धर्मारण्य खण्डः - अध्याय ३७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥व्यास उवाच॥
ततस्ते ब्राह्मणाः सर्वे प्रत्यूचुः पवनात्मजम्॥
अधुना सफलं जन्म जीवितं च सुजीवितम् ॥१॥
अद्य नो मोढलोकानां धन्यो धर्मश्च वै गृहाः॥
धन्या च सकला पृथ्वी यज्ञधर्मा ह्यनेकशः ॥२॥
नमः श्रीराम भक्ताय अक्षविध्वंसनाय च ॥
नमो रक्षःपुरीदाहकारिणे वज्रधारिणे ॥३॥
जानकीहृदयत्राणकारिणे करुणात्मने ॥
सीताविरह तप्तस्य श्रीरामस्य प्रियाय च ॥४॥
नमोऽस्तु ते महावीर रक्षास्मान्मज्जतः क्षितौ ॥
नमो ब्राह्मणदेवाय वायुपुत्राय ते नमः ॥५॥
नमोऽस्तु राम भक्ताय गोब्राह्मणहिताय च ॥
नमोस्तु रुद्ररूपाय कृष्णवक्त्राय ते तमः ॥६॥
अंजनीसूनवे नित्यं सर्वव्याधिहराय च ॥
नागयज्ञोपवीताय प्रबलाय नमोऽस्तु ते ॥७॥
स्वयं समुद्रतीर्णाय सेतुबंधनकारिणे ॥८॥
॥ व्यास उवाच ॥
स्तोत्रेणैवामुना तुष्टो वायुपुत्रोऽब्रवीद्वचः ॥
शृणुध्वं हि वरं विप्रा यद्वो मनसि रोचते ॥९॥
॥ विप्रा ऊचुः ॥
यदि तुष्टोऽसि देवेश रामाज्ञापालक प्रभो ॥
स्वरूपं दर्शयस्वाद्य लंकायां यत्कृतं हरे ॥१०॥
तथा विध्वंसवाद्य त्वं राजानं पापकारिणम् ॥
दुष्टं कुमारपालं हि आमं चैव न संशयः ॥११॥
वृत्तिलोपफलं सद्यः प्राप्नुयात्त्वं तथा कुरु ॥
प्रतीत्यर्थं महाबाहो किं विलंबं वदस्व नः ॥१२॥
त्वयि चित्तेन दत्तेन स राजा पुण्यभाग्भवेत् ॥
प्रत्यये दर्शिते वीर शासनं पालयिष्यति ॥१३॥
त्रयीधर्म्मः पृथिव्यां तु विस्तारं प्रापयिष्यति ॥
धर्मधीर महावीर स्वरूपं दर्शयस्व नः ॥१४॥
॥ हनुमानुवाच ॥
मत्स्वरूपं महाकायं न चक्षुर्विषयं कलौ ॥
तेजोराशिमयं दिव्यमिति जानंतु वाडवाः ॥१५॥
तथापि परया भक्त्या प्रसन्नोऽहं स्तवादिभिः ॥
वसनांतरितं रूपं दर्शयिष्यामि पश्यत ॥१६॥
एवमुक्तास्तदा विप्राः सर्वकार्यसमुत्सुकाः ॥
महारूपं महाकायं महापुच्छसमाकुलम् ॥१७॥
दृष्ट्वा दिव्यस्वरूपं तं हनुमंतं जहर्षिरे ॥
कथंचिद्धैर्यमालंब्य विप्राः प्रोचुः शनैः शनैः ॥१८॥
यथोक्तं तु पुराणेषु तत्तथैव हि दृश्यते ॥
उवाच स हि तान्सर्वांश्चक्षुः प्रच्छाद्य संस्थितान् ॥१९॥
फलानीमानि गृह्णीध्वं भक्षणार्थमृषीश्वराः ॥
एभिस्तु भक्षितैर्विप्रा ह्यतितृप्तिर्भविष्यति ॥२०॥
धर्मारण्यं विना वाद्य क्षुधा वः शाम्यति धुवम् ॥२१॥
॥ व्यास उवाच ॥
क्षुधाक्रांतैस्तदा विप्रैः कृतं वै फलभक्षणम् ॥
अमृतप्राशनमिव तृप्तिस्तेषामजायत ॥२२॥
न तृषा नैव क्षुच्चैव विप्राः संक्लिष्टमानसाः ॥
अभवन्सहसा राजन्विस्मयाविष्टचेतसः ॥२३॥
ततः प्राहांजनीपुत्रः संप्राप्ते हि कलौ द्विजाः ॥
नागमिष्याम्यहं तत्र मुक्त्वा रामेश्वरं शिवम् ॥२४॥
अभिज्ञानं मया दत्तं गृहीत्वा तत्र गच्छत ॥
तथ्यमेतत्प्रतीयेत तस्य राज्ञो न संशयः ॥२५॥
इत्युक्त्वा बाहुमुद्धृत्य भुजयोरुभयोरपि ॥
पृथग्रोमाणि संगृह्य चकार पुटिकाद्वयम् ॥२६॥
भूर्जपत्रेण संवेष्ट्य ते अदाद्विप्रकक्षयोः ॥
वामे तु वामकक्षोत्थां दक्षिणोत्थां तु दक्षिणे ॥२७॥
कामदां रामभक्तस्य अन्येषां क्षयकारिणीम् ॥
उवाच च यदा राजा ब्रूते चिह्नं प्रदीयताम् ॥२८॥
तदा प्रदीयतां शीघ्रं वामकक्षोद्भवा पुटी ॥
अथवा तस्य राज्ञस्तु द्वारे तु पुटिकां क्षिप ॥२९॥
ज्वालयति च तत्सैन्यं गृहं कोशं तथैव च ॥
महिष्यः पुत्रकाः सर्वं ज्वलमानं भविष्यति ॥३०॥
यदा तु वृत्तिं ग्रामांश्च वणिजानां बलिं तथा ॥
पूर्वं स्थितं तु यत्किंचित्तत्तद्दास्यति वाडवाः ॥३१॥
लिखित्वा निश्चयं कृत्वाप्यथ दद्यात्स पूर्ववत् ॥
करसंपुटकं कृत्वा प्रणमेच्च यदा नृपः ॥३२॥
संप्राप्य च पुरा वृत्तिं रामदत्तां द्विजोत्तमाः ॥
ततो दक्षिणकक्षास्थकेशानां पुटिका त्वियम् ॥३३॥
प्रक्षिप्यतां तदा सैन्यं पुरावच्च भविष्यति ॥
गृहाणि च तथा कोशः पुत्रपौत्रादयस्तथा ॥३४॥
वह्निना मुच्यमानास्ते दृश्यंते तत्क्षणादिति ॥
श्रुत्वाऽमृतमयं वाक्यं हनुमंतोदितं परम् ॥३५॥
अलभन्त मुदं विप्रा ननृतुः प्रजगुर्भृशम् ॥
जयं चोदैरयन्केऽपि प्रहसन्ति परस्परम् ॥३६॥
पुलकांकितसर्वाङ्गाः स्तुवन्ति च मुहुर्मुहुः ॥
पुच्छं तस्य च संगृह्य चुचुंबुः केचिदुत्सुकाः ॥३७॥
ब्रूतेऽन्यो मम यत्नेन कार्यं नियतमेव हि ॥
अन्यो ब्रूते महाभाग मयेदं कृतमित्युत ॥६८॥
ततः प्रोवाच हनुमांस्त्रिरात्रं स्थीयतामिह ॥
रामतीर्थस्य च फलं यथा प्राप्स्यथ वाडवाः ॥३९॥
तथेत्युक्त्वाथ ते विप्रा ब्रह्मयज्ञं प्रचक्रिरे ॥
ब्रह्मघोषेण महता तद्वनं बधिरं कृतम् ॥४०॥
स्थित्वा त्रिरात्रं ते विप्रा गमने कृतबुद्धयः ॥
रात्रौ हनुमतोऽग्रे त इदमूचुः सुभक्तितः ॥४१॥
॥ ब्राह्मणा ऊचुः ॥
वयं प्रातर्गमिष्यामो धर्मारण्यं सुनिर्मलम् ॥
न विस्मार्या वयं तात क्षम्यतां क्षम्यतामिति ॥४२॥
ततो वायुसुतो राजन्पर्वतान्महतीं शिलाम् ॥
बृहतीं च चतुःशालां दशयोजनमायतीम् ॥४३॥
आस्तीर्य प्राह तान्विप्राञ्छिलायां द्विजसत्तमाः ॥
रक्ष्यमाणा मया विप्राः शयीध्वं विगतज्वराः ॥४४॥
इति श्रुत्वा ततः सर्वे निद्रामापुः सुखप्रदाम् ॥
एवं ते कृतकृत्यास्तु भूत्वा सुप्ता निशामुखे ॥४५॥
कृपालुः स च रुद्रात्मा रामशासनपालकः ॥
रक्षणार्थं हि विप्राणामतिष्ठच्च धरातले ॥४६॥
॥ व्यास उवाच ॥
अर्द्धरात्रे तु संप्राप्ते सर्वे निद्रामुपागताः ॥
तातं संप्रार्थयामास कृतानुग्रहको भवान् ॥४७॥
समीरण द्विजानेतान्स्थानं स्वं प्रापयस्व भोः ॥
ततो निद्राभिभूतांस्तान्वायुपुत्रप्रणोदितः ॥४८॥
समुद्धृत्य शिलां तां तु पिता पुत्रेण भारत ॥
विशिष्टो यापयामास स्वस्थानं द्विजसत्तमान् ॥४९॥
षड्भिर्मासैश्च यः पन्था अतिक्रांतो द्विजातिभिः ॥
त्रिभिरेव मुहूर्त्तैस्तु धर्मारण्यमवाप्तवान् ॥५०॥
भ्रममाणां शिलां ज्ञात्वा विप्र एको द्विजाग्रतः ॥
वात्स्यगोत्रसमुत्पन्नो लोकान्संगीतवान्कलम् ॥५१॥
गीतानि गायनोक्तानि श्रुत्वा विस्मयमाययुः ॥
प्रभाते सुप्रसन्ने तु उदतिष्ठन्परस्परम् ॥५२॥
ऊचुस्ते विस्मिताः सर्वे स्वप्नोऽयं वाथ विभ्रमः ॥
ससंभ्रमाः समुत्थाय ददृशुः सत्यमंदिरम् ॥५३॥
अंतर्बुद्ध्या समालोक्य प्रभावो वायुजस्य च ॥
श्रुत्वा वेदध्वनिं विप्राः परं हर्षमुपागताः ॥५४॥
ग्रामीणाश्च ततो लोका दृष्ट्वा तु महतीं शिलाम् ॥
अद्भुतं मेनिरे सर्वे किमिदं किमिदं त्विति ॥५५॥
गृहेगृहे हि ते लोकाः प्रवदंति तथाद्भुतम् ॥
ब्राह्मणैः पूर्यमाणा सा शिला च महती शुभा ॥५६॥
अशुभा वा शुभा वापि न जानीमो वयं किल ॥
संवदंते ततो लोकाः परस्परमिदं वचः ॥५७॥
॥ व्यास उवाच ॥
ततो द्विजानां ते पुत्राः पौत्राश्चैव समागताः ॥
ऊचुस्ते दिष्ट्या भो विप्रा आगताः पथिका द्विजाः ॥५८॥
ते तु संतुष्टमनसा सन्मुखाः प्रययुर्मुदा ॥
प्रत्युत्थानाभिवादाभ्यां परिरंभणकं तथा ॥५९॥
आघ्राणकादींश्च कृत्वा यथायोग्यं प्रपूज्य च ॥
सर्वं विस्तार्य कथितं शीघ्रमागममात्मनः ॥६०॥
ततः संपूज्य तत्सर्वान्गंधतांबूलकुंकुमैः ॥
शांतिपाठं पठंतस्ते हृष्टा निजगृहान्ययुः ॥६१॥
आनंदाया महापीठे प्रातः पांथाः समुत्थिताः ॥
ददृशुस्ते महास्थानं सोत्कंठा हर्षपूरिताः ॥६०॥
आश्चर्यं परमं प्रापुः किमेतत्स्थानमुत्तमम् ॥
अयं तु दक्षिण द्वारे शांतिपाठोऽत्र पठ्यते ॥६३॥
गृहा रम्याः प्रदृश्यंते शचीपतिगृहोपमाः ॥
प्रासादाः कुलमातॄणां दृश्यंते चाग्निशोभनाः ॥६४॥
एवं ब्रुवत्सु विप्रेषु महाशक्तिप्रपूजने ॥
आगतो ब्राह्मणोऽपश्यत्तत्र विप्रकदंबकम् ॥६५॥
हर्षितो भावितस्तत्र यत्र विप्राः सभासदः ॥
उवाव दिष्ट्या भो विप्रा ह्यागताः पथिका द्विजाः ॥६६॥
प्रत्युत्तस्थुस्ततो विप्राः पूजां गृहीत्वा समागताः ॥
प्रत्युत्थानाभिवादौ चाकुर्वंस्ते च परस्परम् ॥६७॥
तेते संपूज्य वेगात्तु यथायोग्यं यथाविधि ॥
हरीश्वरस्य यद्वृत्तं विप्राग्रे संप्रकाशितम् ॥६८॥
पथिकानां वचः श्रुत्वा हर्षपूर्णा द्विजोत्तमाः ॥
शांतिपाठं पठन्तस्ते हृष्टा निजगृहान्ययुः ॥६९॥
विमृश्य मिलिताः प्रातर्ज्योतिर्विद्भिः प्रतिष्ठिताः ॥
ब्राह्मे मूहूर्ते चोत्थाय कान्यकुब्जं गता द्विजाः ॥७०॥
दोलाभिर्वाहिताः केचित्केचिदश्वै रथैस्तथा ॥
केचित्तु शिबिकारूढा नानावाहनगाश्च ते ॥७१॥
तत्पुरं तु समासाद्य गंगायाः शोभने तटे ॥
अकुर्वन्वसतिं वीराः स्नानदानादिकर्म्म च ॥७२॥
चरेण केनचिद्दृष्टाः कथिता नृपसन्निधौ ॥
अश्वाश्च बहुशो दोला रथाश्च बहुशो वृषाः ॥७३॥
विप्राणामिह दृश्यंते धर्मारण्यनिवासिनाम् ॥
नूनं ते च समायाता नृपेणोक्तं ममाग्रतः ॥७४॥
अभिज्ञापय मे पूर्वं प्रेषिताः कपिसंनिधौ ॥७५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां प्रत्यागमन वर्णनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥छ ॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP