धर्मारण्य खण्डः - अध्याय ३१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीराम उवाच ॥
भगवन्यानि तीर्थानि सेवितानि त्वया विभो ॥
एतेषां परमं तीर्थं तन्ममाचक्ष्व मानद ॥१॥
मया तु सीताहरणे निहता ब्रह्मराक्षसाः ॥
तत्पापस्य विशुदयर्थं वद तीर्थोत्तमोत्तमम् ॥२॥
वसिष्ठ उवाच ॥
गंगा च नर्मदा तापी यमुना च सरस्वती ॥
गंडकी गोमती पूर्णा एता नद्यः सुपावनाः ॥३॥
एतासां नर्मदा श्रेष्ठा गंगा त्रिपथगामिनी ॥
दहते किल्बिषं सर्वं दर्शनादेव राघव ॥४॥
दृष्ट्वा जन्मशतं पापं गत्वा जन्मशतत्रयम् ॥
स्नात्वा जन्मसहस्रं च हंति रेवा कलौ युगे ॥५॥
नर्मदातीरमाश्रित्य शाकमूलफलैरपि ॥
एकस्मिन्भोजिते विप्रे कोटि भोजफलं लभेत ॥६॥
गंगा गंगेति यो ब्रूयाद्योजनानां शतैरपि ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥७॥
फाल्गुनांते कुहूं प्राप्य तथा प्रौष्ठपदेऽसिते ॥
पक्षे गंगामधि प्राप्य स्नानं च पितृतर्पणम् ॥८॥
कुरुते पिंडदानानि सोऽक्षयं फलमश्नुते ॥
शुचौ मासे च संप्राप्ते स्नानं वाप्यां करोति यः ॥९॥
चतुरशीतिनरकान्न पश्यति नरो नृप ॥
तपत्याः स्मरणे राम महापातकिनामपि ॥१०॥
उद्धरेत्सप्तगोत्राणि कुलमेकोत्तरं शतम् ॥
यमुनायां नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥११॥
महापातकयुक्तोऽपि स गच्छेत्परमां गतिम् ॥
कार्त्तिक्यां कृत्तिकायोगे सरस्वत्यां निमज्जयेत् ॥१२॥
गच्छेत्स गरुडारूढः स्तूयमानः सुरोत्तमैः ॥
स्नात्वा यः कार्तिके मासि यत्र प्राची सरस्वती ॥१३॥
प्राचीं माधवमास्तूय स गच्छेत्परमां गतिम् ॥
गंडकीपुण्यतीर्थे हि स्नानं यः कुरुते नरः ॥१४॥
शालग्रामशिलामर्च्य न भूयः स्तनपो भवेत् ॥
गोमतीजलकल्लोलैर्मज्जयेत्कृष्णसन्निधौ ॥१५॥
चतुर्भुजो नरो भूत्वा वैकुण्ठे मोदते चिरम् ॥
चर्मण्वतीं नमस्कृत्य अपः स्पृशति यो नरः ॥१६॥
स तारयति पूर्वजान्दश पूर्वान्दशापरान् ॥
द्वयोश्च संगमं दृष्ट्वा श्रुत्वा वा सागरध्वनिम् ॥१७॥
ब्रह्महत्यायुतो वापि पूतो गच्छेत्परां गतिम् ॥
माघमासे प्रयागे तु मज्जनं कुरुते नरः ॥१८॥
इह लोके सुखं भुक्त्वा अन्ते विष्णुपदं व्रजेत् ॥
प्रभासे ये नरा राम त्रिरात्रं ब्रह्मचारिणः ॥१९॥
यमलोकं न पश्येयुः कुंभीपाकादिकं तथा ॥
नैमिषारण्यवासी यो नरो देवत्वमाप्नुयात् ॥२०॥
देवानामालयं यस्मात्तदेव भुवि दुर्लभम् ॥
कुरुक्षेत्रे नरो राम ग्रहणे चन्द्रसूर्ययोः ॥२१॥
हेमदानाच्च राजेंद्र न भूयः स्तनपो भवेत् ॥
श्रीस्थले दर्शनं कृत्वा नरः पापात्प्रमुच्यते ॥२२॥
सर्वदुःखविनाशे च विष्णुलोके महीयते ॥
काश्यपीं स्पर्शयेद्यो गां मानवो भुवि राघव ॥२३॥
सर्वकामदुघावासमृषिलोकं स गच्छति ॥
उज्जयिन्यां तु वैशाखे शिप्रायां स्नानमाचरेत् ॥२४॥
मोचयेद्रौरवाद्घोरात्पूर्वजांश्च सहस्रशः ॥
सिंधुस्नानं नरो राम प्रकरोति दिनत्रयम् ॥२५॥
सर्वपापविशुद्धात्मा कैलासे मोदते नरः ॥
कोटितीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं शिवम् ॥२६॥
ब्रह्महत्यादिभिः पापैर्लिप्यते न च स क्वचित् ॥
अज्ञानामपि जंतूनां महाऽमेध्ये तु गच्छताम् ॥२७॥
पादोद्भूतं पयः पीत्वा सर्वपापं प्रणश्यति ॥
वेदवत्यां नरो यस्तु स्नाति सूर्योदये शुभे ॥२८॥
सर्वरोगात्प्रमुच्येत परं सुखमवाप्नुयात् ॥
तीर्थानि राम सर्वत्र स्नानपानावगाहनैः ॥२९॥
नाशयंति मनुष्याणां सर्वपापानि लीलया ॥
तीर्थानां परमं तीर्थं धर्मारण्यं प्रचक्षते ॥३०॥
ब्रह्मविष्णुशिवाद्यैर्यदादौ संस्थापितं पुरा ॥
अरण्यानां च सर्वेषां तीर्थानां च विशेषतः ॥३१॥
धर्मारण्यात्परं नास्ति भुक्तिमुक्तिप्रदायकम् ॥
स्वर्गे देवाः प्रशंसंति धर्मारण्यनिवासिनः ॥३२॥
ते पुण्यास्ते पुण्यकृतो ये वसंति कलौ नराः ॥
धर्मारण्ये रामदेव सर्वकिल्बिषनाशने ॥३३॥
ब्रह्महत्यादिपापानि सर्वस्तेयकृतानि च ॥
परदारप्रसंगादि अभक्ष्यभक्षणादि वै ॥३४॥
अगम्यागमना यानि अस्पर्शस्पर्शनादि च ॥
भस्मीभवंति लोकानां धर्मारण्यावगाहनात् ॥३५॥
ब्रह्मघ्नश्च कृतघ्नश्च बालघ्नोऽनृतभाषणः ॥
स्त्रीगोघ्नश्चैव ग्रामघ्रो धर्मारण्ये विमुच्यते ॥३६॥
नातः परं पावनं हि पापिनां प्राणिनां भुवि ॥
स्वर्ग्यं यशस्यमायुष्यं वांछितार्थप्रदं शुभम् ॥३७॥
कामिनां कामदं क्षेत्रं यतीनां मुक्तिदायकम् ॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं युगेयुगे ॥३८॥
॥ ब्रह्मोवाच ॥
वसिष्ठवचनं श्रुत्वा रामो धर्मभृतां वरः ॥
परं हर्षमनुप्राप्य हृदयानंदकारकम् ॥३९॥
प्रोत्फुल्लहृदयो रामो रोमाचिंततनूरुहः ॥
गमनाय मतिं चक्रे धर्मारण्ये शुभव्रतः ॥४०॥
यस्मिन्कीटपतंगादिमानुषाः पशवस्तथा ॥
त्रिरात्रसेवनेनैव मुच्यन्ते सर्वपातकैः ॥४१॥
कुशस्थली यथा काशी शूलपाणिश्च भैरवः ॥
यथा वै मुक्तिदो राम धर्मारण्यं तथोत्तमम् ॥४२॥
ततो रामो महेष्वासो मुदा परमया युतः ॥
प्रस्थितस्तीर्थयात्रायां सीतया भ्रातृभिः सह ॥४३॥
अनुजग्मुस्तदा रामं हनुमांश्च कपीश्वरः ॥
कौशल्या च सुमित्रा च कैकेयी च मुदान्विता ॥४४॥
लक्ष्मणो लक्षणोपेतो भरतश्च महामतिः ॥
शत्रुघ्नः सैन्यसहितोप्ययोध्यावासिनस्तथा ॥४५॥
प्रकृतयो नरव्याघ्र धर्मारण्ये विनिर्ययुः ॥
अनुजग्मुस्तदा रामं मुदा परमया युताः ॥४६॥
तीर्थयात्राविधिं कर्तुं गृहात्प्रचलितो नृपः ॥
वसिष्ठं स्वकुलाचार्यमिदमाह महीपते ॥४७॥
॥ श्रीराम उवाच ॥
एतदाश्चर्यमतुलं किमादि द्वारकाभवत् ॥
कियत्कालसमुत्पन्ना वसिष्ठेदं वदस्व मे ॥४८॥
॥ वसिष्ठ उवाच ॥
न जानामि महाराज कियत्कालादभूदिदम् ॥
लोमशो जांबवांश्चैव जानातीति च कारणम् ॥४९॥
शरीरे यत्कृतं पापं नानाजन्मांतरेष्वपि ॥
प्रायश्चितं हि सर्वेषामेतत्क्षेत्र परं स्मृतम् ॥५०॥
श्रुत्वेति वचनं तस्य रामं ज्ञानवतां वरः ॥
गन्तुं कृतमतिस्तीर्थं यात्राविधिमथाचरत् ॥५१॥
वसिष्ठं चाग्रतः कृत्वा महामांडलिकैर्नृपैः ॥
पुनश्चरविधिं कृत्वा प्रस्थितश्चोत्तरां दिशम् ॥५२॥
वसिष्ठं चाग्रतः कृत्वा प्रतस्थे पश्चिमां दिशम् ॥
ग्रामाद्ग्राममतिक्रम्य देशाद्देशं वनाद्वनम् ॥५३॥
विमुच्य निर्ययौ रामः ससैन्यः सपरिच्छदः ॥
गजवाजिसहस्रौघै रथैर्यानैश्च कोटिभिः॥ ५४॥
शिबिकाभिश्चासंख्याभिः प्रययौ राघवस्तदा ॥
गजारूढः प्रपश्यंश्च देशान्विविधसौहृदान् ॥५५॥
श्वेतातपत्रं विधृत्य चामरेण शुभेन च ॥
वीजितश्च जनौघेन रामस्तत्र समभ्यगात् ॥५६॥
वादित्राणां स्वनैघोरैर्नृत्यगीतपुरःसरैः ॥
स्तूयमानोपि सूतैश्च ययौ रामो मुदान्वितः ॥५७॥
दशमेऽहनि संप्राप्तं धर्मारण्यमनुत्तमम् ॥
अदूरे हि ततो रामो दृष्ट्वा मांडलिकं पुरम् ॥५८॥
तत्र स्थित्वा ससैन्यस्तु उवास निशि तां पुरीम् ॥
श्रुत्वा तु निर्जनं क्षेत्रमुद्वसं च भयानकम् ॥५९॥
व्याघ्रसिंहाकुलं तत्र यक्षराक्षससेवितम् ॥
श्रुत्वा जनमुखाद्रामो धर्मारण्यमरण्यकम् ॥
तच्छ्रुत्वा रामदेवस्तु न चिंता क्रियतामिति ॥६०॥
तत्रस्थान्वणिजः शूरान्दक्षान्स्वव्यवसायके ॥६१॥
समर्थान्हि महाकायान्महाबलपराक्रमान् ॥
समाहूय तदा काले वाक्यमेतदथाब्रवीत् ॥६२॥
शिबिकां सुसुवणां मे शीघ्रं वाहयताचिरम् ॥
यथा क्षणेन चैकेन धर्मरण्यं व्रजाम्यहम् ॥६३॥
तत्र स्नात्वा च पीत्वा च सर्वपापात्प्रमुच्यते ॥
एवं ते वणिजः सर्वै रामेण प्रेरितास्तदा ॥६४॥
तथेत्युक्त्वा च ते सर्वे ऊहुस्तच्छिबिकां तदा ॥
क्षेत्रमध्ये यदा रामः प्रविष्टः सहसैनिकः ॥६५॥
तद्यानस्य गतिर्मंदा संजाता किल भारत ॥
मंदशब्दानि वाद्यानि मातंगा मंदगामिनः ॥६६॥
हयाश्च तादृशा जाता रामो विस्मय मागतः ॥
गुरुं पप्रच्छ विनयाद्वशिष्ठं मुनिपुंगवम् ॥६७॥
किमेतन्मंदगतयश्चित्रं हृदि मुनीश्वर ॥
त्रिकालज्ञो मुनिः प्राह धर्मक्षेत्रमुपागतम् ॥६८॥
तीर्थे पुरातने राम पादचारेण गम्यते ॥
एवं कृते ततः पश्चात्सैन्यसौख्यं भविष्यति ॥६९॥
पादचारी ततौ रामः सैन्येन सह संयुतः ॥
मधुवासनके ग्रामे प्राप्तः परमभावनः ॥७०॥
गुरुणा चोक्तमार्गेण मातॄणां पूजनं कृतम् ॥
नानोपहारैर्विविधैः प्रतिष्ठाविधिपूर्वकम् ॥७३॥
ततो रामो हरिक्षेत्रं सुवर्णादक्षिणे तटे ॥
निरीक्ष्य यज्ञयोग्याश्च भूमीर्वै बहुशस्तथा ॥७२॥
कृतकृत्यं तदात्मानं मेने रामो रघूद्वहः ॥
धर्मस्थानं निरीक्ष्याथ सुवर्णाक्षोत्तरे तटे ॥७३॥
सैन्यसंघं समुत्तीर्य्य बभ्राम क्षेत्रमध्यतः ॥
तत्र तीर्थेषु सर्वेषु देवतायतनेषु च ॥७४॥
यथोक्तानि च कर्माणि रामश्चक्रे विधानतः ॥
श्राद्धानि विधिवच्चक्रे श्रद्धया परया युतः ॥७५॥
स्थापयामास रामेशं तथा कामेश्वरं पुनः ॥
स्थानाद्वायुप्रदेशे तु सुवर्णो भयतस्तटे ॥७६॥
कृत्वैवं कृतकृत्योऽभूद्रामो दशरथात्मजः ॥
कृत्वा सर्वविधिं चैव सभायां समुपाविशत् ॥७७॥
तां निशां स नदीतीरे सुष्वाप रघुनंदनः ॥
ततोऽर्द्धरात्रे संजाते रामो राजीवलोचनः ॥७८॥
जागृतस्तु तदा काल एकाकी धर्मवत्सलः ॥
अश्रौषीच्च क्षणे तस्मिन्रामो नारीविरोदनम् ॥७९॥
निशायां करुणैर्वाक्यै रुदंतीं कुररीमिव ॥
चारैर्विलोकयामास रामस्तामतिसंभ्रमात् ॥८०॥
दृष्ट्वातिविह्वलां नारीं क्रंदन्तीं करुणैः स्वरैः ॥
पृष्टा सा दुःखिता नारी रामदूतैस्तदानघ ॥८१॥
॥ दूता ऊचुः ॥
कासि त्वं सुभगे नारि देवी वा दानवी नु किम् ॥
केन वा त्रासितासि त्वं मुष्टं केन धनं तव ॥८२॥
विकला दारुणाञ्छब्दानुद्गिरंती मुहुर्मुहुः ॥
कथयस्व यथातथ्यं रामो राजाभिपृच्छति॥ ८३॥
तयोक्तं स्वामिनं दूताः प्रेषयध्वं ममांतिकम् ॥
यथाहं मानसं दुःखं शांत्यै तस्मै निवेदये ॥८४॥
तथेत्युक्त्वा ततो दूता राममागत्य चाब्रुवन् ॥८५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये दूतागमनंनामैकत्रिंशो ऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : November 20, 2024
TOP