धर्मारण्य खण्डः - अध्याय १५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
न पश्यंति तदा शीर्षं ब्रह्माद्यास्तु सुरास्तदा ॥
किं कुर्म इति हेत्युक्त्वा ज्ञानिनस्ते व्यचिन्तयन् ॥१॥
उवाच विश्वकर्माणं तदा ब्रह्मा सुरान्वितः ॥२॥
॥ ब्रह्मोवाच ॥
विश्वकर्मस्त्वमेवासि कार्यकर्ता सदा विभो ॥
शीघ्रमेव कुरु त्वं वै वक्त्रं सांद्रं च धन्विनः ॥३॥
नमस्कृत्य तदा तस्मै स्तुतोऽसौ देववर्द्धकिः ॥
उवाच परया भक्त्या ब्रह्माणं कमलोद्भवम् ॥३॥
यज्ञकार्यं निवृत्याशु वदंति विविधाः सुराः ॥४॥
यज्ञभागविहीनं मां किं पुनर्वच्मि ते ऽग्रतः ॥
यज्ञभागमहं देव लभेयैवं सुरैः सह ॥५॥
॥ ब्रह्मोवाच ॥
दास्यामि सर्वयज्ञेषु विभागं सुरवर्द्धके ॥
सोमे त्वं प्रथमं वीर पूज्यसे श्रुतिकोविदैः ॥६॥
तद्विष्णोश्च शिरस्तावत्संधत्स्वामरवर्द्धक ॥
विश्वकर्माब्रवीद्देवानानयध्वं शिरस्त्विति ॥७॥
तन्नास्तीति सुराः सर्वे वदंति नृपसत्तम ॥
मध्याह्ने तु समुद्भूते रथस्थो दिवि चांशुमान् ॥८॥
दृष्टं तदा सुरैः सर्वै रथादश्वमथानयन् ॥
छित्त्वा शीर्षं महीपाल कबंधाद्वाजिनो हरेः ॥९॥
कबंधे योजयामास विश्वकर्मातिचातुरः ॥
दृष्ट्वा तं देवदेवेशं सुराः स्तुतिमकुर्वत ॥१०॥
॥ देवा ऊचुः ॥
नमस्तेऽस्तु जगद्बीज नमस्ते कमलापते ॥
नमस्तेऽस्तु सुरेशान नमस्ते कमलेक्षण ॥११॥
त्वं स्थितिः सर्वभूतानां त्वमेव शरणं सताम् ॥
त्वं हंता सर्वदुष्टानां हयग्रीव नमोऽस्तु ते ॥१२॥
त्वमोंकारो वषट्कारः स्वाहा स्वधा चतुर्विधा ॥
आद्यस्त्वं च सुरेशान त्वमेव शरणं सदा ॥१३॥
यज्ञो यज्ञपतिर्यज्वा द्रव्यं होता हुतस्तथा ॥
त्वदर्थं हूयते देव त्वमेव शरणं सखा ॥१४॥
कालः करालरूपस्त्वं त्वं वार्क्कः शीतदीधितिः ॥
त्वमग्निर्वरुणश्चैव त्वं च कालक्षयंकरः ॥१५॥
गुणत्रयं त्वमेवेह गुणहीनस्त्वमेव हि ॥
गुणानामालयस्त्वं च गोप्ता सर्वेषु जंतुषु ॥१६॥
स्त्रीपुंसोश्च द्विधा त्वं च पशुपक्ष्यादिमानवैः ॥
चतुर्विधं कुलं त्वं हि चतुराशीतिलक्षणः ॥१७॥
दिनांतश्चैव पक्षांतो मासांतो हायनं युगम् ॥
कल्पांतश्च महांतश्च कालांतस्त्वं च वै हरे ॥१८॥
एवंविधैर्महादिव्यैः स्तूयमानः सुरैर्नृप ॥
संतुष्टः प्राह सर्वेषां देवानां पुरतः प्रभुः ॥१९॥
॥ श्रीभगवानुवाच ॥
किमर्थमिह संप्राप्ताः सर्वे देवगणा भुवि ॥
किमेतत्कारणं देवाः कि नु दैत्यप्रपीडिताः ॥२०॥
॥ देवा ऊचुः ॥
न दैत्यस्य भयं जातं यज्ञ कर्मोत्सुका वयम् ॥
त्वद्दर्शनपराः सर्वे पश्यामो वै दिशो दश ॥२१॥
त्वन्मायामोहिताः सर्वे व्यग्रचित्ता भयातुराः ॥
योगारूढस्वरूपं च दृष्टं तेऽस्माभिरुत्तमम्॥ २२॥
वम्री च नोदितास्माभिर्जागराय तवेश्वर ॥
ततश्चापूर्वमभवच्छिरश्छिन्नं बभूव ते ॥२३॥
सूर्याश्वशीर्षमानीय विश्व कर्मातिचातुरः ॥
समधत्त शिरो विष्णो हयग्रीवोऽस्यतः प्रभो ॥२४॥
॥ विष्णुरुवाच ॥
तुष्टोऽहं नाकिनः सर्वे ददाम्रि वरमीप्सितम् ॥
हयग्रीवोऽस्म्यहं जातो देवदेवो जगत्पतिः ॥२५॥
न रौद्रं न विरूपं च सुरैरपि च सेवितम् ॥
जातोऽहं वरदो देवा हयाननेति तोषितः ॥२६॥
॥ व्यास उवाच ॥
कृते सत्रे ततो वेधा धीमान्सन्तुष्टचेतसा ॥
यज्ञभागं ततो दत्त्वा वम्रीभ्यो विश्वकर्मणे ॥२७॥
यज्ञांते च सुरश्रेष्ठं नमस्कृत्य दिवं ययौ ॥
एतच्च कारणं विद्धि हयाननो यतो हरिः ॥२८॥
॥ युधिष्ठिर उवाच ॥
येनाक्रांता मही सर्वा क्रमेणैकेन तत्त्वतः ॥
विवरे विवरे रोम्णां वर्तंते च पृथक्पृथक् ॥२९॥
ब्रह्मांडानि सहस्राणि दृश्यंते च महाद्युते ॥
न वेत्ति वेदो यत्पारं शीर्षघातो हि वै कथम् ॥३०॥
॥ व्यास उवाच ॥
शृणु त्वं पांडवश्रेष्ठ कथां पौराणिकीं शुभाम् ॥
ईश्वरस्य चरित्रं हि नैव वेत्ति चराचरे ॥३१॥
एकदा ब्रह्मसभायां गता देवाः सवासवाः॥
भूर्लोकाद्याश्च सर्वे हि स्थावराणि चराणि च॥३२॥
देवा ब्रह्मर्षयः सर्वे नमस्कर्तुं पितामहम् ॥
विष्णुरप्यागतस्तत्र सभायां मंत्रकारणात् ॥३३॥
ब्रह्मा चापि विगर्विष्ठ उवाचेदं वचस्तदा ॥
भोभो देवाः शृणुध्वं कस्त्रयाणां कारणं महत् ॥३४॥
सत्यं ब्रुवंतु वै देवा ब्रह्मेशविष्णुमध्यतः ॥
तां वाचं च समाकर्ण्य देवा विस्मयमागताः॥३५॥
ऊचुश्चैव ततो देवा न जानीमो वयं सुराः ॥
ब्रह्मपत्नी तदोवाच विष्णुं प्रति सुरेश्वरम् ॥
त्रयाणामपि देवानां महांतं च वदस्व मे ॥३६॥
॥ विष्णुरुवाच ॥
विष्णुमायाबलेनैव मोहितं भुवनत्रयम् ॥
ततो ब्रह्मोवाच चेदं न त्वं जानासि भो विभोः ॥३७॥
नैव मुह्यति ते मायाबलेन नैवमेव च ॥
गर्वहिंसापरो देवो जगद्भर्ता जगत्प्रभुः ॥३८॥
ज्येष्ठं त्वां न विदुः सर्वे विष्णुमायावृताः खिलाः ॥
ततो ब्रह्मा स रोषेण क्रुद्धः प्रस्फुरिताननः ॥३९॥
उवाच वचनं कोपाद्धे विष्णो शृणु मे वचः ॥
येन वक्त्रेण सभायां वचनं समुदीरितम् ॥४०॥
तच्छीर्षं पततादाशु चाल्पकालेन वै पुनः ॥
ततो हाहाकृतं सर्वं सेंद्राः सर्षिपुरोगमाः ॥४१॥
ब्रह्माणं क्षमयामासुर्विष्णुं प्रति सुरोत्तमाः ॥
विष्णुश्च तद्वचः श्रुत्वा सत्यंसत्यं भविष्यति ॥४२॥
ततो विष्णुर्महातेजास्तीर्थस्योत्पादनेन च ॥
तपस्तेपे तु वै तत्र धर्मारण्ये सुरेश्वरः ॥
अश्वशीर्ष मुखं दृष्ट्वा हयग्रीवो जनार्द्दनः ॥४३॥
तपस्तेपे महाभाग विधिना सह भारत ॥
न शक्यं केनचित्कर्त्तुमात्मनात्मैव तुष्टवान् ॥४४॥
ब्रह्मापि तपसा युक्तस्तेपे वर्षशतत्रयम् ॥
तिष्ठन्नेव पुरो विष्णोर्विष्णुमायाविमोहितः ॥४५॥
यज्ञार्थमवदत्तुष्टो देवदेवो जगत्पतिः ॥
ब्रह्मंस्ते मुक्तताद्यास्ति मम मायाप्यदुःसहा ॥४६॥
ततो लब्धवरो ब्रह्मा हृष्टचित्तो जनार्द्दनः ॥
उवाच मधुरां वाचं सर्वेषां हितकारणात् ॥४७॥
अत्राभवन्महाक्षेत्रं पुण्यं पापप्रणाशनम् ॥
विधिविष्णुमयं चैतद्भवत्वेतन्न संशयः ॥४८॥
तीर्थस्य महिमा राजन्हयशीर्षस्तदा हरिः ॥
शुभाननो हि संजातः पूर्वेणैवा ननेन तु ॥४९॥
कंदर्पकोटिलावण्यो जातः कृष्णस्तदा नृप ॥
ब्रह्मापि तपसा युक्तो दिव्यं वर्षशतत्रयम् ॥५०॥
सावित्र्या च कृतं यत्र विष्णुमाया न बाधते ॥
मायया तु कृतं शीर्षं पंचमं शार्दुलस्य वा ॥५१॥
धर्मारण्ये कृतं रम्यं हरेण च्छेदितं पुरा ॥
तस्मै दत्त्वा वरं विष्णुर्जगामादर्शनं ततः ॥५२॥
स्थापयित्वा विधिस्तत्र तीर्थं चैव त्रिलोचनम् ॥
मुक्तेशं नाम देवस्य मोक्षतीर्थमरिंदम ॥५३॥
गतः सोऽपि सुरश्रेष्ठः स्वस्थानं सुरसेवितम् ॥
तत्र प्रेता दिवं यांति तर्पणेन प्रतर्पिताः ॥५४॥
अश्वमेधफलं स्नाने पाने गोदानजं फलम् ॥
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ॥५५॥
स्नानार्थमत्रागच्छंति देवताः पितरस्तथा ॥
कार्त्तिक्यां कृत्तिकायोगे मुक्तेशं पूजयेत्तु यः ॥५६॥
स्नात्वा देवसरे रम्ये नत्वा देवं जनार्द्दनम् ॥
यः करोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥५७॥
भुक्त्वा भोगा न्यथाकामं विष्णुलोकं स गच्छति ॥
अपुत्रा काकवंध्या च मृतवत्सा मृतप्रजा ॥५८॥
एकांबरेण सुस्नातौ पतिपत्न्यौ यथाविधि ॥
तद्दोषं नाशयेन्नूनं प्रजाप्तिप्रतिबन्धकम् ॥५९॥
मोक्षेश्वरप्रसादेन पुत्रपौत्रादि वर्द्धयेत् ॥
दद्याद्वैकेन चित्तेन फलानि सत्यसंयुता ॥६०॥
निधाय वंशपात्रेऽपि नारी दोषात्प्रमुच्यते ॥
प्राप्नुवंति च देवाश्च अग्निष्टोमफलं नृप ॥६१॥
वेधा हरिर्हरश्चैव तप्यंते परमं तपः ॥
धर्मारण्ये त्रिसंध्यं च स्नात्वा देवसरस्यथ ॥६२॥
तत्र मोक्षेश्वरः शंभुः स्थापितो वै ततः सुरैः ॥
तत्र सांगं जपं कृत्वा न भूयः स्तनपो भवेत् ॥६३॥
एवं क्षेत्रं महाराज प्रसिद्धं भुवनत्रये ॥
यस्तत्र कुरुते श्राद्धं पितॄणां श्रद्धयान्वितः ॥६४॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥
देवसरो महारम्यं नानापुष्पैः समन्वितम् ॥
श्यामं सकलकल्हारैर्विविधैर्जलजंतुभिः ॥६५॥
ब्रह्मविष्णुमहेशाद्यैः सेवितं सुरमानुषैः ॥
सिद्धैर्यक्षैश्च मुनिभिः सेवितं सर्वतः शुभम् ॥६६॥
॥ युधिष्ठिर उवाच ॥
कीदृशं तत्सरः ख्यातं तस्मि न्स्थाने द्विजोत्तम ॥
तस्य रूपं प्रकारं च कथयस्व यथातथम् ॥६७॥
॥ व्यास उवाच ॥
साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ॥
यस्य संकीर्तनान्नूनं सर्वपापैः प्रमुच्यते ॥६८॥
अतिस्वछतरं शीतं गंगोदकसमप्रभम् ॥
पवित्रं मधुरं स्वादु जलं तस्य नृपोत्तम ॥६९॥
महाविशालं गंभीरं देवखातं मनोरमम् ॥
लहर्यादिभिर्गंभीरः फेनावर्तसमाकुलम् ॥७०॥
झषमंडूककमठैर्मकरैश्च समाकुलम् ॥
शंखशुक्त्यादि भिर्युक्तं राजहंसैः सुशोभितम् ॥७१॥
वटप्लक्षैः समायुक्तमश्वत्थाम्रैश्च वेष्टितम् ॥
चक्रवाकसमोपतं बकसारसटिट्टिभैः ॥७२॥
कमनीय प्रगन्धाच्छच्छत्रपत्रैः सुशोभितम् ॥
सेव्यमानं द्विजैः सर्वैः सारसाद्यैः सुशोभितम् ॥७३॥
सदेवैर्मुनिभिश्चैव विप्रैर्मत्यैश्च भूमिप ॥
सेवितं दुःखहं चैव सर्वपापप्रणाशनम् ॥७४॥
अनादिनिधनोदंतं सेवितं सिद्धमंडलैः ॥
स्नानादिभिः सर्वदैव तत्सरो नृपसत्तम ॥७५॥
विधिना कुरुते यस्तु नीलोत्सर्गं च तत्तटे ॥
प्रेता नैव कुले तस्य यावदिंद्राश्चतुर्दश ॥७६॥
कन्यादानं च ये कुर्युर्विधिना तत्र भूपते ॥
ते तिष्ठन्ति ब्रह्मलोके यावदाभूतसंप्लवम् ॥७७॥
महिषीं गृहदासीं च सुरभीं सुतसंयुताम् ॥
हेम विद्यां तथा भूमिं रथांश्च गजवाससी ॥७८॥
ददाति श्रद्धया तत्र सोऽक्षयं स्वर्गमश्नुते ॥
देवखातस्य माहात्म्यं यः पठेच्छिवसन्निधौ ॥
दीर्घमायुस्तथा सौख्यं लभते नात्र संशयः ॥७९॥
यः शृणोति नरो भक्त्या नारी वा त्विदमद्भुतम् ॥
कुले तस्य भवेच्छ्रेयः कल्पांतेऽपि युधिष्ठिर ॥८०॥
एतत्सर्वं मयाख्यातं हयग्रीवस्य कारणम् ॥
प्रभास्तस्य तीर्थस्य सर्वपापायनुत्तये ॥८१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्य माहात्म्ये हयग्रीवस्याख्यानवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥छ ॥
N/A
References : N/A
Last Updated : November 19, 2024
TOP