धर्मारण्य खण्डः - अध्याय १४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
युधिष्ठिर उवाच ॥
कृपासिंधो महाभाग सर्वव्यापिन्सुरेश्वर ॥
कदा ह्यत्र तपस्तप्तं विष्णुनामिततेजसा ॥१॥
स्कंदाय कथितं चैव शर्वेण च महात्मना ॥
आनुपूर्व्येण सर्वं हि कथयस्व त्वमेव हि ॥२॥
॥ व्यास उवाच ॥
शृणु वत्स प्रवक्ष्यामि धर्म्मारण्ये नृपोत्तम ॥
एकदात्र तपस्तप्तं विष्णुनाऽमिततेजसा ॥३॥
॥ स्कंद उवाच ॥
कथं देवसरोनाम पंपा चंपा गया तथा ॥
वाराणस्यधिका चैव कथमश्वमुखो हरिः ॥४॥
॥ ईश्वर उवाच ॥
अत्र नारायणो देवस्तपस्तेपे सुदुष्करम् ॥
दिव्यवर्षशतं त्रीणि जातः सुष्ठ्वाननश्च सः ॥५॥
तपस्तेपे महाविष्णुः सुरूपार्थं च पुत्रक ॥
वाजिमुखो हरिस्तत्र सिद्धस्थाने महाद्युते ॥६॥
॥ स्कंद उवाच ॥
कारणं ब्रूहि नोद्य त्वमश्वाननः कथं हरिः ॥
महारिपोश्च हंता च देवदेवो जगत्पतिः ॥७॥
यस्य नाम्ना महाभाग पातकानि बहून्यपि ॥
विलीयंते तु वेगेन तमः सूर्योदये यथा ॥८॥
श्रूयंते यस्य कर्माणि अद्भुतान्यद्भुतानि वै ॥
सर्वेषामेव जीवानां कारणं परमेश्वरः ॥९॥
प्राणरूपेण यो देवो हयरूपः कधं भवेत् ॥
सर्वेषामपि तंत्राणामेकरूपः प्रकीर्तितः ॥१०॥
भक्तिगम्यो धर्मभाजां सुखरूपः सदा शुचिः ॥
गुणातीतोऽपि नित्योऽसौ सर्वगो निर्गुणस्तथा ॥११॥
स्रष्टासौ पालको हंता अव्यक्तः सर्वदेहिनाम् ॥
अनुकूलो महातेजाः कस्मादश्वमुखोऽभवत् ॥१२॥
यस्य रोमोद्भवा देवा वृक्षाद्याः पन्नगा नगाः ॥
कल्पेकल्पे जगत्सर्वं जायते यस्य देहतः ॥१३॥
स एव विश्वप्रभवः स एवात्यंतकारणम् ॥
येनानीताः पुनर्विद्या यज्ञाश्च प्रलयं गताः ॥१४॥
घातितो दुष्टदैत्योऽसौ वेदार्थं कृत उद्यमः ॥
एवमासीन्महाविष्णुः कथमश्वमुखोऽभवत् ॥१५॥
रत्नगर्भा धृता येन पृष्ठदेशे च लीलया ॥
कृत्या व्यवस्थितं सर्वं जगत्स्थावरजंगमम् ॥१६॥
स देवो विश्वरूपो वै कथं वाजिमुखोऽभवत् ॥
हिरण्याक्षस्य हंता यो रूपं कृत्वा वराहजम् ॥१७॥
सुपवित्रं महातेजाः प्रविश्य जलसा गरे ॥
उद्धृता च मही सर्वा ससागरमहीधरा ॥१८॥
उद्धृता च मही नूनं दंष्ट्राग्रे येन लीलया ॥
कृत्वा रूपं वराहं च कपिलं शोकनाशनम् ॥१९॥
स देवः कथमीशानो हयग्रीवत्वमागतः ॥
प्रह्लादार्थे स चेशानो रूपं कृत्वा भयावहम् ॥२०॥
नारसिंहं महादेवं सर्वदुष्टनिवारणम् ॥
पर्वताग्निसमुद्रस्थं ररक्ष भक्तसत्तमम् ॥२१॥
हिरण्यकशिपुं दुष्टं जघान रजनीमुखे ॥
इंद्रासने च संस्थाप्य प्रह्लादस्य सुखप्रदम् ॥२२॥
प्रह्लादार्थे च वै नूनं नृसिंहत्वमुपागतः ॥
विरोचनसुतस्याग्रे याचकोऽसौ भवेत्तदा ॥२३॥
यज्ञे चैवाश्वमेधे वै बलिना यः समर्चितः ॥
हृता वसुमती तस्य त्रिपदीकृतरोदसी ॥२४॥
विश्वरूपेण वै येन पाताले क्षपितो बलिः ॥
त्रिःसप्तवारं येनैव क्षत्रियानवनीतले ॥२५॥
हत्वाऽददाच्च विप्रेभ्यो महीमतिमहौजसा ॥
घातितो हैहयो राजा येनैव जननी हता ॥२६॥
येन वै शिशुनोर्व्यां हि घातिता दुष्टचारिणी ॥
राक्षसी ताडका नाम्नी कौशिकस्य प्रसादतः ॥२७॥
विश्वामित्रस्य यज्ञे तु येन लीलानृदेहिना ॥
चतुर्दशसहस्राणि घातिता राक्षसा वलात् ॥२८॥
हता शूर्पणखा येन त्रिशिराश्च निपातितः ॥
सुग्रीवं वालिनं हत्वा सुग्रीवेण सहायवान् ॥२९॥
कृत्वा सेतुं समुद्रस्य रणे हत्वा दशाननम् ॥
धर्म्मारण्यं समासाद्य ब्राह्मणानन्वपूजयत् ॥३०॥
शासनं द्विजवर्येभ्यो दत्त्वा ग्रामान्बहूंस्तथा ॥
स्नात्वा चैव धर्म्मवाप्यां सुदानान्यददाद्गवाम् ॥३१॥
साधूनां पालनं कृत्वा निग्रहाय दुरात्मनाम् ॥
एवमन्यानि कर्म्माणि श्रुतानि च धरातले ॥३२॥
स देवो लीलया कृत्वा कथं चाश्वमुखोऽभवत् ॥
यो जातो यादवे वंशे पूतनाशकटादिकम् ॥३३॥
अरिष्टदैत्यः केशी च वृकासुरबकासुरौ ॥
शकटासुरो महासुर स्तृणावर्तश्च धेनुकः ॥३४॥
मल्लश्चैव तथा कंसो जरासंधस्तथैव च ॥
कालयवनस्य हंता च कथं वै स हयाननः ॥
तारकासुरं रणे जित्वा अयुतषट्पुरं तथा ॥३५॥
कन्याश्चोद्वाहिता येन सहस्राणि च षड् दश ॥
अमानुषाणि कृत्वेत्थं कथं सोऽश्वमुखोऽभवत् ॥३६॥
त्राता यः सर्वभक्तानां हंता सर्वदुरात्मनाम् ॥
धर्मस्थापनकृत्सोऽपि कल्किर्विष्णुपदे स्थितः ॥३७॥
एतद्वै महदाश्चर्य्यं भवता यत्प्रकाशितम् ॥
एतदाचक्ष्व मे सर्वं कारणं त्रिपुरांतक ॥३८॥
॥ श्रीरुद्र उवाच ॥
साधुपृष्टं महाबाहो कारणं तस्य वच्म्यहम् ॥
हयग्रीवस्य कृष्णस्य शृणुष्वे काग्रमानसः ॥३९॥
॥ व्यास उवाच ॥
पुरा देवैः समारब्धो यज्ञो नूनं धरातले ॥
वेदमंत्रैराह्वयितुं सर्वे रुद्रपुरोगमाः ॥४०॥
वैकुण्ठे च गताः सर्वे क्षीराब्धौ च निजालये ॥
पातालेऽपि पुनर्गत्वा न विदुः कृष्णदर्शनम् ॥४१॥
मोहाविष्टास्ततः सर्वे इतश्चेतश्च धाविताः ॥
नैव दृष्टस्तदा तैस्तु ब्रह्मरूपो जनार्दनः ॥४२॥
विचारयंति ते सर्वे देवा इन्द्रपुरोगमाः ॥
क्व गतोऽसौ महाविष्णुः केनोपायेन दृश्यते ॥४३॥
प्रणम्य शिरसा देवं वागीशं प्रोचुरादरात् ॥
देवदेव महाविष्णुं कथयस्व प्रसादतः ॥४४॥
॥ बृहस्पतिरुवाच ॥
न जाने केन कार्येण योगारूढो महात्मवान् ॥
योगरूपोऽभवद्विष्णुर्योगीशो हरिरच्युतः ॥४५॥
क्षणं ध्यात्वा स्वमात्मानं धिषणेन ख्यापितो हरिः ॥
तत्र सर्वे गता देवा यत्र देवो जगत्पतिः ॥४६॥
तदा दृष्टो महाविष्णुर्ध्यानस्थोऽसौ जनार्दनः ॥
ध्यात्वा कृत्यसमाकारं सशरं दैत्यसूदनम् ॥४७॥
समास्थानं ततो दृष्ट्वा बोधोपायं प्रचक्रमे ॥
आह तांश्च तदा वम्र्यो धनुर्गुणं प्रयत्नतः ॥
छेत्स्यंति चेत्तच्छब्देन प्रबुध्येत हरिः स्वयम् ॥४८॥
॥ देवा ऊचुः ॥
गुणभक्षं कुरुध्वं वै येनासौ बुध्यते हरिः ॥
क्रत्वर्थिनो वयं वम्र्यः प्रभुं विज्ञापयामहे ॥४९॥
॥ वम्र्यः ऊचुः ॥
निद्राभंगं कथाच्छेदं दम्पत्योर्मैत्रभेदनम् ॥
शिशुमातृविभेदं वा कुर्वाणो नरकं व्रजेत् ॥५०॥
योगारूढो जगन्नाथः समाधिस्थो महाबलः ॥
तस्य श्रीजगदीशस्य विघ्नं नैव तु कुर्महे ॥५१॥
॥ ब्रह्मोवाच ॥
भवतां सर्वभक्षत्वं देवकार्यं क्रियेत चेत् ॥
कर्त्तव्यं च ततो वम्र्यो यज्ञसिद्धिर्यथा भवेत् ॥
वम्रीशा सा तदा वत्स पुनरेवमुवाच ह ॥५२॥
॥ वम्र्युवाच ॥
दुःखसाध्यो जगन्नाथो मलयानिलसंनिभः ॥
कथं वा बोध्यतां बह्मन्नस्माभिः सुरपूजितः ॥५३॥
नैव यज्ञेन मे कार्यं सुरैश्चैव तथैव च ॥
सर्वेषु यज्ञकार्येषु भागं ददतु मे सुराः ॥५४॥
॥ देवा ऊचुः ॥
प्रदास्यामो वयं वम्र्यै भागं यज्ञेषु सर्वदा ॥
यज्ञाय दत्तमस्माभिः कुरुष्वैवं वचो हि नः ॥५५॥
तथेति विधिनाप्युक्तं वम्री चोद्यममाश्रिता ॥
गुणभक्षादिकं कर्म तया सर्वं कृतं नृप ॥५६॥
॥ युधिष्ठिर उवाच ॥
अस्य वा बोधने देवा गुणभंगे समाधिषु ॥
एतदाश्चर्यं विप्रर्षे सत्यं सत्यवतीसुत ॥५७॥
॥ व्यास उवाच ॥
व्यग्रचित्ताः सुराः सर्वे आकृष्टं हरिकार्मु कम् ॥
न जाने केन कार्येण विष्णुमायाविमोहिताः ॥५८॥
मुदितास्ताः प्रमुञ्चंति वल्मीकं चाग्रतो हरेः ॥
कोटिपार्श्वे ततो नीतं वल्मीकं पर्वतोपमम् ॥५९॥
गुणे च भक्षिते तस्मिंस्तक्षणादेव दूषिते ॥
ज्याघातकोटिभिः सार्द्धं शीर्षं छित्त्वा दिवं गतम् ॥६०॥
गते शीर्षे च ते देवा भृशमु द्विग्नमानसाः ॥
धावंति सर्वतः सर्वे शिरआलोकनाय ते ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये विष्णुशिरोनाशोनाम चतुर्दशोऽध्यायः ॥१४॥
N/A
References : N/A
Last Updated : November 18, 2024
TOP