धर्मारण्य खण्डः - अध्याय ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
श्रूयतां राजशार्दूल पुण्यमाख्यानमुत्तमम् ॥
स्तूयमानो
जगन्नाथ इदं वचनमब्रवीत् ॥१॥
॥ विष्णुरुवाच ॥
किमर्थमागताः सर्वे ब्रह्माद्याः सुरसत्तमाः॥
पृथिव्यां कुशलं कच्चित्कुतो वो भयमागतम् ॥२॥
ततः प्रोवाच वै हृष्टो ब्रह्मा तं केशवं वचः ॥
न भयं विद्यतेऽस्माकं त्रैलोक्ये सचराचरे ॥३॥
एकविज्ञापनार्थाय आगतोऽहं तवांतिके॥
तदहं संप्रवक्ष्यामि तदेतच्छृणु मे वचः॥४॥
परं तु पूर्वं धर्मेण स्थापितं तीर्थमुत्तमम्॥
तद्द्रष्टुकामोऽहं देव त्वत्प्रसादाज्जनार्दन ॥५॥
तत्र त्वं देवदेवेश गमने कुरु मानसम् ॥
यथा सत्तीर्थतां याति धर्मारण्यमनुत्तमम् ॥६॥
विष्णुरुवाच ॥
साधुसाधु महाभाग त्वर्यतां तत्र मा चिरम् ॥
ममापि चित्तं तत्रैव तद्दर्शनेस्ति लालसम् ॥७॥
॥ व्यास उवाच ॥
तार्क्ष्यमारुह्य गोविंद स्तत्रागाच्छीघ्रमेव हि ॥
ततो धर्मेण ते देवाः सेंद्राः सर्षिगणास्तथा ॥८॥
ब्रह्मविष्णुमहेशाद्या दृष्टा दूरान्मुमोद च ॥
धर्मराजोपि तान्दृष्ट्वा देवा न्विष्णुपुरोगमान् ॥९॥
आगतः स्वाश्रमात्तत्र पूजां प्रगृह्य तत्पुरः ॥
आसनादुत्थितः शीघ्रं सपर्याद्यं प्रगृह्य च ॥
एकैकस्य चकाराथ पूजां चैव पृथक्पृथक् ॥१०॥
चकार पूजां विधिवत्तेषां तत्रार्कनंदनः ॥
आसनेषूपवेश्याथ पूजां कृत्वा गरीयसीम् ॥११॥
॥ यम उवाच ॥
तीर्थरूपमिदं क्षेत्रं प्रसादाद्देवकीसुत ॥
त्वत्तोषविधिना चाद्य कृपया च शिवस्य च ॥१२॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥
अद्य मे सफलं स्थानं काजेशानां समागमात् ॥१३॥
॥ व्यास उवाच ॥
एवं स्तुतस्तदा विष्णुः प्रोवाच मधुरं वचः ॥
तुष्टोऽस्मि धर्म राजेंद्र अहं स्तोत्रेण ते विभो ॥१४॥
किंचित्प्रार्थय मत्तोऽहं करोमि तव वांछितम् ॥
यत्तेऽस्त्यभीप्सितं तुभ्यं तद्ददामि न संशयः ॥१५॥
यम उवाच ॥
यदि तुष्टोऽसि देवेश वांछितं कुरुषे यदि ॥
धर्मारण्ये महापुण्ये ऋषीणामाश्रमान्कुरु ॥१६॥
वसंति वाडवा यत्र यजंति चैव याज्ञिकाः ॥
वेदनिर्घोषसंयुक्तं भाति तत्तीर्थमुत्तमम् ॥१७॥
अब्राह्मणमिदं तीर्थं पीडयिष्यंति जन्तवः ॥
तस्मात्त्वं वाडवाञ्छौरे समानय ऋषी न्बहून् ॥
धर्मारण्यं यथा भाति त्रैलोक्ये सचराचरे ॥१८॥
ततो विष्णुः सहस्राक्षः सहस्रशीर्षः सहस्रपात् ॥
सहस्रशस्तदा रूपं कृतवान्धर्मवत्सलः ॥
यस्मिन्स्थाने च ये विप्राः सदाचाराः शुभव्रताः ॥१९॥
अशेषधर्मकुशलाः सर्वशास्त्रविशारदाः ॥
तपोज्ञाने महाख्याता ब्रह्मयज्ञपरायणाः ॥
स्थापिता ऋषयः सर्वे सहस्राण्यष्टादशैव तु ॥२०॥
नानादेशात्समानीय स्थापितास्तत्र तैः सुरैः ॥
आश्रमांश्च बहूंस्तत्र काजेशैरपि निर्मितान् ॥२१॥
धर्मोपदेशात्कृष्णेन ब्रह्मणा च शिवेन च ॥
स्वेस्वे स्थाने यथायोग्ये स्थापयामास केशवः ॥२२॥
युधिष्ठिर उवाच ॥
कस्मिन्वंशे समुत्पन्ना ब्राह्मणा वेदपारगाः ॥
स्थापिताः सपरीवाराः पुत्रपौत्रसमावृताः ॥
शिष्यैश्च बहुभिर्युक्ता अग्निहोत्रपरायणाः ॥
तेषां स्थानानि नामानि यथावच्च वदस्व मे ॥२३॥
व्यास उवाच ॥
श्रूयतां नृपशार्दूल धर्म्मारण्यनिवासिनाम् ॥२४॥
महात्मनां ब्राह्मणानामृषीणामूर्ध्वरेतसाम् ॥
तेषां वै पुत्रपौत्राणां नामानि च वदाम्यहम् ॥२५॥
चतुर्विशतिगोत्राणि द्विजानां पांडवर्षभ ॥
तेषां शाखाः प्रशाखाश्च पुत्रपौत्रादयस्तथा ॥२६॥
जज्ञिरे बहवः पुत्राः शतशोऽथ सहस्रशः ॥
चतुर्विशतिमुख्यानां नामानि प्रवदामि ते ॥
द्विजानामृषयः प्रोक्ताः प्रवराणि तथा शृणु ॥२७॥
भारद्वाजस्तथा वत्सः कौशिकः कुश एव च ॥
शांडिल्यः काश्यपश्चैव गौतमश्छांधनस्तथा ॥२८॥
जातूकर्ण्यस्तथा वत्सो वसिष्ठो धारणस्तथा ॥
आत्रेयो भांडिलश्चैव लौकिकाश्च इतः परम् ॥२९॥
कृष्णायनोपमन्युश्च गार्ग्यमुद्गलमौषकाः ॥
पुण्यासनः पराशरः कौंडिन्यश्च ततः परम् ॥३०॥
तथा गान्यासनश्चैव प्रवराणि चतुर्विंशतिः ॥
जामदग्न्यस्य गोत्रस्य प्रवराः पंच एव हि ॥३१॥
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ॥
पंचैते प्रवरा राजन्विख्याता लोकविश्रुताः ॥३२॥
एवं गोत्रसमुत्पन्ना वाडवा वेदपारगाः ॥
द्विजपूजाक्रियायुक्ता नानाक्रतुक्रियापराः ॥३३॥
गुणेन संहिता आसन् षट्कर्मनिरताश्च ये ॥
एवंविधा महाभागा नानादेशभवा द्विजाः ॥३४॥
भामेवसं तृतीयं च प्रवराः पंच एव हि ॥
भार्गवच्यावनाप्नुवानौर्वजामदग्न्यसंयुताः ॥
आत्रेयोऽर्चनानसश्च श्यावास्येति तृतीयकः ॥३५॥
अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ॥
धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः ॥३६॥
दानभोगरताः सर्वे श्रौतस्मार्तेषु संमताः ॥
मांडव्यगोत्रे विज्ञेयाः प्रवरैः पंचभिर्युताः ॥३७॥
भार्गवश्च्यावनो ऽत्रिश्चाप्नुवानौर्वस्तथैव च ॥
अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः ॥३८॥
रोगिणो लोभिनो दुष्टा यजने याजने रताः ॥
ब्रह्मक्रिया पराः सर्वे मांडव्याः कुरुसत्तम ॥३९॥
गार्ग्यस्य गोत्रे ये जातास्तेषां तु प्रवरास्त्रयः ॥
अंगिराश्चांबरीषश्च यौवनाश्वस्तृतीयकः ॥४०॥
अस्मिन्गोत्रे समुत्पन्नाः सद्वृत्ताः सत्यभाषिणः ॥
शांताश्च भिन्नवर्णाश्च निर्द्धनाश्च कुचैलिनः ॥४१॥
संगवात्सल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ॥
वत्सगोत्रे द्विजा भूप प्रवराः पंच एव हि ॥४२॥
भार्गवश्च्यवनाप्नुवानौर्वश्च जमदग्निकः ॥
एभिस्तु पंच विख्याता द्विजा ब्रह्मस्वरूपिणः ॥४३॥
शांता दांताः सुशीलाश्च धर्मपुत्रैः सुसंयुता ॥
वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु ॥४४॥
सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः॥
दानधर्म रताः सर्वे अन्नदा जलदा द्विजाः ॥४५॥
दयालवः सुशीलाश्च सर्वभूतहिते रताः ॥
काश्यपा ब्राह्मणा राजन्प्रवरत्रयसंयुताः ॥४६॥
काश्यपश्चापवत्सारो नैध्रुवश्च तृतीयकः ॥
वेदज्ञा गौरवर्णाश्च नैष्ठिका यज्ञकारकाः ॥४७॥
प्रियवासा महादक्षा गुरुभक्तिरताः सदा ॥
प्रतिष्ठामानव न्तश्च सर्वभूतहिते रताः ॥४८॥
यजंते च महायज्ञान्काश्यपेया द्विजातयः॥
धारीणसगोत्रजाश्च प्रवरैस्त्रिभिरन्विताः ॥४९॥
अगस्तिदर्विश्वेताश्व दध्यवाहनसंज्ञकाः ॥
अस्मिन्गोत्रे च ये जाता धर्मकर्मसमाश्रिताः ॥५०॥
कर्मक्रूराश्च ते सर्वे तथैवोदरिणस्तु ते ॥
लंबकर्णा महादंष्ट्रा द्विजा धनपरायणाः ॥५१॥
क्रोधिनो द्वेषिणश्चैव सर्वसत्त्वभयंकराः ॥
लौगाक्षसोद्भवा ये वै वाडवाः सत्यसंश्रिताः ॥५२॥
प्रवराश्च त्रयस्तेषां तत्त्वज्ञानस्वरूपकाः ॥
कश्यपश्चैव वत्सश्च वसिष्ठश्च तृतीयकः ॥५३॥
सदाचारास्तु विख्याता वैष्णवा बहुवृ त्तयः ॥
रोमभिर्बहुभिर्व्याप्ताः कृष्णवर्णास्तु वाडवाः ॥५४॥
शांता दाताः सुशीलाश्च स्वदारनिरताः सदा ॥
कुशिकसगोत्रे ये जाताः प्रवरैस्त्रिभिरन्विताः ॥५५॥
विश्वामित्रो देवरात औदलश्च त्रयश्च ये ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥५६॥
असत्यभाषिणो विप्राः सुरूपा नृपसत्तमाः ॥
सर्व्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ॥५७॥
उपमन्युसगोत्रेयाः प्रवरत्रयसंयुताः ॥
वसिष्ठश्च भरद्वाजस्त्विंद्रप्रमद एव वा ॥५८॥
अस्मिन्गोत्रे तु ये विप्राः क्रूराः कुटिलगामिनः ॥
दूषणा द्वेषिणस्तुच्छाः सर्वसंग्रहतत्पराः ॥५९॥
