धर्मारण्य खण्डः - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः ॥
शुभवस्त्रपरीधानाः फल हस्ताः पृथक्पृथक् ॥१॥
रत्नांगदाढ्यदोर्दंडा अंगुलीयकभूषिताः ॥
कर्णाभरणसंयुक्ताः समाजग्मुः प्रहर्षिताः ॥२॥
राजद्वारं तु संप्राप्य संत स्थुर्ब्रह्मवादिनः ॥
तान्दृष्ट्वा राजपुत्रस्तु ईषत्प्रहसितो बली ॥३॥
रामं च हनुमंतं च गत्वा विप्राः समागताः ॥
श्रूयतां मंत्रिणः सर्वे दृश्यंतो द्विज सत्तमान् ॥४ ।
एतदुक्त्वा तु वचनं तूष्णीं भूत्वा स्थितो नृपः ॥
ततो द्वित्रा द्विजाः सर्वे उपविष्टाः क्रमात्ततः ॥५॥
क्षेमं पप्रच्छुर्नृपतिं हस्तिरथपदातिषु ॥
ततः प्रोवाच नृपतिर्विप्रान्प्रति महामनाः ॥६॥
अरिहंतप्रसादेन सर्वत्र कुशलं मम ॥
सा जिह्वा या जिनं स्तौ ति तौ करौ यौ जिनार्चनौ ॥७॥
सा दृष्टिर्या जिने लीना तन्मनो यज्जिने रतम् ॥
दया सर्वत्र कर्तव्या जीवात्मा पूज्यते सदा ॥८॥
योगशाला हि गंतव्या कर्त्तव्यं गुरुवंदनम् ॥
न चकारं महामंत्रं जपितव्यमहर्निशम् ॥९॥
पंचूषणं हि कर्त्तव्यं दातव्यं श्रमणे सदा ॥
श्रुत्वा वाक्यं ततो विप्रास्तस्य दंतानपीडयन् ॥१०॥
विमुच्य दीर्घनिश्वासमूचुस्ते नृपतिं प्रति ॥
रामेण कथितं राजन्धीमता च हनूमता ॥११॥
दीयतां विप्रवृत्तिं च धर्मिष्ठोऽसि धरातले ॥
ज्ञायते तव द्दत्ता स्यान्मदत्ता नैव नैव च ॥१२॥
रक्षस्व रामवाक्यं त्वं यत्कृत्वा त्वं सुखी भव ॥१३॥
॥ राजोवाच ॥
यत्र रामहनूमंतौ यांतु सर्वेऽपि तत्र वै ॥
रामो दास्यति सर्वस्वं किं प्राप्ता इह वै द्विजाः ॥१४॥
न दास्यामि न दास्यामि एकां चैव वराटिकाम् ॥
न ग्रामं नैव वृत्तिं च गच्छध्वं यत्र रोचते ॥१५॥
तच्छ्रुत्वा दारुणं वाक्यं द्विजाः कोपाकुलास्तदा ॥
सहस्व रामकोपं हि साम्प्रतञ्च हनूमतः ॥१६॥
इत्युक्त्वा हनुमद्दत्ता वामकक्षोद्भवा पुटी ॥
प्रक्षिप्ता चास्य निलये व्यावृत्ता द्विजसत्तमाः ॥१७॥
गते तदा विप्रसंघे ज्वालामालाकुलं त्वभूत् ॥
अग्निज्वालाकुलं सर्वं संजातं चैव तत्र हि ॥१८॥
दह्यंते राजवस्तूनिच्छत्राणि चामराणि च ॥
कोशागाराणि सर्वाणि आयुधागारमेव च ॥१९॥
महिष्यो राजपुत्राश्च गजा अश्वा ह्यनेकशः ॥
विमानानि च दह्यंते दह्यंते वाहनानि च ॥२०॥
शिबिकाश्च विचित्रा वै रथाश्चैव सहस्रशः ॥
सर्वत्र दह्यमानं च दृष्ट्वा राजापि विव्यथे ॥२१॥
न कोपि त्राता तस्यास्ति मानवा भयविक्लवाः ॥
न मंत्रयंत्रैर्वह्निः स साध्यते न च मूलिकैः ॥२२॥
कौटिल्यकोटिनाशी च यत्र रामः प्रकुप्यते ॥
तत्र सर्वे प्रणश्यंति किं तत्कुमारपालकः ॥२३॥
सर्वं तज्जवलितं दृष्ट्वा नग्नक्षपणकास्तदा ॥
धृत्वा करेण पात्राणि नीत्वा दंडाञ्छुभानपि ॥२४॥
रक्तकंबलिका गृह्य वेपमाना मुहुर्मुहुः ॥
अनुपानहिकाश्चैव नष्टाः सर्वे दिशो दश ॥२६॥
कोलाहलं प्रकुर्वाणाः पलायध्वमिति ब्रुवन् ॥
दाहिता विप्रमुख्यैश्च वयं सर्वे न संशयः ॥२६॥
केचिच्च भग्नपात्रास्ते भग्नदं ण्डास्तथापरे ॥
प्रनष्टाश्च विवस्त्रास्ते वीतरागमिति ब्रुवन् ॥२७॥
अर्हतमेव केचिच्च पलायनपरायणाः ॥
ततो वायुः समभवद्वह्निमांदोलयन्निव ॥२८॥
प्रेषितो वै हनुमता विप्राणां प्रियकाम्यया ॥
धावन्स नृपतिः पश्चादितश्चेतश्च वै तदा ॥२९॥
पदातिरेकः प्ररुदन्क्व विप्रा इति जल्पकः ॥
लोकाच्छ्रुत्वा ततो राजा गतस्तत्र यतो द्विजाः ॥३०॥
गत्वा तु सहसा राजन्गृहीत्वा चरणौ तदा ॥
विप्राणां नृपतिर्भूमौ मूर्च्छितो न्यपत त्तदा ॥३१॥
उवाच वचनं राजा विप्रान्विनयतत्परः ॥
जपन्दाशरथिं रामं रामरामेति वै पुनः ॥३२॥
तस्य दासस्य दासोहं रामस्य च द्विज स्य च ॥
अज्ञानतिमिरांधेन जातोस्म्यंधो हि संप्रति ॥३३॥
अंजनं च मया लब्धं रामनाममहौषधम् ॥
रामं मुक्त्वा हि ये मर्त्या ह्यन्यं देव मुपासते ॥
दह्यंते तेऽग्निना स्वामिन्यथाहं मूढचेतनः ॥३४॥
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ॥
भागीरथी हरिर्विप्राः सारमेकं जगत्त्रये ॥३५॥
स्वर्गस्य चैत्र सोपानं विप्रा भागीरथी हरिः ॥
रामनाममहारज्ज्वा वैकुंठे येन नीयते ॥३६॥
इत्येवं प्रणमन्राजा प्रांजलिर्वाक्यमब्रवीत्॥
वह्निः प्रशाम्यतां विप्राः शासनं वो ददाम्यहम् ॥३७॥
दासोऽस्मि सांप्रतं विप्रा न मे वागन्यथा भवेत् ॥
यत्पापं ब्रह्महत्यायाः पर दाराभिगामिनाम् ॥३८॥
यत्पापं मद्यपानां च सुवर्णस्तेयिनां तथा ॥
यत्पापं गुरुघातानां तत्पापं वा भवेन्मम ॥३९॥
यंयं चिंतयते कामं तं तं दास्याम्यहं पुनः ॥
विप्रभक्तिः सदा कार्या रामभक्तिस्तथैव च ॥४०॥
अन्यथा करणीयं मे न कदाचि द्द्विजोत्तमाः ॥४१॥
॥ व्यास उवाच ॥
तस्मिन्नवसरे विप्रा जाता भूप दयालवः ॥
अन्या या पुटिका चासीत्सा दत्ता शापशांतये ॥४२॥
जीवितं चैव तत्सैन्यं जातं क्षिप्तेषु रोमसु ॥
दिशः प्रसन्नाः संजाताः शांता दिग्जनितस्वनाः ॥४३॥
प्रजा स्वस्था ऽभवत्तत्र हर्षनिर्भरमानसा ॥
अवतस्थे यथापूर्वं पुत्रपौत्रादिकं तथा ॥४४॥
विप्राज्ञाकारिणो लोकाः संजाताश्च यथा पुरा ॥
विष्णुधर्मं परित्यज्य नान्यं जानंति ते वृषम् ॥४५॥
नवीनं शासनं कृत्वा पूर्ववद्विधिपूर्वकम् ॥
निष्कासितास्तु पाषंडाः कृतशास्त्रप्रयोजकाः ॥४६॥
वेदबाह्याः प्रनष्टास्ते उत्तमाधममध्यमाः ॥
षट्त्रिंशच्च सहस्राणि येऽभूवन्गोभुजाः पुरा ॥४७॥
तेषां मध्यात्तु संजाता अढवीजा वणिग्जनाः ॥
शुश्रूषार्थं ब्राह्मणानां राज्ञा सर्वे निरूपिताः ॥४८॥
सदाचाराः सुनिपुणा देवब्राह्मणपूजकाः ॥
त्यक्त्वा पाखण्डमार्गं तु विष्णुभक्तिपरास्तु ते ॥४९॥
जाह्नवीतीरमासाद्य त्रैविद्येभ्यो ददौ नृपः ॥
शासनं तु यदा दत्तं तेषां वै भक्तिपूर्वकम् ॥५०॥
स्थानधर्मात्प्रचलिता वाडवास्ते समागताः ॥
नृपो विज्ञापितो विप्रैस्तैरेवं क्लेशकारिभिः ॥५१॥
ये त्यक्तवाचो विप्रेंद्रास्तान्निःसारय भूपते ॥
परस्परं विवादास्तु संजाता दत्तवृत्तये ॥५२॥
न्याय प्रदशनार्थं च कारितास्तु सभासदः ॥
हस्ताक्षरेषु दृष्टेषु पृथक्पृथक्प्रपादितम् ॥५३॥
एतच्छ्रुत्वा ततो राजा तुलादानं चकार ह ॥
दीयमाने तदा दाने चातुर्विद्या बभाषिरे ॥५४॥
अस्माभिर्हारिता जातिः कथं कुर्मः प्रतिग्रहम् ॥
निवारितास्तु ते सर्वे स्थानान्मोहेरका द्विजाः ॥५५॥
दशपंच सहस्राणि वेदवेदांगपारगाः ॥
ततस्तेन तदा राजन्राज्ञा रामानुवर्तिना ॥५६॥
आहूता वाडवांस्तास्तु ज्ञातिभेदं चकार सः ॥
त्रयीविद्या वाडवा ये सेतुबंधं प्रति प्रभुम् ॥५७॥
गतास्ते वृत्तिभाजः स्युर्नान्ये वृत्त्यभिभागिनः ॥
तत्र नैव गता ये वै चातुर्विद्यत्वमागताः ॥५८॥
वणिग्भिर्न च संबंधो न विवाहश्च तैः सह ॥
ग्रामवृत्तौ न संबंधो ज्ञातिभेदे कृते सति ॥५९॥
द्विजभक्तिपराः शूद्राः ये पाखंडैर्न लोपिताः॥
जैन धर्मात्परावृत्तास्ते गोभूजास्तथोत्तमाः ॥६०॥
ये च पाखंडनिरता रामशासनलोपकाः ॥
सर्वे विप्रास्तथा शूद्रा प्रतिबंधेन योजिताः ॥६१॥
सत्यप्रतिज्ञां कुर्वाणास्तत्रस्थाः सुखिनोऽभवन् ॥
चातुर्विद्या बहिर्ग्रामे राज्ञा तेन निवासिताः ॥६२॥
यथा रामो न कुप्येत तथा कार्यं मया ध्रुवम॥
पराङ्मुखा ये रामस्य सन्मुखानुगताः किल ॥६३॥
चातुर्विद्यास्ते विज्ञेया वृत्तिबाह्याः कृतास्तदा ॥
कृतकृत्यस्तदा जातो राजा कुमारपालकः ॥६४॥
विप्राणां पुरतः प्राह प्रश्रयेण वचस्तदा ॥
ग्रामवृत्तिर्न मे लुप्ता एतद्वै देवनिर्मितम् ॥६५॥
स्वयं कृतापराधानां दोषो कस्य न दीयते ॥
यथा वने काष्ठवर्षाद्वह्निः स्याद्दैवयोगतः ॥६६॥
भवद्भिस्तु पणः प्रोक्तो ह्यभिज्ञानस्य हेतवे ॥
रामस्य शासनं कृत्वा वायुपुत्रस्य हेतवे ॥६७॥
व्यावृत्ता वाडवा यूयं स दोषः कस्य दीयते ॥
अवसाने हरिं स्मृत्वा महापापयुतोऽपि वा ॥६८॥
विष्णुलोकं व्रजत्याशु संशयस्तु कथं भवेत् ॥
महत्पुण्योदये नॄणां बुद्धिः श्रेयसि जायते ॥६९॥
पापस्योदयकाले च विपरीता हि सा भवेत् ॥
सकृत्पालयते यस्तु धर्मेणैतज्जगत्त्रयम् ॥७०॥
योंतरात्मा च भूतानां संशयस्तत्र नो हितः ॥
इंद्रादयोऽमराः सर्वे सनकाद्यास्तपोधनाः ॥७१॥
मुक्त्यर्थमर्चयंतीह संशयस्तत्र नो हितः ॥
सहस्रनाम तत्तुल्यं रामनामेति गीयते ॥७२॥
तस्मिन्ननिश्चयं कृत्वा कथं सिद्धिर्भवेदिह ॥
मम जन्मकृतात्पुण्यादभिज्ञानं ददौ हरिः ॥७३॥
पाखंडाद्यत्कृतं पापं मृष्टं तद्वः प्रणामतः ॥
प्रसीदंतु भवंतश्च त्यक्त्वा क्रोधं ममाधुना ॥७४॥
॥ ब्राह्मणा ऊचुः ॥
राजन्धर्मो विलुप्तस्ते प्रापितानां तथा पुनः ॥
अवश्यं भाविनो भावा भवंति महतामपि ॥७५॥
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥
एतद्दैवकृतं सर्वं प्रभुर्यः सुखदुःखयोः ॥७६॥
सत्यप्रतिज्ञास्त्रैविद्या भजंतु रामशासनम् ॥
अस्माकं तु परं देहि स्थानं यत्र वसामहे ॥७७॥
तेषां तु वचनं श्रुत्वा सुखमिच्छुर्द्विजन्मनाम् ॥
तेषां स्थानं तु दत्तं वै सुखवासं तु नामतः ॥७८॥
हिरण्यं पुष्पवासांसि गावः कामदुघा नृप ॥
स्वर्णालंकरणं सर्वं नानावस्तुचयं तथा ॥७९॥
श्रद्धया परया दत्त्वा मुदं लेभे नराधिपः ॥
त्रयीविद्यास्तु ते ज्ञेयाः स्थापिता ये त्रिमूर्तिभिः ॥८०॥
चतुर्थेनैव भूपेन स्थापिताः सुखवासने ॥
ते बभूबुर्द्विजश्रेष्ठाश्चातुर्विद्याः कलौ युगे ॥८१॥
चातुर्विद्याश्च ते सर्वे धर्मारण्ये प्रतिष्ठिताः ॥
वेदोक्ता आशिषो दत्त्वा तस्मै राज्ञे महात्मने ॥८२॥
रथैरश्वैरुह्यमानाः कृतकृत्या द्विजातयः ॥
महत्प्रमोदयुक्तास्ते प्रापुर्मोहेरकं महत् ॥८३॥
पौषशुक्लत्रयोदश्यां लब्धं शासनकं द्विजैः ॥
बलिप्रदानं तु कृतमुद्दिश्य कुलदेवताम् ॥८४॥
वर्षेवर्षे प्रकर्त्तव्यं बलिदानं यथाविधि ॥
कार्यं च मंगलस्नानं पुरुषेण महात्मना ॥८५॥
गीतं नृत्यं तथा वाद्यं कुर्वीत तद्दिने धुवम् ॥
तन्मासे तद्दिने नैव वृत्तिनाशो भवेद्यथा ॥८६॥
दैवादतीतकाले चेत्वृद्धिरापद्यते यदा ॥
तदा प्रथमतः कृत्वा पश्चाद्वृद्धिर्विधीयते ॥८७॥
ये च भिन्नप्रपाप्रायास्त्रैविद्या मोढवंशजाः ॥
तथा चातुर्वेदिनश्च कुर्वंति गोत्रपूजनम् ॥८८॥
वर्षमध्ये प्रकुर्वीत तथा सुप्ते जनार्द्दने ॥
पौषे च लुप्तं कृत्वा च श्रौतं स्मार्त्तं करोति यः ॥८९॥
तत्र क्रोधसमाविष्टा निघ्नंति कुलदेवताः ॥
विवाहोत्सवकाले च मौंजीबंधादिकर्मणि ॥९०॥
मुहूर्तं गणनाथस्य ततः प्रभृति शोभनम् ॥९१॥
निर्वासितास्तु ये विप्रा आमराज्ञा स्वशासनात् ॥
पंचदशसहस्राणि ययुस्ते सुखवासकन् ॥९२॥
पंचपञ्चाशतो ग्रामान्ददौ रामः पुरा स्वयम् ॥
तत्रस्था वणिजश्चैव तेषां वृत्तिमकल्पयन् ॥९३॥
अडालजा माण्डलीया गोभूजाश्च पवित्रकाः ॥
ब्राह्मणानां वृत्तिदास्ते ब्रह्मसेवासु तत्पराः ॥९४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां शासनवृत्तिप्राप्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP