धर्मारण्य खण्डः - अध्याय २९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
अतः परं शृणुध्वं हि लोहासुरविचेष्टितम् ॥
बलेः पुत्रशतस्यापि कथयिष्यामि विश्रुतम् ॥१॥
यथा तौ भ्रातरौ वृद्धौ प्रापतुः स्थानमुत्तमम्॥
तदा प्रभृति वैराग्यं दैत्यो लोहासुरे दधौ ॥२॥
किं करोमि क्व गच्छामि तपसे स्थानमुत्तमम् ॥
यस्य पारं न जानंति देवता मुनयो नराः ॥३॥
को मयाऽऽराध्यतां देवो हृदि चिंतयते भृशम् ॥
इति चिंतयतस्तस्य मतिर्जाता महात्मनः ॥४॥
दधौ गंगां स्वशीर्षेण पुष्पवंतौ च नेत्रयोः ॥
हृदा नारायणं देवं ब्रह्माणं कटिमंडले ॥५॥
इंद्राद्या देवताः सर्वे यद्देहे प्रतिबिंबिताः ॥
प्रपश्यंति तदात्मानं भास्करः सलिले यथा ॥६॥
तमेवाराधयिष्यामि निरंजनमकल्मषः ॥
एवं कृत्वा मतिं दैत्य स्तपस्तेपे सुदुष्करम् ॥
भीतो जन्मभयाद्घोराद्दुष्करं यन्महात्मभिः ॥७॥
अंबुभक्षो वायुभक्षः शीर्णपर्णाशनस्तथा ॥
दिव्यं वर्षशतं साग्रं यदा तेपे महत्तपः ॥
ततस्तुतोष भगवांस्त्रिशूलवरधारकः ॥८॥
॥ ईश्वर उवाच ॥
वरं वृणीष्व भद्रं ते मनसा यदभीप्सितम् ॥
लोहासुर मया देयं तव नास्ति तपोबलात् ॥९॥
इत्युक्तो दानवस्तत्र शंकराग्रे वचोऽब्रवीत् ॥१०॥
॥ लोहासुर उवाच ॥
यदि तुष्टोसि देवेश वरमेकं वृणोम्यहम् ॥
शरीरस्याजरत्वं च मा मृत्योरपि मे भयम् ॥११॥
जन्मन्यस्मिन्प्रभो भूयात्स्थातव्यं हृदये मम ॥
एवमस्तु शिवः प्राह तत्र तं दानवेश्वरम् ॥१२॥
शर्वलब्धवरो दैवात्पुनस्तेपे महत्तपः ॥
रम्ये सरस्वतीतीरे तरणाय भवार्णवात् ॥१३॥
वत्सराणां सहस्राणि प्रयुतान्यर्बुदानि च ॥
शंकते भगवानिंद्रो भीतस्तस्य तपोबलात् ॥१४॥
मा मे पदच्युतिर्भूयाद्दैत्यल्लोहासुरात्क्वचित् ॥
मघवान्गुप्तरूपेण समेत्याश्रमकाननम् ॥१५॥
तपोभंगं प्रकुरुते कंपयित्वा महासुरम् ॥
ताडयंति शरीरे तं मुष्टिभिस्तीक्ष्णकर्कशैः ॥१६॥
अथ तेन च दैत्येन ध्यानमुत्सृज्य वीक्षितम् ॥
इंद्रेण तत्कृतं सर्वं तपोबलविनाशनम् ॥१७॥
तस्य तैरभवद्युद्धमिंद्राद्यैरथ कर्क्कशैः ॥
एकस्य बहुभिः सार्द्धं देवास्ते तेन संयुगे ॥१८॥
रुधिराक्लिन्नदेहा वै प्रहारैर्जर्जरीकृताः ॥
केशवं शरणं प्राप्ता त्राहि त्राहीति भाषिणः ॥१९॥
॥ सूत उवाच ॥
देवानां वाक्यमाकर्ण्य वासुदेवो जनार्दनः ॥
युयुधे केशवस्तेन युद्धे वर्षशतं किल ॥२०॥
ततो नारायणं तत्र जिगाय स वरोर्जितः ॥
अथ नारायणो देवो जितो लोहासुरेण तु ॥२१॥
मंत्रयामास रुद्रेण ब्रह्मणा च पुनःपुनः ॥
मीमांसित्वा त्रयो देवाः पुनर्युद्धसमुद्यमम् ॥२२॥
लोहासुरस्य दैत्यस्य वपुर्दृष्ट्वा पुनर्नवम् ॥
महदासीत्पुनर्युद्धं दैत्यकेशवयोस्ततः ॥२३॥
न ममार यदा दैत्यो विष्णुना प्रभविष्णुना ॥
तरसा तं केशवोऽपि पातयामास भूतले ॥२४॥
उत्तानं पतितं दृष्ट्वा पिनाकी परमेश्वरः ॥
दधार हृदये तस्य स्वरूपं रूपवर्जितः ॥२५॥
कण्ठे तस्थौ ततो ब्रह्मा तस्य लोहासुरस्य च ॥
चरणौ पीडयामास स्वस्थित्या पुरुषोत्तमः ॥२६॥
अथ दैत्यः समुत्तस्थौ भृशं बद्धोपि भूतले ॥
दृष्ट्वोत्थितं ततो दैत्यं पातयंतं सुरोत्तमान् ॥२७॥
उवाच दिव्यया वाचा विरंचिः कमलासनः ॥२८॥
॥ ब्रह्मोवाच ॥
लोहासुर सदा रक्ष वाचोधर्ममभीक्ष्णशः ॥
त्वया यत्प्रार्थितं रुद्रात्तदेव समुपस्थितम् ॥२९॥
अहं विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥
त्वद्देहमुपवेक्ष्यामो यावदाभूतसंप्लवम् ॥३०॥
दानवेश शिवप्राप्तिर्भावभक्त्यैव जायते ॥
शिवं चालयितुं बुद्धिः कथं तव भविष्यति ॥३१॥
अचलांश्चालयेद्यस्तु प्रासादान्ब्राह्मणान्पुरान् ॥
अचिरेणैव कालेन पातकेनैव लिप्यते ॥३२॥
श्मशानवत्परित्याज्यः सत्यधर्मबहिष्कृतः ॥
सत्यवागसि भद्रं ते मा विचालय देवताः ॥३३॥
येन यातास्तु पितरो येन याताः पितामहाः ॥
तेन मार्गेण गंतव्यं न चोल्लंघ्या सतां गतिः ॥३४॥
दानवेश पिता ते हि ददौ लोकत्रयं हरेः ॥
वाक्पाशबद्धः पाताले राज्यं चक्रे महीपतिः ॥३५॥
तथा त्वमसि वाक्पाशाच्छिवभक्तिसमन्वितः ॥
भूतले तिष्ठ दैत्येंद्र मा वाग्वैकल्प्यमाप्नुहि ॥३६॥
वरांस्ते च प्रदास्यामो मा विचाल्या हि देवताः ॥३७॥
॥ व्यास उवाच ॥
तच्छ्रुत्वा ब्रह्मणो वाक्यं संतुष्टो दानवेश्वरः ॥
प्राह प्रसन्नया वाचा ब्रह्माणं केशवं हरम् ॥३८॥
॥ लोहासुर उवाच ॥
वाक्पाशबद्धस्तिष्ठामि न पुनर्भवतां बले ॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयोऽमी सुरसत्तमाः ॥३९॥
स्थास्यंति चेच्छरीरे मे किं न लब्धं मया ततः ॥
इदं कलेवरं मे हि समारूढं त्रिभिः सुरैः ॥४०॥
भूम्यां भवतु विख्यातं मत्प्रभावात्सुरोत्तमाः ॥४१॥
लोहासुरस्य वाक्येन हर्षिता स्त्रिदशास्त्रयः ॥
ददुः प्रत्युत्तरं तस्मै ब्रह्मविष्णुमहेश्वराः ॥४२॥
सत्यवाक्पाशतो दैत्यो न सत्याच्चलितो यतः ॥
तेन सत्येन संतुष्टा दास्या मस्ते मनीप्सितम् ॥४३॥
॥ ब्रह्मोवाच ॥
यथा स्नानं ब्रह्मज्ञानं देहत्यागो गयातले ॥
धर्मारण्ये तथा दैत्य धर्म्मेश्वरपुरः स्थिते ॥४४॥
कूपे तर्प्पणकं श्राद्धं शंसंति पितरो दिवि ॥
संतुष्टा पिंडदानेन गयायां पितरो यथा ॥४५॥
वांछंति तर्प्पणं कूपे धर्मारण्ये विशुद्धये ॥
दानवेन्द्र शरीरं तु तीर्थं तव भविष्यति ॥४६॥
एकविंशतिवारांस्तु गयायां तर्प्पणे कृते ॥
पितॄणां या परा तृप्तिर्जायते दानवाधिप ॥४७॥
धर्मेश्वर पुरस्तात्सा त्वेकदा पितृतर्पणात् ॥
स्याद्वै दशगुणा तृप्तिः सत्यमेव न संशयः ॥४८॥
पितॄणां पिंडदानेन अक्षय्या तृप्तिरस्त्विह ॥
शिवरूपांतराले वै धर्मारण्ये धरातले ॥४९॥
श्रद्धयैव हि कर्त्तव्याः श्राद्धपिंडोदकक्रियाः ॥
तथांतराले चास्माकं श्राद्धपिंडौ विशेषतः ॥५०॥
तथा शरीरे क्वापिस्तांचिंता सत्योऽसि सुव्रत॥
त्रिषु लोकेषु दुष्प्रापं सत्यं ते दिवि संस्थितम् ॥५१॥
अस्मद्वाक्येन सत्येन तत्तथाऽसुरसत्तम ॥
गयासमधिकं तीर्थं तव जातं धरातले ॥५२॥
अस्माकं स्थितिरव्यग्रा तव देहे न संशयः ॥
सत्यपाशेन बद्धाः स्म दृढमेव त्वयाऽनघ ॥५३॥
॥ विष्णुरुवाच ॥
गयाप्रयाग कस्याऽपि फलं समधिकं स्मृतम् ॥
चतुर्द्दश्याममावास्यां लोहयष्ट्यां पिंडदानतः ॥५४॥
बलिपुत्रस्य सत्येन महती तृप्तिरत्र हि ॥
मा कुरुष्वात्र संदेहं तव देहे स्थिता स्वयम् ॥५५॥
सरस्वती पुण्यतोया ब्रह्मलोकात्प्रयात्युत ॥
प्लावयिष्यंति देहांगं मया सह सुसंगता ॥५६॥
यथो वै द्वारका वासो देवस्तत्र महेश्वरः ॥
विरंचिर्यत्र तीर्थानि त्रीण्येतानि धरातले ॥५७॥
भविष्यति च पाताले स्वर्गलोके यमक्षये ॥
विख्यातान्यसुरश्रेष्ठ पि तॄणां तृप्तिहेतवे ॥५८॥
अथान्यत्संप्रवक्ष्यामि गाथां पितृकृतां पराम् ॥
आज्ञारूपां हि पुत्राणां तां शृणुष्व ममानघ ॥५९॥
पितर ऊचुः॥
शंकरस्याग्रतः स्थानं रुद्रलोकप्रदं नृणाम् ॥
पापदेहविशुद्ध्यर्थं पापेनोपहतात्मनाम् ॥६०॥
तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ॥
पितरो नरकाद्वा पि सुपुत्रेण सुमेधसा ॥६१॥
गोप्रदानं प्रशंसंति तत्तत्र पितृमुक्तये ॥
पित्रादिकान्समुद्दिश्य दृष्ट्वा रुद्रं च केशवम् ॥६२॥
तिलपिण्याकपिंडेन तृप्तिं यास्यामहे पराम् ॥
चतुर्द्दश्याममावास्यां तथा च पितृतर्पणम् ॥६३॥
अज्ञातगोत्रजन्मानस्तेभ्यः पिंडांस्तु निर्वपेत् ॥
तेऽपि यांति दिवं सर्वे ये दत्त इति श्रुतिः ॥६४॥
सर्वकार्याणि संत्यज्य मानवैः पुण्यमीप्सुभिः ॥
प्राप्ते भाद्रपदे मासे गंतव्या लोहयिष्टका ॥
अज्ञातगोत्रनाम्ना तु पिंड मंत्रमिमं शृणु ॥६५॥
पितृवंशे मृता ये च मातृवंशे तथैव च ॥
अतीतगोत्रजास्तेभ्यः पिंडोऽयमुपतिष्ठतु ॥६६॥
॥ विष्णुरुवाच ॥
अनेनैव तु मंत्रेण ममाग्रे सुरसत्तम ॥
क्षीणे चंद्रे चतुर्द्दश्यां नभस्ये पिंडमाहरेत् ॥६७॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥
तिलपिण्याकपिंडेन पितरो मोक्षमाप्नुयुः ॥६८॥
क्षणत्रयविनिर्मुक्ता मानवा जगतीतले ॥
भविष्यंति न संदेहो लोहयष्ट्या तिलतर्पणे ॥६९॥
स्नात्वा यः कुरुते चात्र पितृपिंडोदकक्रियाः ॥
पितरस्तस्य तृप्यंति यावद्ब्रह्मदिवानिशम् ॥७०॥
अमावास्यादिनं प्राप्य मासि भाद्रपदे सरः ॥
ब्रह्मणो यष्टिकायां तु यः कुर्यात्पितृतर्पणम् ॥७१॥
पितरस्तस्य तृप्ताः स्युर्यावदाभूतसंप्लवम् ॥
तेषां प्रसन्नो भगवानादिदेवो महेश्वरः ॥७२॥
अस्य तीर्थस्य यात्रायां मतिर्येषां भविष्यति ॥
गोक्षीरेण तिलैः श्वेतैः स्नात्वा सारस्वते जले ॥७३॥
तर्पयेदक्षया तृप्तिः पितॄणां तस्य जायते ॥
श्राद्धं चैव प्रकु र्वीत सक्तुभिः पयसा सह ॥७४॥
अमावास्यादिनं प्राप्य पितॄणां मोदमिच्छुकः ॥
रुद्रतीर्थे ततो धेनुं दयाद्वस्त्राणि यमतीर्थके ॥७५॥
विष्णुतीर्थे हिरण्यं च पितॄणां मोक्षमिच्छुकः ॥
विनाक्षतैर्विना दर्भैर्विना चासनमेव च ॥
वारिमात्राल्लोहयष्ट्यां गयाश्राद्धफलं लभेत् ॥७६॥
॥ सूत उवाच ॥
एतद्वः कथितं विप्रा लोहासुरविचेष्टितम् ॥
यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥७७॥
एकविंशतिवारन्तु गयायां पिंड पातने ॥
तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ॥७८॥
चतुःष्कोटि द्विलक्षं च सहस्रं शतमेव च ॥
धेनवस्तेन दत्ताः स्युर्माहात्म्यं शृणु यात्तु यः ॥७९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये लोहासुरमाहात्म्यसंपूर्तिर्नामैकोनत्रिंशोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP