेच्छाकैरपि हि जायते ॥९६॥
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि ॥
कुरुते कुर्वतः श्राद्धं कुलं क्वचिन्न सीदति ॥९७॥
पापं यदि कृतं सर्वं पापं च वर्द्धते ध्रुवम् ॥
कुर्वाणो नरके घोरे पच्यते नात्र संशयः ॥९८॥
यथा पुण्यं तथा पापं कृतं कर्म शुभाशुभम् ॥
तत्सर्वं वर्द्धते नूनं धर्मारण्ये नृपोत्तम ॥९९॥
कामिकं कामदं देवं योगिनां मुक्तिदायकम् ॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥१००॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्माण्यक्षेत्रमाहात्म्ये धर्माचारवर्णनंनाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : November 18, 2024
TOP