कलहोत्पादने दक्षा धनिनो मानिनस्तथा ॥
सर्वदैव प्रदुष्टाश्च दुष्टसंगरतास्तथा ॥६०॥
रोगिणो दुर्बलाश्चैव वृत्त्युपकल्पवर्जिताः ॥
वात्स्यगोत्रे भवा विप्राः प्रवरैः पंचभिर्युताः ॥६१॥
भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ॥
अस्मिन्गोत्रे भवा विप्राः स्थूलाश्च बहुबुद्धयः ॥६२॥
सर्वकर्मरता श्चैव सर्वधर्मेषु निश्चलाः ॥
वेदशास्त्रार्थनिपुणा यजने याजने रताः ॥६३॥
सदाचाराः सुरूपाश्च बुद्धितो दीर्घदर्शिनः ॥
वात्स्यायनसगोत्रेयाः प्रवरैः पंचभिर्युताः ॥६४॥
भार्गवच्यावनाप्नुवानौर्वश्च जमदग्निकः ॥
पूर्वोक्ताः प्रवराश्चास्य कथितास्तव भारत ॥६५॥
अस्मिन्गोत्रे तु ये जाता पाकयज्ञरताः सदा ॥
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ॥६६॥
स्नानदानादिनिरताः सर्वदाश्च जितेंद्रियाः ॥
वापीकूपतडागानां कर्तारश्च सहस्रशः ॥
व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः ॥६७॥
कौशिकवंशे ये जाताः प्रवरत्रयसंयुताः ॥
विश्वामित्रोऽघर्मषी च कौशिकश्च तृतीयकः ॥६८॥
अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः॥
शांता दांताः सुशीलाश्च सर्वधर्मपरायणाः ॥६९॥
अपुत्रिण स्तथा रूक्षास्तेजोहीना द्विजोत्तमाः ॥
भारद्वाजसगोत्रेयाः प्रवरैः पंचभिर्युताः ॥७०॥
अंगिरसो बार्हस्पत्यो भारद्वाजस्तु सैन्यसः ॥
गार्ग्यश्चै वेति विज्ञेयाः प्रवराः पंच एव च ॥७१॥
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ॥
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ॥७२॥
ब्रह्मभोज्यपराः सर्वे सर्वधर्मपरायणाः ॥
काश्यपगोत्रे यै जाताः प्रवरत्रयसंयुताः ॥७३॥
काश्यपश्चापवत्सारो रैभ्येति विश्रुतास्त्रयः ॥
अस्मिन्गोत्रे भवा विप्रा रक्ताक्षाः क्रूरदृष्टयः ॥७४॥
जिह्वालौल्यरताः सर्वे सर्वे ते पारमार्थिनः ॥
निर्धना रोगिणश्चैते तस्करानृतभाषिणः ॥७५॥
शास्त्रार्थावेदिनः सर्वे वेदस्मृतिविवर्जिताः ॥
शुनकेषु च ये जाता विप्रा ध्यानपरायणाः ॥७६॥
तपस्विनो योगिनश्च वेदवेदांगपारगाः ॥
साधवश्च सदाचारा विष्णुभक्तिपरायणाः ॥७७॥
ह्रस्वकाया भिन्नवर्णा बहुरामा द्विजोत्तमाः ॥
दयालाः सरलाः शांता ब्रह्मभोज्यपरायणाः ॥७८॥
शौनकसेषु ये जाताः प्रवरत्रयसंयुताः ॥
भार्गवशौनहोत्रेति गार्त्स्यप्रमद इति त्रयः ॥७९॥
अस्मिन्देशे समुत्पन्ना वाडवा दुःसहा नृप ॥
महोत्कटा महाकायाः प्रलंबाश्च मदोद्धताः ॥८०॥
क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्रविशारदाः ॥
बहुभुजो मानिनो दक्षा राग द्वेषोपवर्जिताः ॥८१॥
सुवस्त्रभूषारूपा वै ब्राह्मणा ब्रह्मवादिनः ॥
वसिष्ठगोत्रे ये जाताः प्रवरत्रयसंयुताः ॥८२॥
वसिष्ठो भारद्वाजश्च इन्द्रप्रमद एव च ॥
अस्मिन्गोत्रे भवा विप्रा वेदवेदांगपारगाः ॥८३॥
याज्ञिका यज्ञशीलाश्च सुस्वराः सुखिनस्तथा ॥
द्वेषिणो धनवंतश्च पुत्रिणो गुणिनस्तथा ॥८४॥
विशालहृदया राजञ्छूराः शत्रुनिबर्हणाः ॥
गौतमसगोत्रे ये जाताः प्रवराः पंच एव हि ॥८५॥
कौत्सगार्ग्योमवाहाश्च असितो देवलस्तथा ॥
अस्मिन्गोत्रे च ये जाता विप्राः परमपावनाः ॥८६॥
परोपकारिणः सर्वे श्रुतिस्मृति परायणाः ॥
बकासनाश्च कुटिलाश्छद्मवृत्तिपरास्तथा ॥८७॥
नानाशास्त्रार्थनिपुणा नानाभरणभूषिताः ॥
वृक्षादिकर्मकुशला दीर्घरोषाश्च रोगिणः ॥८८॥
आंगिरसगोत्रे ये जाताः प्रवरत्रयसंयुताः ॥
आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः ॥८९॥
अस्मिन्गोत्रे च ये जाताः सत्य संभाषिणस्तथा ॥
जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ॥९०॥
महाव्रताः पुराणज्ञा महादानपरायणाः ॥
निर्द्वेषिणो लोभयुता वेदाध्य यनतत्पराः ॥९१॥
दीर्घदर्शिमहातेजो महामायाविमोहिताः ॥
शांडिलसगोत्रेये प्रवरत्रयसंयुताः ॥९२॥
असितो देवलश्चैव शांडिलस्तु तृतीयकः ॥
अस्मिन्गोत्रे महाभागाः कुब्जाश्च द्विजसत्तमाः ॥९३॥
नेत्ररोगी महादुष्टा महात्यागा अनायुषः ॥
कलहोत्पादने दक्षाः सर्वसंग्रह तत्पराः ॥९४॥
मलिना मानिनश्चैव ज्योतिःशास्त्रविशारदाः ॥
आत्रेयसगोत्रे ये जाताः पंचप्रवरसंयुताः ॥९५॥
आत्रेयोऽर्चनानसश्यावाश्वोंगिर सोऽत्रिश्च ॥
अस्मिन्वंशे च ये जाता द्विजास्ते सूर्यवर्चसः ॥९६॥
चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ॥
सदाचारा महादक्षाः श्रुतिशास्त्र परायणाः ॥९७॥
याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ॥
धर्मज्ञा दानशीलाश्च निर्मलाश्च महोत्सुकाः ॥९८॥
तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ॥९९॥
युधिष्ठिर उवाच ॥
कथयस्व महाबाहो धर्मारण्यकथामृतम् ॥
यच्छ्रुत्वा मुच्यते पापाद्घोराद्ब्रह्मवधादपि ॥१००॥
॥ व्यास उवाच ॥
शृणु राजन्प्रवक्ष्यामि कथामेतां सुदुर्लभाम् ॥१॥
यक्षरक्षःपिशाचाद्या उद्वेजयंति वाडवान् ॥
जृंभकोनाम यक्षोऽभूद्धर्म्मारण्यसमीपतः ॥२॥
उद्वेजयति नित्यं स धर्मारण्यनिवासिनः ॥
ततस्तैश्च द्विजाग्र्यैस्तु देवेभ्यो विनिवेदितम् ॥३॥
यक्षरक्षादिना चैव परिभूता वयं सुराः ॥
त्यक्ष्यामोऽद्य वरं स्थानं तद्भयान्नात्र संशयः ॥४॥
ततो देवैः संगधर्वैः स्थापितास्तत्र भूमिषु ॥
 सिद्धाश्च वरयोगिन्यः श्रीमातृप्रभृतयस्तथा ॥५॥
रक्षणार्थं हि विप्राणां लोकानां हितकाम्यया ॥
गोत्रान्प्रति तथैकैका स्थापिता योगिनी तदा ॥६॥
यस्य गोत्रस्य या शक्ती रक्षणे पालने क्षमा ॥
सा तस्य कुलदेवीति साक्षात्तत्र बभूव ह ॥७॥
श्रीमाता तारणी देवी आशापूरी च गोत्रपा ॥
इच्छाऽऽर्तिनाशिनी चैव पिप्पली विकारवशा ॥८॥
जगन्माता महामाता सिद्धा भट्टारिका तथा ॥
कदंबा विकरा मीठा सुपर्णा वसुजा तथा ॥९॥
मातंगी च महादेवी वाणी च मुकुटेश्वरी ॥
भद्री चैव महाशक्तिः संहारी च महाबला ॥११०॥
चामुंडा च महादेवी इत्येता गोत्रमातरः ॥
ब्रह्मविष्णुमहेशाद्यैः स्थापितास्तत्र रक्षणे ॥११॥
ताः पूजयंति विप्रेंद्राः स्वधर्मनिरताः सदा ॥
ततः प्रभृति योगिन्यः स्वेस्वे काले सुरक्षिताः ॥१२॥
वाडवाः स्वस्थतां जग्मुः पुत्रपौत्रैः समावृताः ॥
ततो देवाः सगंधर्वा हर्षनिर्भरमानसाः ॥
विमानवरमारूढा जग्मुर्नाकेऽमृताशनाः ॥१३॥
गते वर्षशते राजन्ब्रह्मविष्णुमहेश्वराः ॥
स्मृत्वा तु धर्मारण्यस्य प्रेक्षणार्थं कुतूहलात् ॥१४॥
समाजग्मुस्तदा राजन्प्रभाते उदिते रवौ ॥
विमानवरमारुह्य अप्सरोगणसेविताः ॥१५॥
गंधर्वैर् गीयमानास्ते स्तूयमानाः प्रबोधकैः ॥
तत्र स्थाने द्विजा राजन्समित्पुष्पकुशान्बहून् ॥१६॥
आश्रमांस्तान्परित्यज्य गताः सर्वे दिशो दश ॥
तमाश्रमपदं दृष्ट्वा शून्यं चैव महेश्वरः ॥१७॥
उवाच वाक्यं धर्मज्ञो वाडवान्क्लिशते विभो ॥
शुशूषार्थं हि शुश्रूषन्कल्पयेदिति मे मतिः ॥१८॥
श्रुत्वा तु वचनं शंभोर्देवदेवो जनार्दनः ॥
सत्यंसत्यमिति प्रोच्य ब्रह्माणमिदमब्रवीत् ॥१९॥
भोभो ब्रह्मन्द्विजातीनां शुश्रूषार्थं प्रकल्पय ॥
सृष्टिर्हि शाश्वतीवाद्य द्विजोघोपि सुखी भवेत् ॥
विष्णोर्वाक्यमभिश्रुत्य ब्रह्मा लोकपितामहः ॥१२०॥
संस्मरन्कामधेनुं वै स्मरणेनैव तत्क्षणे॥
आगता तत्र सा धेनुर्धर्मारण्ये पवित्रके ॥१२१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये गोत्रप्रवरगोत्रदेवीकथनंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP