धर्मारण्य खण्डः - अध्याय २७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
तत्र तस्य समीपस्थं मार्कंडेनोपलक्षितम् ॥
तीर्थं गोवत्ससंज्ञं तु सर्वत्र भुवि संश्रुतम् ॥१॥
तत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ॥
स्वयंभूलिंगरूपेण संस्थितो जगतां पतिः ॥२॥
आसीद्बलाहकोनाम रुद्रभक्तो महाबलः ॥
आखेटकसमायुक्तो नृपः परपुरंजयः ॥३॥
मृगयूथे स्थितं दृष्ट्वा गोवत्सं तत्पदातिना ॥
उक्तो राजा मया दृष्टं कौतुकं नृपसत्तम ॥४॥
गोवत्सो मृगयूथस्य दृष्टो मध्यस्थितो मया ॥
तेषामेवानुरक्तोऽसौ जनन्या रहितस्तथा ॥५॥
द्रष्टुं तु कौतुकं राजा तं पदातिं पुरः स्थितम् ॥
उवाच दर्शयस्वेति गोवत्सं च समाविशत् ॥६॥
गत्वाटवीं तदा राज्ञो दर्शितः स पदातिना ॥
पदातिभिर्मृगानीकं दुद्राव त्रासितं यदा ॥७॥
पीलुगुल्मं प्रति गतं गोवत्सः प्रस्थितस्तदा ॥
राजा तद्धरणाकांक्षो प्राविशद्गुल्ममादरात् ॥८॥
तत्र स्थितं स गोवत्समपश्यन्नृपतिः स्वयम् ॥
यावद्गृह्णाति तं तावल्लिंगं जातं समुज्वलम् ॥९॥
तं दृष्ट्वा विस्मितो राजा किमेतदित्यचिंतयत् ॥
यावच्चिंतयते ह्येवं देहं त्यक्त्वा दिवं गतः ॥१०॥
अत्रांतरे गगनतले समंततः श्रूयते सुरजयकारगर्जितम् ॥
पपात पुष्पवृष्टिरंबराद्राजा गतः शिवभुवनं च तत्क्षणात् ॥११॥
तावत्पश्यति तन्नाभ्यं गोवत्सं बालकं स्थितम् ॥
नूनमेष महादेवो वत्सरूपी महेश्वरः ॥१२॥
तमानेतुं समुद्युक्तो राजा तमुज्जहार च ॥
तदा तद्देव लिंगं तु नोत्तिष्ठति कथंचन ॥
तदा देवाः सहानेन प्रार्थयामासुरीश्वरम् ॥१३॥
॥ देवा ऊचुः ॥
भगवन्सर्वदेवेश स्थातव्यं भवता विभो॥
शुक्लेन लिंगरूपेण सर्वलोकहितैषिणा ॥१४॥
॥ श्रीमहादेव उवाच ॥
स्थास्याम्यहं सदैवात्र लिंगरूपेण देवताः ॥
यस्माद्भाद्रपदे मासि कृष्णपक्षे कुहू दिने ॥१५॥
तथा तद्दिवसे तत्र स्नानं कृत्वा विधानतः ॥
लिंगं ये पूजयिष्यंति न तेषां विद्यते भयम् ॥१६॥
ऋते च पिंडदानेन पूर्वजाः शाश्वतीः समाः ॥
रौरवे नरके घोरे कुंभीपाके च ये गताः ॥१७॥
अनेकनरकस्थाश्च तिर्यग्योनिगताश्च ये ॥
सकृत्पिंडप्रदानेन स्यात्ते षामक्षया गतिः ॥१८॥
ततो बलाहको राजा सर्वदेवसमन्वितः ॥
स्थापयामास तल्लिंगं सर्वदेवसमीपतः ॥१९॥
चकार बहुदानानि लोकानां हितकाम्यया ॥
यावदर्चयते ह्येवं रुद्रोऽपि स्वयमागतः ॥२०॥
॥ रुद्र उवाच ॥
अस्यां रात्रौ तु मनुजाः श्रद्धाभक्तिसमन्विताः ॥
येर्चयिष्यंति देवेशं तेषां पुण्यमनंतकम् ॥२१॥
जागरं ये करिष्यंति गीतशास्त्रपुरःसरम् ॥
उद्धरिष्यंति ते मर्त्याः कुलमेकोत्तरं शतम् ॥२२॥
तावद्गर्ज्जंति तीर्थानि नैमिषं पुष्करं गया ॥
प्रयागं च प्रभासं च द्वारका मथुराऽर्बुदः ॥२३॥
यावन्न दृश्यते लिंगं गोवत्सं परमाद्भुतम्॥
यदा हि कुरुते भावं गोवत्सगमनं प्रति ॥२४॥
स्ववंशजास्तदा सर्वे नृत्यंति हर्षिता ध्रुवम् ॥२५॥
॥ सूत उवाच ॥
यच्चान्यदद्भुतं तत्र वृत्तांतं शृणु त द्विजा ॥
येन वै श्रुतमात्रेण सर्वपापक्षयो भवेत् ॥२६॥
यदा वै स्थापितं लिंगं सर्वदेवैः पुरातनम् ॥
विष्णोः प्रतिष्ठानगुणात्सर्वेषां च दिवौक साम् ॥२७॥
अणुमात्रप्रमाणेन प्रत्यहं समवर्द्धत ॥
ततस्ते मनुजा देवा भीतास्तं शरणं ययुः ॥२८॥
॥ देवा ऊचुः ॥
वृद्धिं संहर देवेश लोका नां स्वस्ति तद्भवेत्॥
एवमुक्ते ततो लिंगाद्वागुवाचाशरीरिणी॥२९॥
॥ शिववाण्युवाच ॥
हे लोका मा भयं वोऽस्तु उपायः श्रूयतामयम् ॥
कश्चिच्चंडालमानीय मत्पुरः स्थाप्यतां धुवम् ॥३०॥
चंडालांश्च समानीय दधुर्देवस्य ते पुरः॥
तथापि तस्य वृद्धिस्तु नैव निर्वर्तते पुनः ॥३१॥
वागुवाच ॥
कर्म्मणा यस्तु चंडालः सोऽग्रे मे स्थाप्यतां जनाः ॥
तच्छ्रुत्वा महदाश्चर्यं मतिं चकुर्विलोचने ॥३२॥
मार्गमाणास्तदा ते तु ग्रामाणि च पुराणि च ॥
कञ्चित्कर्मरतं पापं ददृशुर्ब्राह्मणब्रुवम् ॥३३॥
वृषभान्भारसंयुक्तान्मध्याह्नेवाहयत्तु सः ॥
क्षुत्तृट्श्रमपरीतांश्च दुर्बलान्क्रूरमानसः ॥३४॥
अस्नात्वापि पर्युषितं भक्षयंतीह वै द्विजाः ॥
तं समादाय देवेशं जग्मुर्यत्र जगद्गुरुः ॥३५॥
देवालयाग्रभूमौ तं स्थापयासुरादृताः ॥
भस्मी बभूव सहसा गोवत्साग्रे निरूपितः ॥३६॥
चंडालस्थल इत्येष प्रसिद्धोसौऽभवत्क्षितौ ॥
तत्र स्थितैर्न चाद्यापि प्रासादो दश्यते हि सः ॥३७॥
तदाप्रभृति तल्लिंगं साम्यभावमुपागतम् ॥
धौतपाप्मा गतस्तीर्थं द्विजो लिंगनिरीक्षिणात् ॥३८॥
प्रत्यहं पूजयामास गोवत्सं गत किल्बिषः ॥
विशेषात्कृष्णपक्षस्य चतुर्द्दश्यां समागतः ॥३९॥
एतत्तदद्भुतं तस्य देवस्य च त्रिशूलिनः ॥
शृणुयाद्यो नरो भक्त्या सर्वपापैः प्रमुच्यते ॥४०॥
॥ भूत उवाच ॥
गोवत्समिति विख्यातं नराणां पुण्यदं परम् ॥
अनेकजन्मपापघ्नं मार्कंडेयेन भाषितम् ॥४१॥
तत्र तीर्थे सकृत्स्नानं रुद्रलोकप्रदं नृणाम् ॥
पापदेहविशुद्धयर्थं पापेनोपहतात्मनाम् ॥४२॥
कूपे तर्पणतश्चैव श्राद्धतश्चैव तृप्तता ॥
भाद्रपदे विशे षेण पक्षस्यांते भवेत्कलौ ॥४३॥
एकविंशतिवारांस्तु गयायां तर्पणे कृते ॥
पितॄणां परमा तृप्तिः सकृद्वै गंगकूपके ॥४४॥
तस्मिन्गोवत्ससामीप्ये तिष्ठते गंगकूपकः ॥
तस्मिंस्तिलोदकेनापि सद्गतिं यांति तर्पिताः ॥४५॥
पितरो नरकाद्वापि सुपुण्येन सुमेधसा ॥
गोप्रदानं प्रशंसंति तस्मिंस्तीर्थे मुनीश्वराः ॥४६॥
विप्राय स्वर्णदानं तु रुद्रलोके नयेन्नरम् ॥
सरस्वतीशिवक्षेत्रे गंगा च गंगकूपके ॥४७॥
एकस्थमेतत्त्रितयं स्वर्गापवर्गकारणम् ॥
सेवितं चर्षिभिः सिद्धैस्तीर्थं सर्वत्र विश्रुतम् ॥४८॥
पीलुयुग्मं स्थितं तत्र तत्तीर्थं मुनिसेवितम् ॥
स्नानात्स्वर्गप्रदं चैव पानात्पापविशुद्धिदम् ॥४९॥
कीर्त्तनात्पुण्यजननं सेवनान्मुक्तिदं परम् ॥
तद्वै पश्यंति ये भक्त्या ब्रह्महा यदि मातृहा ॥५०॥
बालघाती च गोघ्नश्च ये च स्त्रीशूद्रघातकाः ॥
गरदाश्चाग्निदाश्चैव गुरुद्रोहरताश्च ये ॥५१॥
तपस्विनिन्दकाश्चैव कूटसाक्ष्यं करोति यः ॥
वक्ता च परदोषस्य परस्य गुणलोपकः ॥५२॥
सर्वपापमयोऽप्यत्र मुच्यते लिंगदर्शनात् ॥५३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पातालखण्डे धर्मारण्यमाहात्म्ये बलाहकोपाख्यानवर्णनंनाम सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : November 20, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP