धर्मारण्य खण्डः - अध्याय २२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ युधिष्ठिर उवाच ॥
स्थानवासिन्यो योगिन्यः काजेशेन विनिर्मिताः ॥
कस्मिन्स्थाने हि का देव्यः कीदृश्यस्ता वदस्व मे ॥१॥
॥ व्यास उवाच ॥
सर्वज्ञोसि कुलीनोसि साधु पृष्टं त्वयानघ ॥
कथयिष्याम्यहं सर्वमखिलेन युधिष्ठिर ॥२॥
नानाभरणभूषाढ्या नानारत्नोपशोभिताः ॥
नानावसनसंवीता नानायुवसमन्विताः ॥३॥
नानावाहनसंयुक्ता नानास्वरनिनादिनीः ॥
भयनाशाय विप्राणां काजेशेन विनिर्मिताः ॥४॥
प्राच्यां याम्यामुदीच्यां च प्रतीच्यां स्थापिता हि ताः ॥
आग्नेया नैर्ऋते देशे वायव्येशानयोस्तथा ॥५॥
आशापुरी च गात्राई छत्राई ज्ञानजा तथा ॥
पिप्पलांबा तथा शांता सिद्धा भट्टारिका तथा ॥६॥
कदंबा विकटा मीठा सुपर्णा वसुजा तथा ॥
मातंगी च महादेवी वाराही मुकुटेश्वरी ॥७॥
भद्रा चैव महाशक्तिः सिंहारा च महाबला ॥
एताश्चान्याश्च बहवः कथितुं नैव शक्यते ॥८॥
नानारूपधरा देव्यो नानावेषसमाश्रिताः ॥
स्थानादुत्तरदिग्भागे आशापूर्णासमीपतः ॥९॥
पूर्वे तु विद्यते देवी आनंदानंददायिनी ॥
वसंती चोत्तरे देव्यो नानारूपधरा मुदा ॥१०॥
इष्टान्कामान्ददात्येता जलदानेन तर्पिताः ॥
स्थाने नैर्ऋतिदिग्भागे शांता शांतिप्रदायिनी ॥११॥
सिंहोपरि समासीना चतुर्हस्ता वरप्रदा ॥
भट्टारी च महाशक्तिः पुनस्तत्रैव तिष्ठति ॥१२॥
संस्तुता पूजिता भक्त्या भक्तानां भयनाशिनी ॥
स्थानात्तु सप्तमे क्रोशे क्षेमलाभा व्यव स्थिता ॥१३॥
सा विलेपमयी पूज्या चिंतिता सिद्धिदायिनी ॥
पूर्वस्यां दिशि लोकैस्तु बलिदानेन तर्पिता ॥
परिवारेण संयुक्ता भुक्तिमुक्ति प्रदायिनी ॥१४॥
अचिंत्यरूपचरिता सर्वशत्रुविनाशनी ॥
संध्यायास्त्रिषु कालेषु प्रत्यक्षैव हि दृश्यते ॥१५॥
स्थानात्तु सप्तमे क्रोशे दक्षिणा विन्ध्यवासिनी ॥
सायुधा रूपसंपन्ना भक्तानां भयहारिणी ॥१६॥
पश्चिमे निंबजा देवी तावद्भूमिसमाश्रिता ॥
महाबला सा दृष्टापि नयनानन्द दायिनी ॥१७॥
स्थानादुत्तरदिग्भागे तावद्भूमिसमाश्रिता ॥
शक्तिर्बहुसुवर्णाक्षा पूजिता सासुवर्णदा ॥१८॥
स्थानाद्वायव्यकोणे च क्रोशमात्र मिते श्रिता ॥
क्षेत्रधरा महादेवी समये च्छागधारिणी ॥१९॥
पुरादुत्तरदिग्भागे क्रोशमात्रे तु कर्णिका ॥
सर्वोपकारनिरता स्थानोपद्रवनाशनी ॥२०॥
स्थानान्निर्ऋतिदिग्भागे ब्रह्माणीप्रमुखास्तथा ॥
नानारूपधरा देव्यो विद्यंते जलमातरः ॥२१॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये देवतास्थापनंनाम द्वाविंशोऽध्यायः ॥२२॥छ ॥
N/A
References : N/A
Last Updated : November 19, 2024
TOP