धर्मारण्य खण्डः - अध्याय २०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
अतः परं प्रवक्ष्यामि शिवतीर्थमनुत्तमम् ॥
यत्रासौ शंकरो देवः पुनर्जन्मधरोऽभवत् ॥१॥
कीलितो देवदेवेशः शंकरश्च त्रिलोचनः ॥
गिरिजया महाभाग पातितो भूमिमंडले ॥२॥
छलितो मुह्यमानस्तु दिवारात्रिं न वेत्ति च ॥
पुंस्त्रीनपुंसकाश्चैव जडीभूतस्त्रिलोचनः ॥३॥
कल्पांतमिव संजातं तदा तस्मिंश्च कीलिते ॥
पार्वत्या सहसा तस्य कृत कीलनकं तदा ॥४॥
॥ युधिष्ठिर उवाच ॥
एतदाश्चर्यमतुलं वचनं यत्त्वयोदितम् ॥
यो गुरुः सर्वदेवानां योगिनां चैव सर्वदा ॥५॥
पार्वत्या कीलितः कस्मा न्नष्टवृत्तिः शिवः कथम् ॥
कारणं कथ्यतां तत्र परं कौतूहलं हि मे ॥६॥
॥ व्यास उवाच ॥
मन्त्रौघा विविधा राजञ्छंकरेण प्रकाशिताः ॥
पार्वत्यग्रे महाराज अथर्वणोपवेदजाः ॥७॥
शाकिनी डाकिनी चैव काकिनी हाकिनी तथा ॥
एकिनी लाकिनी ह्येताः षट्भेदास्तत्र कीर्ति ताः ॥७॥
बीजान्युद्धृत्य वै ताभ्यो माला चैकवृता कृता ॥
शंभुना कथिता चैव पार्वत्यग्रे नृपोत्तम ॥९॥
तैश्चैव अष्टा भवति मंत्रोद्धारः कृतस्तु सा ॥
साधयेत्सा महादुष्टा शाकिनी प्रमदानघे ॥१०॥
॥ श्रीपार्वत्युवाच ॥
प्रकाशितास्त्वया नाथ भेदा ह्येते षडेव हि ॥
षड्विधाः शक्तयो नाथ अगम्यायोगमालिनीः ॥
षड्विधोक्तं त्वयैकेन कूटात्कृतं वदस्व माम् ॥११॥
॥ श्रीमहादेव उवाच ॥
अप्रकाशो महादेवि देवासुरैस्तु मानवैः ॥१२॥
॥ पार्वत्युवाच ॥
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
जटिलेश नमस्तुभ्यं नीलकण्ठ नमोस्तुते ॥१३॥
कृपासिंधो नमस्तुभ्यं नमस्ते कालरूपिणे ॥
एतैश्च बहुभिर्वाक्यैः कोमलैः करुणानिधिम् ॥१४॥
तोषयित्वाद्रितनया दण्डवत्प्रणिपत्य च ॥
जग्राह पादयुगलं तां प्रोवाच दयापरः ॥१५॥
किमर्थं स्तूयसे भद्रे याच्यतां मनसीप्सितम् ॥१६॥
॥ पार्वत्युवाच ॥
समाहारं च सध्यानं कथयस्व सविस्तरम् ॥
असंदेहमशेषं च यद्यहं वल्लभा तव ॥१७॥
॥ श्रीरुद्र उवाच ॥
न प्रकाश्यं त्वया देवि समाहारोद्भवं फलम् ॥
सर्वं तत्त्वमहं वक्ष्ये मंत्रकूटाद्यमेव हि ॥१७॥
मायाबीजं तु सर्वेषां कूटानां हि वरानने ॥
सर्वेषां मध्यमो वर्णो बिंदुना दादिशोभितः ॥१९॥
वह्निबीजं सवातं च कूर्मबीजसमन्वितम् ॥
आदित्यप्रभवं बीजं शक्तिबीजोद्भवं सदा ॥२०॥
एतत्कूटं चाद्यबीजं द्वितीयं च विभोर्मतम् ॥
तृतीयं चाग्निबीजं तु संयुक्तं बिंदुनेंदुना ॥२१॥
चतुर्थं युक्तं शेषेण ब्रह्मबीजमृषिस्तथा ॥
पंचमं कालबीजं च षष्ठं पार्थिव बीजकम् ॥२२॥
सप्तमे चाष्टमे बाह्यं नृसिंहेन समन्वितम् ॥
नवमे द्वितीयमेकं च दशमे चाष्टकूटकम् ॥२३॥
विपरीतं तयोर्बीजं रुद्राक्षे वर चारिणि ॥
चतुर्दशे चतुर्थ्यर्थं पृथ्वीबीजेन संयुतम् ॥२४॥
कूटाः शेषाक्षराः केचिद्रक्षिता मेनकात्मजे ॥
सा पपात यदोर्व्यां हि शिवपत्नी तदा नृप ॥२५॥
रामेणाश्वासिता तत्र प्रहसंस्त्रिपुरांतकः ॥
भद्रे यस्मात्त्वया पन्नं जंवशक्तिर्भविष्यति ॥२६॥
मारणे मोहने वश्ये आकर्षणे च क्षोभणे ॥
यंयं कामयते नूनं ततत्सिद्धिर्भविष्यति ॥२७॥
इति श्रुत्वा तदा देवी दुष्टचित्ता शुचिस्मिता ॥
कूटशेषास्ततो वीराः प्रोक्तास्तस्यै तु शंभु ना ॥२८॥
उवाच च कृपासिंधुः साधयस्व यथाविधि॥
कैलासात्तु हरस्तत्र धर्मारण्यं गतो भृशम् ॥२९॥
ज्ञात्वा देवी ययौ तत्र यत्रासौ वृषभध्वजः ॥
तत्क्षणात्पतितो भूमौ धर्मारण्ये नृपोत्तम ॥३०॥
जटा चंद्रोरगाः शूलं वृषभाद्यायुधानि३॥
मुंडमाला च कौपीनं कपालं ब्रह्मणस्तु वै ॥३१॥
गता गणाश्च सर्वत्र भूतप्रेता दिशो दश ॥
विसंज्ञं च स्वमात्मानं ज्ञात्वा देवो महेश्वरः ॥३२॥
स्वेदजास्तु समुत्पन्ना गणाः कूटादयस्तथा ॥
पंचकूटान्समुत्पाद्य तस्मात्तदाधमूलिने ॥३३॥
साधकास्ते महाराज जपहोमपरायणाः ॥
प्रेतासनास्तु ते सर्वे कालकूटोपरि स्थिताः ॥३४॥
कथयंति स्वमात्मानं येन मोक्षः पिनाकिनः ॥
ततः कष्टसमाविष्टा गौरी वह्निभयातुरा ॥३५॥
सभाजितः शिवस्तैश्च गौरी ह्रीणा त्वधोमुखी ॥
तपस्तेपे च तत्रस्था शंकरादेशकारिणी ॥३६॥
पंचाग्निसेवनं कृत्वा धूम्रपानमधोमुखी ॥
कूटाक्षरैः स्तुतस्तैस्तु तोषितो वृषभध्वजः ॥३७॥
धराक्षेत्रमिदं राजन्पापघ्नं सर्वकामदम् ॥
देवमज्जनकं शुभ्रं स्थानकेऽस्मिन्विराजते ॥३८॥
आश्विने कृष्णपक्षे च चतुर्दश्या दिने नृप ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥३९॥
पूजयित्वा च देवेशमुपोष्य च विधानतः ॥
शाकिनी डाकिनी चैव वेतालाः पितरो ग्रहाः ॥४०॥
ग्रहा धिष्ण्या न पीड्यंते सत्यंसत्यं वरानने ॥
सांगं रुद्रजपं तत्र कृत्वा पापैः प्रमुच्यते ॥४१॥
नश्यंति त्रिविधा रोगाः सत्यंसत्यं च भूपते ॥
एतत्सर्वं मया ख्यातं देवमज्जनकं शृणु ॥४२॥
अश्वमेधसहस्रैस्तु कृतैस्तु भूरिदक्षिणैः ॥
तत्फलं समवाप्नोति श्रोता श्रावयिता नरः ॥४३॥
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः ॥४४॥
मनोवाक्कायजनितं पातकं त्रिविधं च यत् ॥
तत्सर्वं नाशमायाति स्मरणात्कीर्तनान्नृप ॥४५॥
धन्यं यशस्यमायुष्यं सुखसंतानदायकम् ॥
माहात्म्यं शृणुयाद्वत्स सर्वसौख्यान्वितो भवेत् ॥४६॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्॥
सर्वयज्ञैश्च यत्पुण्यं जायते श्रवणान्नृप ॥४७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्ड पूर्वभागे धर्माण्यमाहात्म्ये धराक्षेत्रवर्णनं नाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : November 19, 2024
TOP