धर्मारण्य खण्डः - विषयानुक्रमणिका

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथ ब्राह्मखण्डे द्वितीयं धर्मारण्यखण्डम् ॥( ३-२) ॥

१ मङ्गलाचरणम्, नैमिषारण्ये समागतं सूतमहर्षिं प्रति शौनकादिमहर्षिभिः सत्कार- पूर्वकं धर्मवर्धककथाश्रवणेच्छया प्रश्नकरणम्, अथ सूतमहर्षिणा धर्मारण्य- माहात्म्यकथनायोपक्रमकरणम्, तत्र श्रीयमधर्मदेवस्य ब्रह्मणः सभां प्रतिगमनम्, तत्र ब्रह्मसभायां व्यासमहर्षिणा वाच्यमानां दिव्यां धर्मारण्यकथां श्रुत्वा यमधर्म- देवस्य स्वपुरीं प्रति गमनम्, तत्र यमधर्मराजं प्रति नारदस्यागमनम्, नारदेन हर्षकारणं पृष्टेन यमधर्मराजेन स्वसन्तोषकारणकथनपूर्वकं नारदाय ब्रह्मलोके व्यासमुखतः श्रुताया धर्मारण्यकथायाः कथनम् , यमधर्मराजतो धर्मारण्यकथां श्रुत्वा नारदस्य भूतले युधिष्ठिरं धर्मराजं प्रत्यागमनम्, धर्मराजसत्कृतेन नारदेन धर्मारण्यकथां शुश्रूषवे धर्मराजाय माघमासे गंगायां स्नानार्थं त्वं गच्छ अद्यैव व्यासमहर्षिरागमिष्यति तन्मुखात्त्वं धर्मारण्यकथां च शृण्वित्युक्त्वा नारद- स्यान्तर्धानम्, अथ धर्मराजं प्रति श्रीव्यासमहर्षेरागमनम्, अथ युधिष्ठिरेण व्यासं सिंहासने समावेश्य सम्पूज्यानामयप्रश्नकरणम्, ततो व्यासेन युधिष्ठि- राय धर्मारण्यकथाकथनायोपक्रमकरणम्.. १०६ १

२ अथ नोहेरकापरपर्यायधर्मारण्यमुख्यस्थानमाहात्म्यवर्णनम्, तत्र तस्य धर्मारण्यस्य सर्वतीर्थारण्याद्यतिशायिपुण्यशालित्ववर्णनम्, तन्माहात्म्यजिज्ञासया व्यासमह- र्षिं प्रति युधिष्ठिरेण प्रश्नकरणम्.. - - १०८ २

३ अथ व्यासेन धर्मारण्यकथारम्भकरणम्, तत्र श्रीभगवत्स्वरूपदिदृक्षया धर्मदेवस्य वनमध्ये गत्वा महादेवं ध्यात्वा तपश्चर्यावर्णनम्, तत्तपःसमुद्भूताग्निशिखाप्रतप्तैः सपरिवारैर्व्रह्मादिदेवैः कैलासे श्रीमहादेवं प्रति गत्वा महादेवस्य स्तुतिकरणम्, ततो रुद्रवचनाद्धर्मतो भयाभावं ज्ञात्वा सर्वेषां देवानां स्वस्थानं प्रति गमनेऽकार- णमेव शंकामापन्नेनेन्द्रेण बृहस्पत्यनुमत्या धर्मं प्रति तपोविघ्नकरणायोर्वशीवच- नाद्वर्धन्याख्याप्सरसः संप्रेषणम्, तया च धर्मसमीपं गत्वा गायनसमन्वितनृत्येन धर्मराजचित्ताकर्षणकरणम्, वर्धन्यप्सरोवर्णनप्रसंगेन स्त्रीस्वभावदोषानुकीर्तनम्- १०९ १

४ अथ वर्द्धन्यप्सरसा सह धर्मराजस्य संवादः,धर्मराजेन वर्द्धन्यप्सरसे वरप्रदानम्, ततो वर्द्धन्या शक्राय धर्मस्य व्यवसितनिवेदनपूर्वकं शक्राद्वरं लब्ध्वा स्वस्थानं प्रति गमनम्, अथाप्सरोगमनानन्तरं धर्मदेवेन पञ्चाग्निसाधनाद्युग्रतपःकरणम्, तदुग्रतपसोद्विग्नमानसानां देवादीनां कैलासं प्रति गत्वा शिवस्तुतिकरणम्, अथ देवैः सह शङ्करस्य वने तपस्यन्तं धर्मदेवं प्रत्यागमनम्, धर्मेण भगवतः स्तुतिकरणम्, तत्स्तुतिप्रसन्नेन शङ्करेण वरप्रदानप्रसंगे योजनद्वितयात्मकयमधर्म- तपोवनस्य धर्मारण्यप्रथाकरणपूवर्कं यमधर्मदेवाय वरप्रदानम्, ततो धर्मारण्य- क्षेत्रस्थापनम्, तत्र प्रथमतो यमधर्मेण भगवतो विश्वेश्वरस्य धर्मेश्वराभिख्यया स्व- यंभुवलिंगस्थापनम्, धर्मवापीकरणम्, धर्मवापीधर्मेश्वरयोर्माहात्म्यम्, तत्प्रसंगे- न यमधर्मतर्पणमाहात्म्यवर्णनम्, अथ यमधर्मराजेन स्वयं धर्मारण्यस्य वैभवव- र्णनपूर्वकं स्वयंस्थापितक्षेत्रभूम्यै सर्वातिशायित्ववरप्रदानम् ३१० २

५ अथ धर्मारण्येषु ब्रह्मविष्णुमहेशैर्विनिर्मितानामष्टादशसहस्रब्राह्मणानां माहात्म्यव- र्णनम्, तत्प्रसंगेन वर्णाश्रमसदाचारवर्णनपूर्वकसर्वसाधारणप्रातःस्मरणादिनित्या- ह्निकक्रमवर्णनम्- .. . - ११३ १

६ अथ गृहस्थाश्रमधर्मसदाचारलक्षणवर्णनम्, तत्रातिथिसत्कारप्रशंसा, अथाष्टविधवि. वाहलक्षणवर्णनम्, गृहस्थाचरणीयपञ्चमहायज्ञादिधर्मवर्णनम्, अथ गृहस्थवर्ज- नीयकर्मवर्णनम्, वृद्धोपसेवनदानादिप्रशंसावर्णनं च. .. ११६ १

७ अथ धर्मारण्यस्थधर्मवाप्यां तर्पणपिण्डदानादिमाहात्म्यवर्णनम्, अथ शौनकादिपृ- च्छायां सूतेन पतिव्रताधर्मसदाचारवर्णनम्, पतिव्रताधर्मप्रशंसाप्रसंगेन दुराचा- रिणीनां दुर्विपाकप्रदर्शनम्, विधवानियमधर्मवर्णनम्, धर्मवाप्यां तिलधेन्वादि- दानप्रशंसावर्णनपुरःसरश्राद्धमाहान्त्यवर्णनम्. ११८ २

८ अथ शिवस्कन्दसंवादरूपेण धर्मारण्यकथाप्रशंसनोपक्रमः, तत्र शिवेन स्कन्दमुखादि न्द्रादिदेवानागताञ्छ्रुत्वा सहसाऽऽसनादुत्थाय गन्तुकामनया वृषभेऽनारोहणं दृष्ट्वा स्कन्देन शिवं प्रति गमनत्वराकारणजिज्ञासया प्रश्नकरणम्, अथ स्कन्दं प्रति शिवेन सृष्ट्यादिवृत्तवर्णनपुरःसरं पौराणिककथावर्णनम्, तत्र ब्रह्मदेवसुतमरी- च्यादिमहर्षिवंशवर्णनपुरःसरं सूर्यपुत्रयमधर्मराजनिर्मितधर्मारण्यमाहात्म्यवर्णनम्, धर्मारण्यं प्रीत श्रीमहाविष्णुमानेतुं वैकुण्ठं प्रति गन्तुमुत्सुकेन शिवेन सह स्कन्दा- दीनां ब्रह्मादिदेवानां च वैकु्ण्ठं प्रति गमनम्, तत्र गत्वा ब्रह्मादिभिर्विष्णोः स्तुति- करणम्, ब्रह्मादिस्तुत्या विष्णोरुत्थानम्.. १२० २

९ अथ विष्णुना ब्रह्मादीन्देवान्प्रति स्वं प्रत्यागमनकारणे पृष्टे सति ब्रह्मणा धर्मा- रण्यदिदृक्षानिवेदनपुरःसर तत्रागमनाय विष्णोः प्रार्थनाकरणम्, ततो विष्णुना बाढमित्युक्त्वा तार्क्ष्यमारुह्य ब्रह्मरुद्रेन्द्रादिदेवैः सह धर्मारण्ये यमधर्मराजं प्रत्या- गमनम्, यमधर्मराजेन सर्वेषां देवानां सत्कारपूर्वकं स्तुतिकरणम्, विष्णुना यमधर्मं प्रति वरार्थं छन्दनम्, ततो यमधर्मेण स्वकीये धर्मारण्ये महर्ष्याश्रमकर- णार्थं प्रार्थनायां कृतायां विष्ण्वादिभिर्देवैर्नानादेशेभ्यः सदाचारसंपन्नान्सशिष्य- परिवारान्ब्राह्मणानानीये तस्मिन्धर्मारण्ये तेषामृषीणां सुविपुलानाश्रमान्विधाय स्थापनम्. अथ तत्र धर्मारण्ये निवसतां पुत्रपौत्रादिसमेतानां ब्राह्मणानां मध्ये चतुर्विंशतिमुख्यमहर्षिगोत्रप्रवरादिविस्तारपूर्वकं वर्णनं तत्तद्गोत्रोद्भवानां ब्राह्म- णानां स्वभाववर्णनं च, अथ धर्मारण्यमाहात्म्यप्रसङ्गेन जृम्भकनामकयक्षवृत्तान्त- वर्णनम् तत्र जृम्भकयक्षोद्वेजितसमस्तब्राह्मणप्रार्थनया सर्वदेवैस्तेषां ब्राह्मणानां रक्षणाय तस्मिन्धर्मारण्ये प्रत्येकैकगोत्रप्रवरदेवतारूपश्रीमातृप्रभृतियोगिनीनां स्था- पनम्, ततो योगिनीभी रक्षितानां ब्राह्मणानां स्वास्थ्यम्, अथ कदाचित्तत्र धर्मारण्ये समागतै रुद्रादिभिर्दवैर्विप्राणां शुश्रूषार्थं सृष्टिं विधातुं विष्णुद्वारा ब्रह्माणं प्रति प्रेरणम्, ततो ब्रह्मणा द्विजशुश्रूषुवर्गसिसृक्षया धर्मारण्ये कामधेनोः स्मरणे कृते सति कामधेनोर्धर्मारण्ये ब्रह्मणः समीप आगमनम्. .. १२१ २

१० अथ ब्रह्मणा कामधेनवे विप्रेभ्योऽनुचरप्रदानार्थं स्वाभिप्रायनिवेदनम्, ब्रह्मोक्तिं श्रुत्वा कामधेन्वा निजक्षीरधारया धरोल्लेखने कृते सति ततः शिखासूत्रधारिषट्त्रिंशत्सहस्रसंख्याकवणिजामुत्पत्तिः, ततः सर्वदेवानुशिष्टेन ब्रह्मणा तेषामष्टादशसहस्रब्राह्म-णानां प्रतिब्राह्मणमनुचरद्वयप्रदानपूर्वकं तत्तद्ब्राह्मणानुसारेण तत्तद्बाह्मणानुचराणां तेषांतेषां वणिजां गोत्रप्रवरादिव्यवस्थाकरणम्, तदनन्तरं सर्वदेवैः कामधेनोः स्तुति-करणम्, अथ तेषां गोभुजानां वणिजां परिग्रहार्थं रुद्रेण विश्वावसुगन्धर्वतो गन्धर्व- कन्या आनीय ताभिः सह गोभुजानां दारसंग्रहकरणम्, ततःप्रभृति गान्धर्व- विवाहप्रथाप्रवृत्तिः, षट्त्रिशत्सहस्राणां तेषां गोभुजवणिजां पुत्रपौत्राद्यसंख्यातसं- ततिभिः सह धर्मारण्ये निवासपूर्वकं ब्राह्मणसेवाशुश्रूषादिकर्मकरणवर्णनम् १२४ १

११ अथ कदाचित्त्रेतायुगे लोलजिह्वाख्यराक्षसेन धर्मारण्यमागत्योपद्रवे क्रियमाणे श्रीमातादिगोत्रदेवीभिस्तेन राक्षसेन सह युद्धकरणम्, तद्युद्धावसरे तत्र विष्णुना- गत्य प्रेरितेन निजचक्रेण लोलजिह्वराक्षसस्य वधकरणम्, ततो रक्षोभीप्या पला- यितानां धर्मारण्यनिवासिब्राह्मणादीनां विष्णोराज्ञया देवैरामन्त्र्य पुनर्धर्मा- रण्ये स्थापनम्, भगवता सत्यलोकादागत्य राक्षसं हत्वा ब्राह्मणानां हितार्थं संस्थापितस्य पुरस्य सत्यमन्दिरनामप्रसिद्धिवर्णनम् .. १२५ २

१२ अथ तस्य सत्यमन्दिरस्थापनवशात्सत्यपुरस्य समंततः सर्वभागेषु गणेशभास्करा- दिसर्वदेवतावासवर्णनपुरःसरं नगरशोभावर्णनम्, तत्र गणेशस्थापनप्रसंगेनं पार्वत्याः सकाशाद्गणेशोत्पत्त्यादिवृत्तान्तवर्णनम्, सर्वदेवैर्गणेशस्य स्तुतिपूर्वकं धर्मारण्यनिवासिजनरक्षणार्थं प्रार्थनाकरणम्, गणाध्यक्षेण देवप्रार्थनां स्वीकृत्य धर्मारण्यनिवासिजनानां रक्षणार्थमवस्थितौ कृतायां तत्रत्यसर्वजनैर्विवाहादिमङ्ग- -लकार्येषु निर्विघ्नतासिद्धये श्रीगणेशस्य पूजनम् .. १२६ १

१३ अथ धर्मारण्ये शंभोः पश्चिमभागे रविक्षेत्रवर्णनप्रसंगेन नासत्याश्विनोरुत्पत्तिस- विस्तरवृत्तान्तवर्णनम्, तत्र सूर्यभार्यासंज्ञाचरित्रे सूर्यतेजोऽसहमानया संज्ञया छायायाः सूर्यसमीपे स्थापनानंतरं तपोर्थ गमनम्, छायया पुत्रवात्सल्यवैषम्यतः क्रुद्धस्य यमस्य प्रहारार्थमुद्यतपादस्यशापप्रदानम्, ततो यमेन निवेदितं मातृवृत्तान्तं श्रुत्वा सूर्येण ध्यानेन स्वपत्न्याः संज्ञाया वडवारूपेण तपःप्रवृत्तिं विज्ञाया- श्वरूपेण तस्याः समीपे गमनम्, ततो वडवाया घ्राणे लिङ्गं प्रवेश्य सूर्येण संभोगे कृते सति युगलयोरश्विनोः समुत्पत्तिः, अश्वरूपधारिणः सूर्यूस्य पूर्वपश्चिम- खुरक्षोदत्तस्थले तप्तकुण्डद्वयोत्पत्तिः, तत्तप्तरविकुण्डमाहात्म्यवर्णनम्, ततो ब्रह्मादिदेवैस्तत्र सूर्यस्य बकुलादित्यनाम्ना संस्थापनम्, संज्ञायाः कुमारयोरश्विनोश्च स्थापनम्, रविकुण्डबकुलार्कमाहात्म्यवर्णनम्, बकुलार्कनामप्रसिद्धिकारण वर्णनम्- -. १२७ १

१४ अथ शिवस्कन्दसंवादेन धर्मारण्ये हयग्रीवस्य विष्णोस्तपश्चर्याया वृत्तान्तवर्णनम्, तत्र पूर्वं धरातले देवैर्यज्ञ आरब्धे सति विष्णोराह्वानार्थं रुद्रादीनां वैकुण्ठं प्रति गम- नम्, तस्मिन्काले भगवत एकान्तस्थाने हस्ते धनुर्धृत्वा समाधियोगेन तपःक- रणम्, ततस्तस्य प्रबोधार्थं बृहस्पतिप्रोक्तोपायमाचरितुं वम्र्याः कीटिकायास्तेन भगवता हस्ते धृतस्य धनुषो गुणस्य कर्तनाय यज्ञभागप्रदानच्छंदनेन देवैराज्ञाप- नम्, अथ वम्र्या धनुर्गुणे भक्षितमात्र एव ज्याघातेन विष्णोः शीर्षच्छेदः, तस्य शीर्ष्णश्चाकाशे गमनपूर्वकं निलयनम्.. १२८ २

१५ अथ च्छिन्ने तन्मस्तके बहुशः शोधनेनाप्यलब्धे सति ब्रह्मादिदेवैर्विश्वकर्माणं प्रति विष्णोः शिरःसंधानार्थमाज्ञापनम्, अथ विश्वकर्मणे देवैर्यज्ञभागप्रदानस्य प्रतिश्र- वणम्, ततो मध्याह्ने मध्येऽम्बरं समापन्नस्य सूर्यरथस्याश्वे देवैः समानीते सति विश्वकर्मणा तस्याश्वस्य शिरश्छित्त्वा विष्णोः कबंधे संयोजनम्, ततोऽश्वशीर्ष- महाविष्णोर्देवैः स्तुतिकरणम्, ततस्तुतिसंतुष्टेन हयग्रीवेण मयादिदेवेभ्यो वरप्रदानम्, ततो ब्रह्मादिदेवैर्यज्ञकर्मकरणम्, तस्मिन्यज्ञकर्मणि वम्रीभ्यो विश्व- कर्मणे च पूर्वं प्रतिश्रुतस्य यज्ञभागस्य प्रदानम्, ब्रह्मादिभिर्यज्ञकर्म समाप्य स्वलोकं प्रति गमनम्, अथ विष्णोर्हयशीर्षत्वकारणकथनप्रसंगेन ब्रह्मसभायां विष्णोः प्रागल्भ्यवादे ब्रह्मणा विष्णोः शीर्षपतनरूपशापवृत्तांतवर्णनम्, अथाश्व- शीर्षेण विष्णुना धर्मारण्ये देवसरस्तीर्थशुपाद्य तपःकरणम्, ब्रह्मणापि तत्पुरतः स्थित्वा तपःकरणम्, ततस्तत्तीर्थप्रभावाद्विष्णोरश्वशिरसो यथापूर्वं- शुभशीर्षत्वलाभवर्णनम्, अथ येन मुखेन ब्रह्मा विष्णवे शापमदात्तत्तस्य मुखं शार्दूलमुखमिव पचममासीत्, तद्ब्रह्मणः पंचमं मुखं धर्मारण्ये हरेण च्छेदित- मिति कथावर्णनम्, ब्रह्मणा मोक्षतीर्थकरणपूर्वकमोक्षेश्वरस्थापनवर्णनम्, देव- सरस्तीर्थस्नानप्रभावेण वन्ध्यात्वनिवृत्तिप्रभृतिसत्फलप्राप्तिवर्णनम्, मोक्षेश्वरमाहा- त्म्यम्, देवखातसरोवरप्रभाववर्णनम् १३० १

१६ अथ धर्मारण्ये ब्रह्मविष्णुरुद्रैर्धर्मारण्यनिवासिनां जनानां राक्षसादिभयविनाशाय नानाविधस्थानविशेषेषु श्रीमातादिगोत्रदेवीनां स्थापनवर्णनम्, तासां स्थानमातृ- कारूपाणां देवीनां स्वरूपनामादिवर्णनपूर्वकपूजाविशेषादिवर्णनम्, तत्र पूर्वदिशि श्रीमाताद्यानन्दापर्यंतदेवीनां माहात्म्यवर्णनम्. १३१ २

१७ अथ दक्षिणदिक्स्थितशांतादेव्यादिदेवीमाहात्म्यवर्णनपूर्वकश्रीमातादेवीमाहात्म्य- वर्णनम्. .. १३२ १

१८ अथ श्रीमातादेवीमाहात्म्यवर्णनप्रसंगेन धर्मारण्यस्थसद्योविवाहितद्विजदंपतिहरक- र्णाटकाख्यदैत्यवधाय श्रीमातादेव्या मातंगीदेवीनिर्माणादिवृत्तान्तवर्णनम्, मातं- ग्या कर्णाटकदैत्येन सह युद्धवर्णनम्, तस्मिन्युद्धे कर्णाटकेन मायया मातंगीं वंचयित्वा श्रीमातादेवी प्रत्यागत्य स्ववरणार्थ तस्याः प्रार्थनाकरणम्, ततः श्रीमातादेव्या श्यामलया ममानुजया सह विवाहं कुर्वित्युक्त्वा श्यामलादेवीं प्रति कर्णाटकदैत्यस्य प्रेषणम्, ततः श्यामलादेव्या युद्धेन कर्णाटकदैत्यस्य वधकरणम्, ततः संतुष्टैर्द्विजादिभिः श्रीमातामातंगीश्यामलादेवीनांविशेषोपचार- पूर्वकपूजाविधिजिज्ञासया श्रीमातादेवी प्रति प्रश्नकरणम्, श्रीमातादेव्या तेभ्यः पूजाविधानकथनम्, श्रीमातामातंगीश्यामलादेवीनां माहात्म्यवर्णनम् १३३

१९ अथेन्द्रसरोमाहात्म्यपूर्वकेन्द्रेश्वरमाहात्म्यवर्णनप्रसंगेन वृत्रहत्यासंत्रस्तेन्द्रकृततपश्चर्या-वृत्तान्तवर्णनम्, इन्द्रतीर्थेन्द्रेश्वरमाहात्म्यम्, तत्समीप एव जयन्तस्थापितजयन्तेश्वरमाहात्म्यवर्णनम् १३६ २

२० अथ शिवतीर्थमाहात्म्यप्रसंगेन श्रीशंकरस्य पुनर्जन्मवृत्तान्तवर्णनम, तत्र पार्वत्यै शिवेन मन्त्रकूटाक्षरबीजवर्णनम्, तादृशमंत्रजपेन देव्या दुष्टचित्तताप्राप्तिः, अथ शिवस्य धर्मारण्यं प्रति गत्वाऽकस्मात्पतनम्, तस्यांगस्वेदतः कूटगणाना- मुत्पत्तिः, तैर्गणैः कालकूटोपरि स्थित्वा कूटमंत्रसाधने कृते सति तेषां सिद्ध- तया स्वं प्रत्येव शिवत्वेन कथनं श्रुत्वा पार्वत्याः सलज्जत्वम्, ततः शिवाज्ञया पार्वत्या तपः कृत्वा शिवस्य सन्तोषणम्, तस्य तपःस्थानस्य धराक्षेत्राख्यया प्रसिद्धिः, तस्य धराक्षेत्रस्य माहात्म्यवर्णनम् १३

२१ अथ धर्मारण्यस्थितभट्टारिकादिकुलदेवतानां धर्मारण्यनिवासिब्राह्मणगोत्रप्रवरदेवता- वटंकादीनां च सविस्तरं वर्णनम्.. १३८ २

२२ अथ धर्मारण्ये ब्रह्मविस्तुमहेशैर्विनिर्मितानामाशापूर्यादियोगिनीनां प्राच्यादिदिग्दे- शस्थानस्थितिवर्णनम्. .. १३९ २

२३ अथ कदाचिद्दानवैः सह युद्धे पराजितैर्देवैर्ब्रह्माणं प्रति गमनम्, ततो ब्रह्माज्ञया सर्वैदेवैर्धर्मारण्यं प्रत्यागत्य सहस्राब्दपर्यतं सत्रारंभणम्, तत्र सत्रे विविधपक्वान्न- भोजनप्रदानेन ब्राह्मणानां संतर्पणम्, ततो धर्मारण्ये दानप्रभावात्प्राप्तबलैर्दे- वैर्दैत्यानां वधं कृत्वा स्वर्गं प्रति गमनवर्णनम्, अथ कदाचिल्लोहासुराख्येना- सुरेण धर्मारण्यं प्रत्यागत्य तन्निवासिनां ब्राह्मणानां वणिजां चात्यंतोपद्रवकर- णम्, तद्भयत्रस्तैस्तत्रत्यैर्ब्राह्मणैर्वणिग्भिश्च कांदिशिकीभूय यतस्ततो निर्गत्य शूद्रै- र्द्विजैश्चैकीभूय धर्मारण्यान्नातिदूरे शम्भुग्रामे निवासकरणम्, वणिग्भिश्चांडाल- जादिस्वस्वमुख्यवणिङ्नामनिर्मितग्रामेषु निवासकरणम्, तेषां वणिजां मोहेति- संज्ञाकारणकथनम्, तेनैव कारणेन तत्रत्यानां वणिजां ज्ञातिभेदवर्णनम्, एवं लोहासुरेण धर्मारण्यस्योद्वासकरणपूर्वकं स्वस्थानं प्रति गमनवर्णनम्. १३९ २

२४ अथ युधिष्ठिरेण धर्मराजेनेत्थं व्यासमुखाद्धर्मारण्यमाहात्म्यं श्रुत्वा धर्मारण्यं प्रति गत्वा तीर्थस्नानेष्टापूर्तादिविधिं कृत्वेन्द्रप्रस्थं प्रत्यागत्य राज्यशासनम्, धर्मारण्य- स्थतीर्थमाहात्म्यप्रभाववर्णनम्.. - -. - १४० २

२५ अथ धर्मारण्ये सत्यलोकात्सरस्वत्यागमनवृत्तान्तवर्णनप्रसंगेन महर्षीणां मार्कण्डे- येन सह संवादवर्णनम्, तत्र मार्कण्डेयेन स्वयं सत्यलोकात्सरस्वत्यानयनवर्णनम्, सरस्वत्यां स्नानदानश्राद्धादेः फलवर्णनम् १४१ १

२६ अथ धर्मारण्यस्थितद्वारकाक्षेत्रमाहात्म्यवर्णनम, १४१ २

२७ अथ धर्मारण्यस्थितगोवत्सलिंगोत्पत्तिवृत्तान्तपूर्वकगोवत्सलिङ्गमाहात्म्यवर्णनम्, गोवत्सलिङ्गस्याग्रतो वर्तमानस्य चण्डालस्थलस्य वर्णनम्, गोवत्सलिङ्गसमीपस्थितगङ्गकूपकमाहात्म्यवर्णनम्.. १४२ १

२८ अथ गोवत्सान्नैर्ऋतभागे लोहयष्टिकायां स्थितस्य स्वयंभुलिङ्गस्य माहात्म्यवर्णनम्, लोहयष्टिकायां सरस्वत्याख्ये मोक्षतीर्थे स्नानदानश्राद्धादिफलवर्णनम् १४३ १

२९ अथ लोहासुरचरित्रवर्णनम्, तत्र लोहासुरेण सरस्वतीतीरे शिवसन्तोषणाय तप- श्चर्याकरणम्, तपस्यतस्तस्येन्द्रेण तपोभंगार्थं मुष्टिभिस्ताडनम्, ततो देवैः सह लोहासुरस्य युद्ध उत्तानपतितस्य तस्योरसि शंकरस्य कण्ठे ब्रह्मणश्चरणयोर्वि- ष्णोश्चावस्थितिवर्णनम् अथ ब्रह्मवाक्याल्लोहासुरस्य स्वशरीरे ब्रह्मविष्णुमहेश्वर- स्थित्या सन्तुष्टस्य तस्मिन्धर्मारण्ये तथैवोत्तानपतितस्थित्यांऽवस्थानम्, ततो ब्रह्मविष्णुरुद्रैर्लोहासुरस्य वरप्रदानवर्णनम्.. १४३ १

३० अथ धर्मारण्यस्थतीर्थमाहात्म्यप्रसंगेन श्रीरामचन्द्रस्य भगवतो बाल्यमारभ्य सीतापरिणय-वनवास-राक्षसयुद्ध-रावणहनन-सीताप्राप्त्ययोयाऽऽगमन-राज्याभि- षेकपर्यंत सविस्तरचरित्रवर्णनम्, अथ वसिष्ठं प्रति रामेण सर्वतीर्थोत्तमतीर्थमा- हात्म्यजिज्ञासया प्रश्नकरणम् १४५ १

३१ अथ रामेण स्वकृतब्राह्मणराक्षसहत्यादोषनिवृत्तये वसिष्ठं प्रति सर्वोत्तमतीर्थे पृष्टे सति वसिष्ठेन महर्षिणा गंगानर्मदाद्यनेकतीर्थमाहात्म्यकथनपूर्वकं धर्मारण्यस्य सर्वोत्तमत्ववर्णनपुरःसरमाहात्म्यवर्णनम् वसिष्ठप्रोक्तं धर्मारण्यक्षेत्रमाहात्म्यं श्रुत्वा श्रीरामचन्द्रेण स्वकीयपरिवारैः सह धर्मारण्यक्षेत्रयात्राकरणम्, तत्र मांडलिकपुरं गत्वा ततस्तत्रत्यैर्वणिग्जनैः सह वसिष्ठवचनाच्छ्रीरामेण शिबिकावाहनं त्यक्त्वा स्वयं पादचारेण सर्वसैनिकैः स्वपरिवारैश्च सह यथाशास्त्रं यात्राविधिं विधाय श्रीरामेश्वरकामेश्वराभिख्यशिवलिङ्गे संस्थाप्य कृतकृत्यतां समासाद्य स्वस्थतया नदीतीरे स्वपरिवारैः सह हवनम्, अथ तत्राऽर्धरात्रसमयेऽकस्मात्कस्याश्चिन्नार्या रोदनं श्रुत्वा तस्या वृत्तं विज्ञातुं तस्याः समीपे निजदूतप्रेषणम् अथ तया नार्या श्रीरामस्य स्वयमत्रागमने सति निजवृत्तं निवेदयिष्यामीति कथनम् १४७ १

३२ अथ दूतैः श्रीरामसमीपमागत्य तस्या नार्या वचनस्य कथनम्, ततः श्रीरामेण स्वयं तस्या नार्याः समीपे गत्वा रोदनकारणे पृष्टे सति तया धर्मारण्याधिदेवतया श्रीमातादेव्या श्रीरामप्रशंसापूर्वकं लोहासुरकृतधर्मारण्यनिर्जनत्वरूपनिजदुःखनि- वेदनर्थकं धर्मारण्ये पुनः पूर्ववद्ब्राह्मणादिसर्वजनसर्वसदाचारकुलाचारसंस्थापन- प्रवृत्त्युद्देशेन श्रीरामं प्रति प्रार्थनाकरणम् श्रीमातावचनं श्रुत्वा श्रीरामेण धर्मा- रण्यस्य पुनः पूर्ववत्सत्यमंदिरनगरस्थितिस्थापनार्थं जगन्मातुः समीपे प्रतिज्ञां कृत्वा निजदूतान्संप्रेष्य तद्द्वारा यत्रतत्र स्थितास्तत्रत्यान्सर्वब्राह्मणान्स्तुतिप्रार्थना- पूर्वकं महता सत्कारेणानीय तेषां पूजासत्कारं विधाय तेभ्यो वस्त्रालंकाररधन- प्रभृतिबहुविधदानप्रदानम् .. १४८ १

३३ अथ श्रीरामेण तेषां तत्क्षेत्रनिवासिनां ब्राह्मणानां पुरतो धर्मारण्यक्षेत्रस्य जीर्णोद्धारं कृत्वा यज्ञपूर्वकं दानप्रदानार्थं प्रार्थनाकरणम्, ततस्तैः सर्वैर्ब्राह्मणैर्मिलित्वा संमंत्र्य श्रीरामं प्रति स्वेषां प्रतिग्रहपराङ्मुखत्वरूपस्वधर्मकथनपूर्वकब्रह्मविष्णुमहेश्वरा- ज्ञावर्तित्ववर्णनम्, ततः श्रीरामेण ब्रह्मविष्णुशिवादिसमस्तदेवानां स्मरणम्, श्रीरा- मस्य स्मरणमात्रेण ब्रह्मादिसमस्तदेवानामागमनम्, श्रीरामेण तेषां सर्वेषां देवानां पूजादिना सत्कारकरणम्, ततः समस्तदेवैः श्रीरामचन्द्रस्य धर्मारण्यक्षेत्र- जीर्णोद्धारेच्छां दृष्ट्वा प्रशंसाकरणम्, ततः श्रीरामचन्द्रेण तेषां ब्रह्मविष्णुरुद्रादि- देवानामनुज्ञां लब्ध्वा श्रीधर्मारण्यक्षेत्रस्य जीर्णोद्धारकार्यारम्भं विधाय विविधब- हिःशालागृहशालाब्रह्मशालानां निर्मापणं कृत्वा तासु सर्वासु विविधधनधान्यधा- तुधेनुरत्नादिवस्तुसंभारान्संपूर्य चतुश्चत्वारिंशच्छतग्रामाणां ब्राह्मणेभ्यः प्रदानकर- णम्, षट्त्रिंशत्सहस्रगोभुजवणिग्भ्यश्च श्वेताश्वचामरखड्गप्रदानपूवर्कं ब्राह्मणानां शुश्रूषाकरणायाज्ञाकरणम्, विवाहादिसमये चामरादिराजचिह्नधारणगुरुकुलदेवी- पूजाद्यर्थमाज्ञाकरणं च, सपादलक्षमाण्डलीकमण्डलेश्वरवणिजां च चामरखड्गादि प्रदाय द्विजशुश्रूषार्थमाज्ञाकरणम्, ततः स्वकुलस्वामिसूर्यप्रतिष्ठां कृत्वा ब्रह्म- देवश्रीमाताशून्यस्वामिहरिगणाध्यक्षादिदेवतास्थापनपूर्वकं दुर्गकुंडप्रतोलीधर्मवा- पीकूपप्रभृतिनगरोपयोगिव्यवस्थां विधाय ताम्रपट्टेऽखण्डशासनं विलिख्य त्रैवि- द्यविद्येभ्यो ब्राह्मणेभ्यः प्रदाय तस्य धर्मारण्यक्षेत्रस्य तन्निवासिनां ब्राह्मणानां वणिजां च निरंतरं रक्षार्थं मारुतेराज्ञाकरणम्, एवं जीर्णोद्धारं कृत्वा कृतकृत्येन श्रीरामेण श्रीमातरं संपूज्य प्रणम्य देवेभ्यो द्विजेभ्यश्चाशीर्ग्रहणम्. १५० १

३४ अथ श्रीरामचन्द्रेण ब्राह्मणेभ्यो दत्तस्य ताम्रपट्टशासनस्य मध्ये विलिखितस्य लेखस्य वर्णनम्, तैर्ब्राह्मणैः श्रीरामचन्द्रदत्तस्य तामपट्टशासनस्याहन्यहनि सेवा- करणम्, ततः श्रीरामचन्द्रस्य तत्रत्यान्ब्राह्मणान्वणिजश्च मारुति प्रति सदा स्वेच्छानिवेदनं कर्तव्यं स सदा वः कार्यं करिष्यतीत्यभयवचनप्रदानपूर्वकं ब्राह्म- णाज्ञां गृहीत्वाऽयोध्यापुरीं प्रत्यागत्य राज्यकरणवर्णनम् १५१ २

३५ अथ श्रीरामेणायोध्यायां कदाचित्कथाप्रसंगे श्रीवसिष्ठमुखारविंदाद्धर्मारण्यक्षेत्रस्थ- प्रयागत्रिवेणीशुक्लतीर्थसिद्धक्षेत्रकाशीगङ्गाधर्मारण्यसुवर्णाहरिक्षेत्रादिमाहात्म्यं श्रुत्वा धर्मारण्ये पुनर्यात्रां विधातुं स्वपरिजनैः सह गत्वा मोहेरकपुरे स्थित्वा वसिष्ठा- ज्ञया समाहूतैः कुशिकादिमहर्षिभिः सह यज्ञकृत्यं समाप्यावभृथस्नानकरणम्, अथ तत्र यज्ञान्ते सीताया विज्ञप्त्या मोहेरकपुरस्य पुरतः सीतानाम्ना सीतापुरं निर्माय विदुषे ब्राह्मणाय समर्पणम्, अथ धर्मालयं प्रति गत्वा सीतावचनेन गुरुवाक्येन च श्रीरामचन्द्रेण ब्राह्मणेभ्यः षोडशमहादानकरणपूर्वकं सीतापुरमारभ्य सत्यमन्दिर- पर्यंत पञ्चपञ्चाशद्ग्रामदानवृत्तान्तवर्णनम्, तेषु पञ्चपञ्चाशद्ग्रामेषु निवसतां वात्स्यायनाद्यष्टादशसहस्रमहर्षीणां शुश्रूषार्थं षट्त्रिंशत्सहस्रवैश्यानां तच्चतुर्गुणशू द्राणां च प्रदानकरणम्, अथ रामेण विप्राणां प्रार्थनापूर्वकं वैश्यानां शूद्राणां च तेषां विप्राणां शुश्रूषार्थमाज्ञाकरणम्, ततः श्रीरामचन्द्रस्य स्वपुरीं प्रत्यागमनम्, एवं श्रीरामचन्द्रेण धर्मारण्यक्षेत्रस्थतीर्थस्थानजीर्णोद्धारकरणवृत्तान्तवर्णनम् १५२ २

३६ अथ नारदाय ब्रह्मदेवेन हनुमत्कृतरक्षणप्रभावाद्धर्मारण्यस्य सुस्थितिवर्णनम्, युधिष्ठिरेण व्यासं प्रति धर्मारण्यस्य कदापि भङ्गो जातो न वेति प्रश्नकरणम्, ततो व्यासमहर्षिणा पूर्वकलियुगवृत्तान्तवर्णनम्, तत्र कान्यकुब्जाधिपसार्वभौमा- ऽऽमनामकराजवृत्तान्तवर्णनम्, तेन स्वगुरुतः कलिधर्मं श्रुत्वा कलिप्रभावेण तेना- ऽऽमभूपतिना कलुषितचित्ततया वैष्णवं धर्ममुत्सृज्य बौद्धधर्मस्वीकरणवृत्तान्तः, अथ तस्यामभूपस्य भार्यायामामानाम्न्यां रत्नगङ्गाख्यायाः कन्याया उत्पत्तिः, तस्या रत्नगङ्गाख्यायाः क्षपणकैर्मोहिततया जैनधर्मपरायणतावर्णनम्, ब्रह्मावर्ता- धिपतये कुंभीपालाय रत्नगङ्गायाः प्रदानम्, तस्या विवाहे तत्पित्राऽऽमभूपेन तत्पतये धर्मारण्यस्थितमोहेरकाख्यपुरप्रदानम् ततः कुंभीपालेन भूपेन धर्मारण्यं समागत्य मोहेरकनगरं निजराजधानीं कृत्वा तस्मिन्निजराज्ये सर्वतो जैनधर्मस्य विस्तार. करणम्, तदा सर्ववर्णानां जैनधर्मे प्रवृत्तिः, श्रीरामचन्द्रसकाशतो लब्धशासन- पत्राणां ब्राह्मणानां वृत्तिलोपे सति तैः सर्वैर्मोढब्राह्मणैर्मिलित्वा कान्यकुब्ज- देशे सार्वभौममामभूपतिं गत्वा तस्मै रामदत्तशासनपत्रवृत्तांतं निवेद्य तज्जा- मातृकृत-निजवृत्तिलोपवृत्तान्तनिवेदनम्, तत आमभूपेन तद्द्विजद्वारा निजजामात्रे रामशासनपालनायाज्ञाप्रेषणम्, कुंभीपालापरपर्यायेण कुमारपाला- ख्येन धर्मारण्यभूभृता सत्यामपि श्वशुरस्याज्ञायां रामशासनस्यानादरं कृत्वा ब्राह्मणेभ्यो वृत्तिहरणार्थमुद्यम्य नास्तिकवादेन मारुतेरानयनेन प्रत्ययो दीयतामिति ब्राह्मणान्प्रति कथनम्, ततस्तैर्ब्राह्मणैः सेतुबंधे स्थितं मारुतिं प्रत्यानेतुं तत्र धर्मस्थाने सर्वैः सह मिलित्वा गमनाय संघशो द्विजमेलापकसभां कृत्वा सर्वेषां संघीभूय रामेश्वरं प्रति मारुत्यानयनाय गंतुं दृढनिश्चयप्रतिज्ञां कृत्वा हस्ताक्षरग्रहणम्, अष्टादशसहस्रब्राह्मणानां रामेश्वरक्षेत्रं प्रति गंतुं प्रवृत्तानां निवारणार्थं सर्वगोभुजेभ्यो राज्ञा कुमारपालेनाज्ञायां कृतायां तैः षट्त्रिंशत्सहस्रै- जैनधर्मेणालिप्तैः शुद्धैर्गोभुजवणिग्भिर्ब्राह्मणेभ्यः शापभयाद्राज्ञश्च वृत्तिभंग- भयान्मौनस्वीकरणम्, ततश्चाडालयस्थानां कतिपयानां जैनधर्मपरायणानां शूद्राणां मध्ये कतिचिच्छूद्राणां ब्राह्मणनिवारणार्थं राज्ञा प्रेषणम्, तैर्जैन- धर्मवासनाकलुषितचित्तैः कतिपयैः शूद्रै राजाज्ञया तेषां ब्राह्मणानां समीपं गत्वा तेषां परावर्तनाय हेतुवादेन संभाषणकरणम्, तेषां शूद्राणां हेतुवादवचः श्रुत्वा शिथिलदृढसंकल्पबंधनैरष्टादशसहस्रब्राह्मणानां मध्ये पञ्चदशसहस्रसंख्या- कैर्ब्राह्मणै रामशासनानपेक्षाप्रदर्शनपूर्वकं रामेश्वरक्षेत्रं प्रति गमनात्परावर्तनम्, उर्वरितानां च त्रिसहस्रसंख्याकानां द्विजानां दृढनिश्चयेन श्रीरामेश्वरक्षेत्रे मारुतिं प्रति गमनम्, मध्येमार्गमतिश्रमखिन्नानां तेषां समीपे श्रीरामप्रेरणया मारुतेर्वृद्ध- ब्राह्मणरूपेणागमनम्, ब्राह्मणोद्देशजिज्ञासया प्रश्नकरणेन रामदर्शनस्याशक्यताक- थनेन च तान्ब्राह्मणान्बहुधा परीक्ष्य ततो हनुमता तेभ्यो निजरूपप्रदर्शनपूर्वकं तान्ब्राह्मणान्सेतुबन्धरामेश्वरं प्रत्यानीय रामेश्वरमहादेवदर्शनादिकं कारयित्वा तद्दर्शनेन स्वात्मनो धन्यतामननपूर्वकं प्रशंसाकरणम्. १५४ १

३७ अथ तैस्त्रिसहस्रब्राह्मणैर्मारुतेः स्तुतिकरणम्, तत्स्तुतिसंतुष्टेन मारुतिना तेभ्यः क्षुन्निवृत्तये भक्षणार्थं फलप्रदानम्, ततस्तेभ्यो ब्राह्मणेभ्योऽभिज्ञानार्थं निजकक्षा- द्वयस्थरोम्णां पृथक्पृथक्पुटिकाद्वंय प्रदाय क्रमेण राज्ञः समग्रैश्वर्यदहनार्थं समग्रै श्वर्यपुनरुज्जीवनार्थं च राजद्वारे प्रक्षेपणायाज्ञाकरणम्, ततस्तत्पुटिकाद्वयं समादाय सुप्रसन्नैस्तैर्मोढब्राह्मणैस्तत्र श्रीमारुतिसमीपे श्रीरामतीर्थे त्रिरात्रं स्थित्वा ब्रह्मयज्ञादिकरणम्, ततस्तृतीयदिनरात्रौ हनुमता दशयोजनविस्तीर्णशिलायां तान्द्विजान्स्थापयित्वा शयनार्थं विज्ञप्तिकरणम्, ततो निद्राणेषु तेषु द्विजेषु मारुतिना निजपितुर्वायोर्द्वारा तस्याः शिलाया धर्मारण्यं प्रति संप्रापणम्, अथ धर्मारण्ये तया विशालया शिलया सह तेष्वागतेषु ग्रामस्थितैर्जनैस्तेषां ब्राह्मणानां पुत्रपौत्रैश्च तत्समीपं प्रत्यागमनम्, तेषां त्रिसहस्रब्राह्मणानां सर्वैर्ग्राम- स्थितैर्ब्राह्मणैः सह समागमनसंभाषणोत्सवानन्तरं महता समारंभेण स्वस्वसदनं प्रति गमनम्.. -. १५८ १

३८ अथ परेद्युः प्रभाते पौर्वाह्निककर्मसमाप्त्यनन्तरं तैर्ब्राह्मणै राजसभां गत्वा राज्ञे निजग्रामप्रभृतिवृत्तिप्रदानाय श्रीमारुतिसंदेशनिवेदनम् तद्ब्राह्मणोदितं मारुतिसंदे- शं श्रुत्वा राज्ञा कुमारपालेन तदनादरणे क्रियमाणे तैर्ब्राह्मणैर्मारुतिदत्तकक्षारोम पुटिकाद्वयमध्यत एकस्या बामकक्षास्थरोमपुटिकाया राजद्वारे प्रक्षेपकरणम् तेन प्रक्षेपमात्रेण तत्कालमेव तस्य कुमारपालस्य राज्ञः समस्तस्त्रीपुत्रगजाश्वादिवै- भवदहनम्, नग्नक्षपणकानां कुमारपालराज्ञश्च तेनाग्निप्रकोपेनातीवदुर्दशावर्णनम्, ततः कुमारपालेन राज्ञा तेषां ब्राह्मणानां संनिधौ शरणगमनम्, ततस्तैः कृपालु- भिर्ब्राह्मणैस्तस्मै भूपाय श्रीमारुतिदत्तदक्षिणकक्षारोमपुटिकायाः प्रदानम्, तस्यां पुटिकायां राजद्वारे प्रक्षिप्तमात्रायां राज्ञः पुनः समस्तस्त्रीपुत्रगजाश्वादिवैभव संजीवनपुरःसरसर्वशांतिप्राप्तिः,ततः संजातश्रीराममारुतिप्रभावप्रत्ययेन तेन राज्ञा तेभ्यो विप्रेभ्यः पुरावन्नवीनं वृत्तिशासनपत्रं कृत्वा प्रदानम्, स्वराज्यात्सर्वनग्न- क्षपणकादिवेदबाह्यपाषंडलोकानां निष्कासनम्, अथ षट्त्रिंशत्सहस्रसदाचार- संपन्नगोभुजवणिजामढवीजानां वणिजां च यथापूर्वं विप्रशुश्रूषार्थं निरूपणम्, अथ राज्ञा दत्तस्य वृत्तिशासनपत्रस्य सेतुबन्धगतत्रिसहस्रब्राह्मणानामेवाधिकारवर्णनम्, पञ्चदशसहस्रसंख्याकानां सेतुबंधगमने निजप्रतिज्ञावचनलोपकराणां ब्राह्मणानां ग्रामवृत्तिसंबंधानधिकारित्वनिरूपणम्, सत्यप्रतिज्ञां कुर्वाणानां त्रयीविद्यसंज्ञकानां त्रिसहस्रब्राह्मणानां मोहेरकपुरमध्ये निवासकरणम्, स्वप्रतिज्ञाभंगकराणां च सर्वेषां चातुर्विद्यसंज्ञकानां पञ्चदशसहस्रसंख्याकानां ब्राह्मणानां मोहेरकग्रामाद्ब- हिः सुखवासस्थाने निवासकरणम्, सर्वैस्तैर्मोढवंशजैस्त्रैविद्यैश्चातुर्वेदिभिश्च ब्राह्मणैः प्रतिवर्षं पौषशुक्लत्रयोदश्यां कुलदेवतापूजनोत्सवकरणवर्णनम्.. १५९ २

३९ अथ कदाचिद्ब्रह्मविष्णुरुद्रादिदेवानां धर्मारण्यं प्रत्यागमनम् तत्रत्यैः सर्वैर्ब्राह्मणै- र्गोभुजाख्यवणिग्भिश्च तेषां पूजादिसत्कारकरणम्, तैर्ब्रह्मादिभिर्देवैस्तेषां धर्मार- ण्यनिवासिनां ब्राह्मणानां पृथक्पृथग्वृत्तिविभागं कृत्वा स्वस्थानं प्रति गमनम्, ततः पंचपंचाशद्ग्रामेषु पंचदशसहस्राणां चातुर्विद्यानां त्रैविद्यानां च ब्राह्मणानां निवासवर्णनम्, चातुर्विद्यानां पंचदशगोत्रनामानि, सीतापुरादिपंचपंचाशद्ग्रा- मनामवर्णनम्, अथ सीतापुरादिपंचपंचाशद्ग्रामस्थाननिवासि चातुर्विद्यव्राह्मणस विस्तरगोत्रप्रवरदेवतास्वभावादिवर्णनम्, अथ हनुमत्समीपतः समागतानां त्रैविद्यब्राह्मणानां शीलायादिसप्तदशस्थाननिरूपणम्, चतुर्विंशतिचातुर्विद्यानां त्रैविद्यानां च कियत्कालपर्यन्तं विरोध आसीदिति वर्णनम्, अथ केषांचिच्छूद्राणां भ्रष्टाचारवशेन जातिभेदवर्णनम्, अथ कलियुगे प्राप्ते तत्रत्यानां केषांचिद्वणिजां मध्ये भ्रष्टाचारवशात्पृथगाचारवशाच्च संबन्धपृथक्करणादिवर्णनम्, अथ पूर्वं कुमारपालराजभयात्सीतापुरं विहाय साभ्रमतीतटे निवासार्थं गतानां पुनरा गत्य सुखवासकस्थाननिवासपूर्वर्कं धेनुसंचारणवृत्त्योपजीवनवर्णनम् ततस्तेषु चातुर्विद्यब्राह्मणानां विधवासु कन्यासु गोपालवृत्तिधारकैर्ब्राह्मणैः संभोगेनो त्पादितानां कुमाराणां कातीभगोलकधेनुजनाम्ना ख्यातिवर्णनम्, अथ हनुमत्सका- शागतानां ग्रामवृत्त्यधिकारवतां त्रैविद्यानां त्रिसहस्रब्राह्मणानां मध्ये कतिपयैः कुष्ठिपंगुमूर्खबधिरकाणकुब्जमूकादिभिः स्वजातिमध्ये स्यविवाहार्थं कन्य काया अलाभवशाद्यौनसबंधेन चातुर्विद्यकन्यकाभिः सहोद्वाहेन समुत्पादितानां मिश्रसंभूतीनां ब्राह्मणानां त्रिदलजसंज्ञावर्णनम्, तेषां वृत्तिविभागपूर्वकज्ञातिभेद वर्णनम् १६१ २

४० अथ पूर्वोक्तप्रकारेण मोहेरकपुरे ज्ञातिभेदसमुत्पत्त्यनन्तरं ब्राह्मणादीनां कलियुगे पापाचारभीत्या सर्वसंमत्या परंपरागतधर्माचारकुलाचारस्थानाचारप्रभृतिगोत्रमातृ- पूजाविध्यादिव्यवस्थापत्रकरणवर्णनम्, सर्वेषां मोढब्राह्मणानां गोत्रप्रवरावटंक शाखादिवर्णनम्, धर्मारण्यस्थानां वणिजां शूद्राणां च द्विजशुश्रूषापरायणत्वो- पदेशवर्णनम्, धर्मारण्यमाहात्म्यफलश्रुतिवर्णनपुरःसरं धर्मारण्यमाहात्म्यसमाप्ति- वर्णनम् १६८ १

इति ब्राह्मखण्डे द्वितीयं धर्मारण्यमाहात्म्यम् ॥ ( ३ -२) ॥

N/A

References : N/A
Last Updated : November 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP