धर्मारण्य खण्डः - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
अतः परं प्रवक्ष्यामि धर्मराजस्य चेष्टितम् ॥
यच्छ्रुत्वा यमदूतानां न भयं विद्यते क्वचित् ॥१॥
धर्मराजेन सा दृष्टा वर्द्धनी च वराप्सरा ॥
महत्यरण्ये का ह्येषा सुन्दरांग्यतिसुन्दरी ॥२॥
निर्मानुषवनं चेदं सिंहव्याघ्रभयानकम् ॥
आश्चर्यं परमं ज्ञात्वा धर्मराजोऽब्रवीदिदम् ॥३॥
॥ धर्मराज उवाच ॥
कस्मात्त्वं मानिनि ह्येका वने चरसि निर्जने ॥
कस्मात्स्थानात्समायाता कस्य पत्नी सुशोभने ॥४॥
सुता त्वं कस्य वामोरु अतिरूपवती शुभा ॥
मानुषी वाथ गंधर्वी अमरी वाथ किंनरी ॥५॥
अप्सरा पक्षिणी वाथ अथवा वनदेवता ॥
राक्षसी वा खेचरी वा कस्य भार्या च तद्वद ॥६॥
सत्यं च वद मे सुभ्रूरित्याहार्कसुतस्तदा ॥
किमिच्छसि त्वया भद्रे किं कार्यं वा वदात्र वै ॥७॥
यदिच्छसि त्वं वामोरु ददामि तव वांछितम् ॥८॥
॥ वर्द्धन्युवाच ॥
धर्मे तिष्ठति सर्वं वै स्थावरं जंगमं विभो ॥
स धर्मो दुष्करं कर्म कस्मात्त्वं कुरुषेऽनघ ॥९॥
॥ यम उवाच ॥
ईशानस्य च यद्रूपं द्रष्टुमिच्छामि भामिनि ॥
तेनाहं तपसा युक्तः शिवया सह शंकरम् ॥१०॥
यशः प्राप्स्ये सुखं प्राप्स्ये करोमि च सुदुष्करम् ॥
युगेयुगे मम ख्यातिर्भवेदिति मतिर्मम ॥११॥
कल्पे कल्पे महाकल्पे भूयः ख्यातिर्भवेदिति ॥
एतस्मात्कारणात्सुभ्रूस्तप्यते परमं तपः ॥१२॥
कस्मात्त्वमागता भद्रे कथयस्व यथातथा ॥
किं कार्यं कस्य हेतुश्च सत्यमाख्यातुमर्हसि ॥१३॥
॥ वर्द्धन्युवाच ॥
तपसैव त्वया धर्म भयभीतो दिवस्पतिः ॥
तेनाहं नोदिता चात्र तपोवि घ्नस्य कांक्षया ॥१४॥
इन्द्रासनभयाद्भीता हरिणा हरिसन्निधौ ॥
प्रेषिताहं महाभाग सत्यं हि प्रवदाम्यहम् ॥१५॥
॥ सूत उवाच ॥
सत्यवाक्येन च तदा तोषितो रविनंदनः ॥
उवाचैनां महाभाग्यो वरदोहं प्रयच्छ मे ॥१६॥
यमोऽहं सर्वभूतानां दुष्टानां कर्मकारिणाम् ॥
धर्म रूपो हि सर्वेषां मनुजानां जितात्मनाम् ॥१७॥
स धर्मोऽहं वरारोहे ददामि तव दुर्लभम् ॥
तत्सर्वं प्रार्थय त्वं मे शीघ्रं चाप्सरसां वरे ॥१८॥
॥ वर्द्धन्युवाच ॥
इन्द्रस्थाने सदा रम्ये सुस्थिरत्वं प्रयच्छ मे ॥
स्वामिन्धर्मभृतां श्रेष्ठ लोकानां च हिताय वै ॥१९॥
॥ यम उवाच ॥
एवमस्त्विति तां प्राह चान्यं वरय सत्वरम् ॥
ददामि वरमुत्कृष्टं गानेन तोषितोस्म्यहम् ॥२०॥
॥ वर्द्धन्युवाच ॥
अस्मिन्स्थाने महाक्षेत्रे मम तीर्थं महामते ॥
भूयाच्च सर्वपापघ्नं मन्नाम्नेति च विश्रुतम् ॥२१॥
तत्र दत्तं हुतं तप्तं पठितं वाऽक्षयं भवेत् ॥
पञ्चरात्रं निषेवेत वर्द्धमानं सरोवर म् ॥२२॥
पूर्वजास्तस्य तुष्येरंस्तर्प्यमाणा दिनेदिने ॥
तथेत्युक्त्वा तु तां धर्मो मौनमाचष्ट संस्थितः॥
त्रिःपरिक्रम्य तं धर्मं नमस्कृत्य दिवं ययौ ॥२३॥
॥ वर्द्धन्युवाच ॥
मा भयं कुरु देवेश यमस्यार्कसुतस्य च ॥
अयं स्वार्थपरो धर्म यशसे च समाचरेत् ॥२४॥
॥ व्यास उवाच ॥
वर्द्धनी पूजिता तेन शक्रेण च शुभानना ॥
साधुसाधु महाभागे देवकार्य कृतं त्वया ॥२५॥
निर्भयत्वं वरागेहे सुखवासश्च ते सदा ॥
यशः सौख्यं श्रियं रम्यां प्राप्स्यसि त्वं शुभानने ॥२६॥
तथेति देवास्तामूचुर्निर्भयानंदचेतसा ॥
नमस्कृत्य च शक्रं सा गता स्थानं स्वकं शुभम् ॥२७॥
॥ सूत उवाच ॥
गतेप्सरसि राजेन्द्र धर्मस्तस्थौ यथाविधि ॥
तपस्तेपे महाघोरं विश्वस्योद्वेगदायकम् ॥२८॥
पंचाग्निसा धनं शुक्रे मासि सूर्येण तापिते ॥
चक्रे सुदुःसहं राजन्देवैरपि दुरासदम् ॥२९॥
ततो वर्षशते पूर्णे अन्तको मौनमास्थितः॥
काष्ठभूत इभवातस्थौ वल्मीकशतसंवृतः ॥३०॥
नानापक्षिगणैस्तत्र कृतनीडैः स धर्मराट् ॥
उपविष्टे व्रतं राजन्दृश्यते नैव कुत्रचित् ॥३१॥
संस्मरंतोऽथ देवेश मुमापतिमनिंदितम् ॥
ततो देवाः सगन्धर्वा यक्षाश्चोद्विग्नमानसाः ॥
कैलासशिखरं भूय आजग्मुः शिवसन्निधौ ॥३२॥
॥ देवा ऊचुः ॥
त्राहित्राहि महादेव श्रीकण्ठ जगतः पते ॥
त्राहि नो भूतभव्येश त्राहि नो वृषभध्वज ॥
दयालुस्त्वं कृपानाथ निर्विघ्नं कुरु शंकर ॥३३॥
॥ ईश्वर उवाच ॥
केनापराधिता देवाः केन वा मानमर्द्दिताः ॥
मर्त्ये स्वर्गेऽथवा नागे शीघ्रं कथय ताचिरम् ॥३४॥
अनेनैव त्रिशूलेन खट्वांगेनाथवा पुनः ॥
अथ पाशुपतेनैव निहनिष्यामि तं रणे ॥
शीघ्रं वै वदतास्माक मत्रागमनकारणम् ॥३५॥
॥ देवा ऊचुः ॥
कृपासिन्धो हि देवेश जगदानन्दकारक ॥
न भयं मानुषादद्य न ना गाद्देवदानवात् ॥३६॥
मर्त्यलोके महादेव प्रेतनाथो महाकृतिः ॥
आत्मकार्यं महाघोरं क्लेशयेदिति निश्चयः ॥३७॥
उग्रेण तपसा कृत्वा क्लिश्यदात्मानमात्मना ॥
तेनात्र वयमुद्विग्ना देवाः सर्वे सदाशिव ॥
शरणं त्वामनुप्राप्ता यदिच्छसि कुरुष्व तत् ॥३८॥
॥ सूत उवाच ॥
देवानां वचनं श्रुत्वा वृषारूढो वृषध्वजः ॥
आयुधान्परिसंगृह्य कवचं सुमनोहरम् ॥
गतवानथ तं देशं यत्र धर्मो व्यवस्थितः ॥३९॥
॥ ईश्वर उवाच ॥
अनेन तपसा धर्म संतुष्टं मम मानसम् ॥
वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीत्युवाच ह ॥४०॥
इच्छसे त्वं यथा कामा न्यथा ते मनसि स्थितान् ॥
यंयं प्रार्थयसे भद्र ददामि तव सांप्रतम् ॥४१॥
॥ सूत उवाच ॥
एवं संभाषमाणं तु दृष्ट्वा देवं महेश्वरम् ॥
वल्मीकादुत्थितो राजन्गृहीत्वा करसंपुटम् ॥
तुष्टाव वचनैः शुद्धैर्लोकनाथमरिंदम् ॥४२॥
॥ धर्म उवाच ॥
ईश्वराय नमस्तुभ्यं नमस्ते योगरूपिणे ॥
नमस्ते तेजोरूपाय नीलकंठ नमोऽस्तु ते ॥४३॥
ध्यातॄणामनुरूपाय भक्तिगम्याय ते नमः ॥
नमस्ते ब्रह्मरूपाय विष्णुरूप नमोऽ स्तु ते ॥४४॥
नमः स्थूलाय सूक्ष्माय अणुरूपाय वै नमः ॥
नमस्ते कामरूपाय सृष्टिस्थित्यंतकारिणे ॥४५॥
नमो नित्याय सौम्याय मृडाय हरये नमः ॥
आतपाय नमस्तुभ्यं नमः शीतकराय च ॥४६॥
सृष्टिरूप नमस्तुभ्यं लोकपाल नमोऽस्तु ते ॥
नम उग्राय भीमाय शांत रूपाय ते नमः ॥४७॥
नमश्चानंतरूपाय विश्वरूपाय ते नमः ॥
नमो भस्मांगलिप्ताय नमस्ते चंद्रशेखर ॥
नमोऽस्तु पंचवक्त्राय त्रिनेत्राय नमोऽस्तु ते ॥४८॥
नमस्ते व्यालभूषाय कक्षापटधराय च ॥
नमोंऽधकविनाशाय दक्षपापापहारिणे ॥
कामनिर्द्दाहिने तुभ्यं त्रिपुरारे नमोऽस्तु ते ॥४९॥
चत्वारिंशच्च नामानि मयोक्तानि च यः पठेत् ॥
शुचिर्भूत्वा त्रिकालं तु पठेद्वा शृणुयादपि ॥५०॥
गोघ्नश्चैव कृतघ्नश्च सुरापो गुरुत ल्पगः ॥
ब्रह्महा हेमहारी च ह्यथवा वृषलीपतिः ॥५१॥
स्त्रीबालघातकश्चैव पापी चानृतभाषणः ॥
अनाचारी तथा स्तेयी परदाराभिगस्तथा ॥
अकार्यकारी कृत्यघ्नो ब्रह्मद्विड्वाडवाधमः॥ ५३॥
॥सूत उवाच॥
इत्येवं बहुभिर्वाक्यैर्धर्मराजेन वै मुहुः॥
ईडितोऽपि महद्भक्त्या प्रणम्य शिरसा स्वयम् ॥५४॥
तुष्टः शंभुस्तदा तस्मा उवाचेदं वचः शुभम् ॥
वरं वृणु महाभाग यत्ते मनसि वर्त्तते ॥५५॥
॥ यम उवाच ॥
यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि॥
तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥५६॥
मन्नाम्ना स्थानमेतद्धि ख्यातं लोके भवेदिति ॥
अच्छेद्यं चाप्यभेद्यं च पुण्यं पापप्रणाशनम् ॥५७॥
स्थानं कुरु महादेव यदि तुष्टोऽसि मे भव ॥
शिवेन स्थानकं दत्तं काशीतुल्यं तदा नृप ॥
तद्दत्त्वा च पुनः प्राह अन्यं वरय सत्तम ॥५८॥
॥ धर्म उवाच ॥
यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि ॥
तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥
वरेणैवं यथा ख्यातिं गमिष्यामि युगेयुगे ॥५९॥
॥ ईश्वर उवाच ॥
ब्रूहि कीनाश तत्सर्वं प्रकरोमि तवेप्सितम् ॥
तपसा तोषितोऽहं वै ददामि वरमीप्सितम् ॥६०॥
॥ यम उवाच ॥
यदि मे वांछितं देव ददासि तर्हि शंकर ॥
अस्मिन्स्थाने महाक्षेत्रे मन्नामा भव सर्वदा ॥६१॥
धर्मारण्यमिति ख्यातिस्त्रैलोक्ये सचराचरे ॥
यथा संजायते देव तथा कुरु महेश्वर ॥६२॥
॥ ईश्वर उवाच ॥
धर्मारण्यमिदं ख्यातं सदा भूयाद्युगेयुगे ॥
त्वन्नाम्ना स्थापितं देव ख्यातिमेतद्गमिष्यति ॥
अथान्यदपि यत्किंचित्करोम्येष वदस्व तत ॥६३॥
॥ यम उवाच ॥
योजनद्वयविस्तीर्णं मन्नाम्ना तीर्थमुत्तमम् ॥
मुक्तेश्च शाश्वतं स्थानं पावनं सर्वदेहिनाम् ॥६४॥
मक्षिकाः कीटकाश्चैव पशुपक्षिमृगादयः ॥
पतंगा भूतवेताला पिशाचोरगराक्षसाः ॥६५॥
नारी वाथ नरो वाथ मत्क्षेत्रे धर्मसंज्ञके ॥
त्यजते यः प्रियान्प्राणान्मुक्तिर्भवतु शाश्वती ॥६६॥
एवमस्त्विति सर्वोपि देवा ब्रह्मादयस्तथा ॥
पुष्पवृष्टिं प्रकुर्वाणाः परं हर्षमवा्प्नुयुः ॥६७॥
देवदुंदुभयो नेदुर्गंधर्वपतयो जगुः॥
ववुः पुण्यास्तथा वाता ननृतुश्चाप्सरो गणाः ॥६८॥
॥सूत उवाच॥॥
यमेन तपसा भक्त्या तोषितो हि सदाशिवः ॥
उवाच वचनं देवं रम्यं साधुमनोरमम् ॥६९॥
अनुज्ञां देहि मे तात यथा गच्छामि सत्वरम् ॥
कैलासं पर्वतश्रेष्ठं देवानां हितकाम्यया ॥७०॥
॥ यम उवाच ॥
न मे स्थानं परित्यक्तुं त्वया युक्तं महेश्वर ॥
कैलासादधिकं देव जायते वचनादिदम् ॥७१॥
॥ शिव उवाच ॥
साधु प्रोक्तं त्वया युक्तमेकांशेनात्र मे स्थितिः ॥
न मया त्यजितं साधु स्थानं तव सुनिर्मलम् ॥७२॥
विश्वेश्वरं महालिंगं मन्नाम्नात्र भविष्यति ॥
एवमुक्त्वा महादेवस्तत्रैवांतरधीयत ॥७३॥
शिवस्य वचनात्तत्र तदा लिंगं तदद्भुतम् ॥
तं दृष्ट्वा च सुरैस्तत्र यथानामानुकीर्त्तनम् ॥७४॥
स्वंस्वं लिंगं तदा सृष्टं धर्मारण्ये सुरोत्तमैः ॥
यस्य देवस्य यल्लिंगं तन्नाम्ना परिकीर्तितम् ॥७५॥
॥ सूत उवाच ॥
धर्मेण स्थापितं लिंगं धर्मेश्वरमुपस्थितम् ॥
स्मरणात्पूजनात्तस्य सर्वपापैः प्रमुच्यते ॥७६॥
यद्ब्रह्म योगिनां गम्यं सर्वेषां हृदये स्थितम् ॥
तिष्ठते यस्य लिंगं तु स्वयंभुवमिति स्थितम् ॥७७॥
भूतनाथं च संपूज्य व्याधिभिर्मुच्यते जनः ॥
धर्मवापीं ततश्चैव चक्रे तत्र मनोरमाम् ॥७८॥
आहत्य कोटितीर्थानां जलं वाप्यां मुमोच ह ॥
यमतीर्थस्वरूपं च स्नानं कृत्वा मनोरमम् ॥७९॥
स्नानार्थं देवतानां च ऋषीणां भावितात्मनाम् ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥८०॥
धर्मवाप्यां नरः स्नात्वा दृष्ट्वा धर्मेश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो न मातुर्गर्भमाविशेत् ॥८१॥
तत्र स्नात्वा नरो यस्तु करोति यमतर्पणम् ॥
व्याधिदोषविनाशार्थं क्लेशदोषोप शांतये ॥
यमाय धर्मराजाय मृत्यवे चांतकाय च ॥
वैवस्वताय कालाय दध्नाय परमेष्ठिने ॥८२॥
वृकोदराय वृकाय दक्षिणेशाय ते नमः ॥
नीलाय चित्रगुप्ताय चित्र वैचित्र ते नमः ॥८३॥
यमार्थं तर्पणं यो वै धर्मवाप्यां करिष्यति ॥
साक्षतैर्नामभिश्चैतैस्तस्य नोपद्रवो भवेत्॥ ८४॥
एकांतरस्तृतीयस्तु ज्वरश्चातुर्थिकस्तथा ॥
वेलायां जायते यस्तु ज्वरः शीतज्वरस्तथा ॥८५॥
पीडयन्ति न चैतस्य यस्यैवो मतिरीदृशी ॥
रेवत्यादिग्रहा दोषा डाकिनी शाकिनी तथा ॥६६॥
धनधान्यसमृद्धिः स्यात्संततिर्वर्धते सदा ॥
भूतेश्वरं तु संपूज्य सुस्नातो विजितेंद्रियः ॥८७॥
सांगं रुद्रजपं कृत्वा व्याधिदोषात्प्रमुच्यते॥
अमावास्यां सोमदिने व्यतीपाते च वैधृतौ॥
संक्रांतौ ग्रहणे चैव तत्र श्राद्धं स्मृतं नृणाम्॥८८॥
श्राद्धं कृतं तेन समाः सहस्रं निरस्य चैतत्पितरस्त्वदंति॥
पानीयमेवापि तिलैर्विमिश्रितं ददाति यो वै प्रथितो मनुष्यः॥८९॥
एकविंशतिवारैस्तु गयायां पिंडदानतः ॥
धर्मेश्वरे सकृद्दत्तं पितॄणां चाक्षयं भवेत् ॥९०॥
धर्मेशात्पश्चिमे भागे विश्वेश्वरांतरेपि वा ॥
धर्मवापीति विख्याता स्वर्गसोपानदायिनी ॥९१॥
धर्मेण निर्मिता पूर्वं शिवार्थं धर्मबुद्धिना ॥
तत्र स्नात्वा च पीत्वा च तर्पिताः पितृदेवताः ॥९२॥
शमीपत्रप्रमाणं तु पिंडं दद्याच्च यो नरः ॥
धर्मवाप्यां महापुण्यां गर्भवासं न चाप्नुयात् ॥९३॥
कुम्भीपाकान्महारौद्राद्रौरवान्नरकात्पुनः ॥
अंधतामिस्रकाद्राजन्मुच्यते नात्र संशयः ॥९४॥
॥ सूत उवाच ॥
एकवर्षं तर्पणीयं धर्मवाप्यां नरोत्तमः ॥
ऋतौ मासे च पक्षे च विपरीतं च जायते ॥९५॥
बर्हिषदोऽग्निष्वात्ताश्च आज्यपाः सोमपास्तथा ॥
तृप्तिं प्रयांति परमां वाप्यां वै तर्पणेन तु ॥९६॥
कुरुक्षेत्रादि क्षेत्राणि अयोध्यादिपुरस्तथा ॥
पुष्कराद्यानि सर्वाणि मुक्तिनामानि संति वै ॥९७॥
तानि सर्वाणि तुल्यानि धर्मकूपोऽधिको भवेत् ॥
मन्त्रो वेदास्तथा यज्ञा दानानि च व्रतानि च ॥९८॥
अक्षयाणि प्रजायंते दत्त्वा जप्त्वा नरेश्वर ॥
अभिचाराश्च ये चान्ये सुसिद्धाथर्ववेदजाः ॥९९॥
ते सर्वे सिद्धिमायांति तस्मिन्स्थाने कृता अपि ॥
आदितीर्थं नृपश्रेष्ठ काजेशैरुपसेवितम् ॥१००॥
सिद्धिस्थानं सुसौम्यं च ब्रह्माद्यैरपि सेवि तम् ॥
कृते तु युगपर्यंतं त्रेतायां लक्षपञ्चकम् ॥१॥
द्वापरे लक्षमेकं तु दिनैकेन फलं कलौ ॥
एतदुक्तं मया ब्रह्मन्धर्मारण्यस्य वर्णनम् ॥
फलं चैवात्र सर्वं हि उक्तं द्वैपायनेन तु ॥२॥
॥ सूत उवाच ॥
अतः परं प्रवक्ष्यामि धर्मवाक्यं मनोरमम् ॥
देवानां हितकामाय आज्ञाप्य च यदुक्तवान् ॥३॥
॥ धर्म उवाच ॥
अस्मिन्क्षेत्रे प्रकुर्वंति विष्णुमायाविमोहिताः ॥
पारदार्यं महादुष्टं स्वर्णस्तेयादिकं तथा ॥४॥
अन्यच्च विकृतं सर्वं कुर्वाणो नरकं व्रजेत् ॥
अन्यक्षेत्रे कृतं पापं धर्मारण्ये विनश्यति ॥५॥
धर्मारण्ये कृतं पापं वज्रलेपो भविष्यति ॥
यथा पुण्यं तथा पापं यत्किंचिच्च शुभाशुभम् ॥६॥
तत्सर्वं वर्द्धते नित्यं वर्षाणि शतमित्युत ॥
कामिनां कामदं पुण्य योगिनां मुक्तिदायकम् ॥७॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥
अपुत्रो लभते पुत्रान्निर्धनो धनवान्भवेत् ॥८॥
एतदाख्यानकं पुण्यं धर्मेण कथितं पुरा ॥
यः शृणोति नरो भक्त्या नारी वा श्रावयेत्तु यः ॥
गोसहस्रफलं तस्य अंते हरिपुरं ब्रजेत् ॥१०९॥
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये क्षेत्रस्थापनंनाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP