धर्मारण्य खण्डः - अध्याय ५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
अतः परं प्रवक्ष्यामि धर्मारण्यनिवासिना ॥
यत्कार्यं पुरुषेणेह गार्हस्थ्यमनुतिष्ठता ॥१॥
धर्मारण्येषु ये जाता ब्राह्मणाः शुद्धवंशजा ॥
अष्टादशसहस्राश्च काजेशैश्च विनिर्मिताः ॥२॥
सदाचाराः पवित्राश्च ब्राह्मणा ब्रह्मवित्तमाः ॥
तेषां दर्शनमात्रेण महापापैर्विमुच्यते ॥३॥
॥ युधिष्ठिर उवाच ॥
पाराशर्य समाख्याहि सदाचारं च मे प्रभो ॥
आचाराद्धर्ममाप्नोति आचाराल्लभते फलम्॥
आचाराच्छ्रियमाप्नोति तदाचारं वदस्व मे ॥४॥
॥ व्यास उवाच ॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ॥
क्रमेण धार्मिकास्त्वेत एतेभ्यो धार्मिकाः सुराः ॥५॥
सहस्रभागात्प्रथमे द्वितीयानुक्रमास्तथा ॥
सर्व एते महाभागाः पापान्मुक्तिसमाश्रयाः ॥६॥
चतुर्णामपि भूतानां प्राणिनोतीव चोत्तमाः ॥
प्राणिकेभ्योपि मुनिश्रेष्ठाः सर्वे बुद्ध्युपजीविनः ॥७॥
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्य श्रेष्ठास्तु वाडवाः ॥
विप्रेभ्योऽपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ॥८॥
कृतधीभ्योऽपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ॥
न तेभ्योऽभ्यधिकः कश्चित्त्रिषु लोकेषु भारत ॥९॥
अन्योन्यपूजकास्ते वै तपो विद्याविशेषतः ॥
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ॥१०॥
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ॥
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ॥११॥
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ॥
विद्वेषरागरहिता अनुतिष्ठन्ति यं मुने ॥१२॥
सद्धि यस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥
लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः ॥१३॥
श्रदालुरनसूयुश्च नरो जीवेत्समाः शतम् ॥
श्रुतिस्मृतिभ्यामुदितं स्वेषुस्वेषु च कर्मसु ॥१४॥
सदाचारं निषेवेत धर्ममूलमतन्द्रितः ॥
दुराचाररतो लोके गर्हणीयः पुमा न्भवेत् ॥१५॥
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ॥
त्याज्यं कर्म पराधीनं कार्यमात्मवशं सदा ॥१६॥
दुःखी यतः पराधीनः सदैवात्मवशः सुखी ॥
यस्मिन्कर्मण्यंतरात्मा क्रियमाणे प्रसीदति ॥१७॥
तदेव कर्म कर्त्तव्यं विपरीतं न च क्वचित् ॥
प्रथमं धर्म्मसर्वस्वं प्रोक्तं यन्नियमा यमाः ॥१६॥
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ॥
सत्यं क्षमार्तवं ध्यानमानृशंस्यमहिंसनम् ॥१९॥
दमः प्रसादो माधुर्यं मृदुतेति यमा दश ॥
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ॥२०॥
उपोषणोपस्थदंडो दशैते नियमाः स्मृताः ॥
कामं क्रोधं दमं मोहं मात्सर्यं लोभमेव च ॥२१॥
अमून्षड्वैरिणो जित्वा सर्वत्र विजयी भवेत् ॥
शनैः संचिनुयाद्धर्मं वल्मीकं शृंगवान्यथा ॥२२॥
परपीडामकुर्वाणः पर लोकसहायिनम् ॥
धर्म एव सहायी स्यादमुत्र परिरक्षितः ॥२३॥
पितृमातृसुतभ्रातृयोषिद्बंधुजनाधिकः ॥
जायते चैकलः प्राणी म्रियते च तथै कलः ॥२४॥
एकलः सुकृतं भुंक्ते भुंक्ते दुष्कृतमेकलः ॥
देहे पंचत्वमापन्ने त्यक्त्वैकं काष्ठलोष्टवत् ॥२५॥
बांधवा विमुखा यांति धर्मो यांतमनु व्रजेत् ॥
अतः संचिनुयाद्धर्म्ममत्राऽमुत्र सहायिनम् ॥२६॥
धर्मं सहायिनं लब्ध्वा संतरेद्दुस्तरं तमः ॥
संबंधानाचारेन्नित्यमुत्तमैरुत्तमैः सुधीः ॥२७॥
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत् ॥
उत्तमानुत्तमानेव गच्छेद्धीनांश्च वर्जयेत् ॥
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥२८॥
अनध्ययनशीलं च सदाचारविलंघिनम् ॥
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ॥२९॥
अतोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः ॥
तीर्थान्यप्यभिलष्यंति सदाचारिसमागमम् ॥३०॥
रजनीप्रांतयामार्द्धं ब्राह्मः समय उच्यते ॥
स्वहितं चिंतयेत्प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा ॥३१॥
गजास्यं संस्मरेदादौ तत ईशं सहांबया ॥
श्रीरंगं श्रीसमेतं तु ब्रह्माणं कमलोद्भवम् ॥३२॥
इंद्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ॥
गंगायाः सरितः सर्वाः श्रीशैलायखिलान्गिरीन् ॥३३॥
क्षीरोदादीन्समुद्रांश्च मानसादिसरांसि च ॥
वनानि नंदनादीनि धेनूः कामदुघादयः ॥३४॥
कल्पवृक्षादिवृक्षांश्च धातून्कांचनमुख्यतः ॥
दिव्यस्त्रीरुर्वशीमुख्याः प्रह्रादावद्यान्हरेः प्रियान् ॥३५॥
जननीचरणौ स्मृत्वा सर्वतीर्थोक्त्त मोत्तमौ ॥
पितरं च गुरूंश्चापि हदि ध्यात्वा प्रसन्नधीः ॥३६॥
ततश्चावश्यकं कर्त्तुं नैर्ऋतीं दिशमाव्रजेत् ॥
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुण म् ॥३७॥
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ॥
कर्णोपवीत उदग्वक्त्रो दिवसे संध्ययोरपि ॥३८॥
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ॥
न तिष्ठन्नाशु नो विप्र गोवन्ह्यनिलसंमुखः ॥३९॥
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ॥
नालोकयेद्दिशो भागञ्ज्यो तिश्चक्रं नभो मलम् ॥४०॥
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ॥
अथो मृदं समादद्याज्जंतुकर्क्करवर्जिताम् ॥४१॥
विहाय मूषको त्खातां चोच्छिष्टां केशसंकुलाम् ॥
गुह्ये दद्यान्मृदं चैकां प्रक्षाल्य चांबुना ततः ॥४२॥
पुनर्वामकरेणेति पंचधा क्षालयेद्गुदम् ॥
एकैक पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ॥४३॥
इत्थं शौचं गृही कुर्याद्गंधलेपक्षयावधि ॥
क्रमाद्वैगुण्यतः कुर्याद्ब्रह्मचर्यादिषु त्रिषु ॥४४॥
दिवाविहितशौचाच्च रात्रावर्द्धं समाचरेत् ॥
परग्रामे तदर्धं च पथि तस्यार्धमेव च ॥४५॥
तदर्धं रोगिणां चापि सुस्थे न्यूनं न कार येत् ॥
अपि सर्वनदीतोयैर्मृत्कूटैश्चाप्यगोपमैः ॥४६॥
आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ॥
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥४७॥
सर्वाश्चाहुतयोऽप्येवं ग्रासाश्चांद्रायणेपि च ॥
प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि ॥४८॥
उपस्पृशेद्विहीनाभिस्तुषांगारास्थिभस्मभिः ॥
अतिस्वच्छाभिरद्भिश्च यावद्धृद्गाभिरत्वरः ॥४९॥
ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूताभिराचमेत् ॥
कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः ॥५०॥
स्त्रीशूद्रावाथ संस्पर्शमात्रेणापि विशुध्यतः ॥
शिरः शब्दं सकंठं वा जले मुक्तशिखोऽपि वा ॥५१॥
अक्षालितपदद्वद्व आचांतोऽप्यशुचिर्म्मतः ॥
त्रिः पीत्वांबु विशुद्ध्यर्थं ततः खानि विशोधयेत् ॥५२॥
अंगुष्ठमूलदेशेन ह्यधरोष्ठौ परि मृजेत् ॥
स्पृष्ट्वा जलेन हृदयं समस्ताभिः शिरः स्पृशेत् ॥५३॥
अंगुल्यग्रैस्तथा स्कन्धौ सांबु सर्व्वत्र संस्पृशेत् ॥
आचांतः पुनराचामेत्कृत्वा रथ्योपसर्पणम्॥ ५४॥
स्नात्वा भुक्त्वा पयः पीत्वा प्रारंभे शुभकर्मणाम् ॥
सुप्त्वा वासः परीधाय दृष्ट्वा तथाप्यमंगलम् ॥५५॥
प्रमादादशुचि स्मृत्वा द्विराचांतः शुचिर्भवेत् ॥
दंतधावनं प्रकुर्वीत यथोक्त धर्मशास्त्रतः ॥
आचांतोऽप्यशुचिर्यस्मादकृत्वा दंतधावनम् ॥५६॥
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ॥
दंतानां काष्ठसंयोगो दहेदासप्तमं कुलम् ॥५७॥
अलाभे दंतकाष्ठानां निषिद्धे वाथ वासरे ॥
गंडूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥५८॥
कनिष्ठाग्रपरीमाणं सत्वचं निर्व्रणारुजम् ॥
द्वादशांगुलमानं च सार्द्रं स्याद्दंतधावनम् ॥५९॥
एकेकांगुलमानं तच्चर्वयेद्दंतधावनम् ॥
प्रातः स्नानं चरित्वा च शुद्ध्यै तीर्थे विशेषतः ॥६०॥
प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा॥
यन्मलं नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ॥६१॥
उत्साहमेधासौभाग्यरूपसंपत्प्रवर्द्धकम् ॥
प्राजापत्यसमं प्राहुस्तन्महाघविनाशकृत् ॥६२॥
प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ॥
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥६३॥
नोपसर्पंति वै दुष्टाः प्रातस्नायिजनं क्वचित् ॥
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ॥६४॥
प्रसंगतः स्नानविधिं प्रवक्ष्यामि नृपोत्तमाः ॥
विधिस्नानं यतः प्राहुः स्नाना च्छतगुणोत्तरम् ॥६५॥
विशुद्धां मृदमादाय बर्हिषस्तिलगोमयम् ॥
शुचौ देशे परिस्थाप्य ह्याचम्य स्नानमाचरेत् ॥६६॥
उपग्रही बद्ध शिखो जलमध्ये समाविशेत् ॥
स्वशाखोक्तविधानेन स्नानं कुर्याद्यथाविधि ॥६७॥
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ॥
आचम्य च ततः कुर्यात्प्रातःसंध्यां कुशान्वितः ॥६८॥
प्राणायामांश्चरन्विप्रो नियम्य मानसं दृढम् ॥
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥६९॥
दश द्वादशसंख्या वा प्राणायामाः कृता यदि ॥
नियम्य मानसं तेन तदा तप्तं महत्तपः ॥७०॥
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ॥
अपि भ्रूणहनं मासात्पुनंत्यहरहः कृताः ॥७१॥
यथा पार्थिवधातूनां दह्यते धमनान्मलाः ॥
तथेंद्रियैः कृता दोषा ज्वाल्यंते प्राणसंयमात्॥ ७२॥
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥
गायत्र्यास्तु परं नास्ति पावनं च नृपोत्तम ॥७३॥
कर्मणा मनसा वाचा यद्रात्रौ कुरुते त्वघम्॥
उत्तिष्ठन्पूर्वसंध्यायां प्राणायामैर्विशोधयेत् ॥७४॥
यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ॥
आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ॥
पश्चिमां तु समासीनो मलं हंति दिवाकृतम् ॥७५॥
नोपतिष्ठेत्तु यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ॥
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥७६॥
अपां समीपमासाद्य नित्यकर्म समाचरेत् ॥
तत आचमनं कुर्याद्यथाविध्यनु पूर्वशः ॥७७॥
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ॥
भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ॥७८॥
मस्तके च तथाकाशं भूमौ च नवधा क्षिपेत् ॥
भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ॥
शिरस्येव शिरःशब्दो मार्जनं तैरुदाहृतम् ॥७९॥
वारुणादपि चाग्नेयाद्वायव्यादपि चेंद्रतः ॥
मंत्रस्थानादपि परं ब्राह्मं स्नानमिदं परम् ॥
ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यंतरं शुचिः ॥८०॥
सर्वत्र चार्हतामेति देवपूजादिकर्मणि ॥
नक्तंदिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ॥८१॥
शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥
अंतःकरणशुद्धांश्च तान्विभूतिः पवित्रयेत् ॥८२॥
किं पावनाः प्रकीर्त्यंते रासभा भस्मधूसराः ॥
स स्नातः सर्वतीर्थेषु मलैः सर्वैर्विवर्जितः ॥८३॥
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥
तदेव निर्मलं चेतो यथा स्यात्तन्मुने शृणु ॥८४॥
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ॥
तस्माच्चेतो विशुद्ध्यर्थं काशीनाथं समाश्रयेत्॥८५॥
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति॥
द्रुपदांतं ततो जप्त्वा जलमादाय पाणिना॥
॥ ८६॥कुयादृतं च मंत्रेण विधिज्ञस्त्वघमर्षणम् ॥
निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ॥८७॥
जले वापि स्थले वापि यः कुर्यादघमर्ष णम् ॥
तस्याघौघो विनश्येत यथा सूर्योदये तमः ॥८८॥
गायत्रीं शिरसा हीनां महाव्याहृतिपूर्व्विकाम् ॥
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदंभोंजलि त्रयम्॥ ८९॥
तेन वज्रोदकेनाशु मंदेहा नाम राक्षसाः ॥
सूर्यतेजः प्रलोपंते शैला इव विवस्वतः ॥९०॥
सहायार्थं च सूर्यस्य यो द्विजो नांजलि त्रयम्॥
क्षिपेन्मंदेहनाशाय सोपि मंदेहतां व्रजेत् ॥९१॥
प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम् ॥
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात् ॥९२॥
काललोपो न कर्त्तव्यो द्विजेन स्वहितेप्सुना॥
अर्द्धोदयास्तसमये तस्माद्वज्रोदकं क्षिपेत् ॥९३॥
विधिनापि कृता संध्या कालातीता ऽफला भवेत् ॥
अयमेव हि दृष्टांतो वंध्यास्त्रीमैथुनं यथा ॥९४॥
जले वामकरं कृत्वा या संध्याऽऽचरिता द्विजैः ॥
वृषली सा परिज्ञेया रक्षोगणमुदा वहा ॥९५॥
उपस्थानं ततः कुर्याच्छाखोक्तविधिना ततः ॥
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ॥९६॥
दशकृत्वोऽथ देव्यै च कुर्यात्सौ रीमुपस्थितिम् ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥९७॥
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ॥
रक्तचंदनमिश्राभिरद्भिश्च कुसुमैः कुशैः ॥९८॥
वेदोक्तैरागमोक्तैर्वा मंत्रैरर्घं प्रदापयेत् ॥
अर्चितः सविता येन तेन त्रैलोक्यमर्च्चितम् ॥९९॥
अर्चितः सविता दत्ते सुतान्पशुव सूनि च ॥
व्याधीन्हरेद्ददात्यायुः पूरयेद्वांछितान्यपि ॥१००॥
अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ॥
रविर्हिरण्यरूपोऽसौ त्रयीरूपोऽयमर्यमा ॥१०१॥
ततस्तु तर्पणं कुर्यात्स्वशाखोक्तविधानतः ॥
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ॥१०२॥
चंदनागुरुकर्प्पूरगंधव त्कुसमैरपि ॥
तर्पयेच्छुचिभिस्तोयैस्तृप्यंत्विति समुच्चरेत् ॥३॥
सनकादीन्मनुष्यांश्च निवीती तर्पयेद्यवैः ॥
अंगुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ॥४॥
कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्प्पयेत् ॥
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ॥५॥
रवौ शुक्ले त्रयोदश्यां सप्तम्यां निशि संध्ययोः ॥
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्प्पणम् ॥६॥
यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ॥
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ॥७॥
ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वान्पितॄन्मुदा ॥
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ॥८॥
एकैकमंजलिं देवा द्वौद्वौ तु सनकादिकाः ॥
पितरस्त्रीन्प्रवांछंति स्त्रिय एकैकमंजलिम् ॥९॥
अंगुल्यग्रेण वै दैवमार्षमंगुलिमूलगम् ॥
ब्राह्ममंगुष्ठमूले तु पाणिमध्ये प्रजापतेः ॥११०॥
मध्येंगुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ॥
आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः ॥११॥
तृप्यंतु सर्व्वे पितरो मातृमातामहादयः ॥
अन्ये च मंत्राः प्रोक्ता ये वेदोक्ताः पुराणसंभवाः ॥१२॥
सांगं च तर्प्पणं कुर्यात्पितॄणां च सुखप्रदम् ॥
अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ॥१३॥
श्रुत्यभ्यासः पंचधा स्यात्स्वीकारोऽर्थविचारणम् ॥
अभ्यासश्च तपश्चापि शिष्येभ्यः प्रतिपादनम् ॥१४॥
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ॥
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां नृपोत्तम ॥१५॥
अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ॥
शौचाचमनमादाय भक्षयेद्दन्तधावनम् ॥१६॥
विशोध्य सर्वगात्राणि प्रातःसंध्यां समाचरेत् ॥
वेदार्थानधिगच्छेद्वै शास्त्राणि विविधान्यपि ॥१७॥
अध्यापयेच्छुचीञ्छिष्यान्हितान्मे धासमन्वितान् ॥
उपेयादीश्वरं चापि योगक्षेमादिसिद्धये ॥१८॥
ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ॥
स्नात्वा माध्याह्निकीं संध्या मुपासीत विचक्षणः ॥१९॥
देवतां परिपूज्याथ नैमित्तिकं विधिं चरेत् ॥
पवनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ॥१२०॥
निष्पावान्को द्रवान्माषान्कलापांश्चणकांस्त्यजेत् ॥
तैलपक्वमपक्वान्नं सर्वं लवणयुक्त्यजेत् ॥२१॥
आढक्यन्नं मसूरान्नं वर्तुलधान्यसंभवम् ॥
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् औ। २२॥
दर्भपाणिः समाचम्य प्राणायामं विधाय च ॥
पृषोदिवीति मंत्रेण पर्य्युक्षणमथाचरेत् ॥२३॥
प्रदक्षिणं च पर्युक्ष्य द्विः परिस्तीर्य वै कुशान् ॥
रापोर्द्ध (?) देवमन्त्रेण कुर्याद्वह्निं स्वसंमुखे ॥२४॥
वैश्वानरं समभ्यर्च्य गन्धपुष्पाक्षतैस्तथा ॥
स्वशाखोक्तप्रकारेण होमं कुर्याद्विचक्षणः ॥२५॥
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ॥
यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षकाः ॥२६॥
अतिथिः पांथिको ज्ञेयोऽनूचानः श्रुतिपारगः ॥
मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ॥२७॥
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ॥
अत्रार्थिनि समायाते पात्रापात्रं न चिंतयेत् ॥२८॥
शुनां च पतितानां च श्वपचां पापरोगिणाम् ॥
काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ॥२९॥
ऐन्द्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ॥
प्रतिगृह्णंत्विमं पिंडं काका भूमौ मयार्पितम् ॥१३०॥
इत्थं भूत बलिं कृत्वा कालं गोदोहमात्रकम् ॥
प्रतीक्ष्यातिथिमायातं विशद्भोज्यगृहं ततः ॥३१॥
अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ॥
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ॥३२॥
भोजयेत्पितृयज्ञार्थं दद्यादुद्धत्य वारि च ॥
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ॥३३॥
दक्षिणारहितं त्वेतद्दातृभोक्तृसुतृप्तिकृत् ॥
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ॥३४॥
अदुष्टासनमध्यास्य भुंजीत शिशुभिः सह ॥
सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः ॥३५॥
प्रागास्य उदगास्यो वा भुंजीत पितृसेवितम् ॥
विधायान्नमनग्नं तदुपरिष्टादधस्तथा ॥३६॥
आपोशानविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ॥
भूमौ बलित्रयं कुर्यादपो दद्यात्तदोपरि ॥३७॥
सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपंचकम् ॥
दद्याजठरकुंडाग्नौ दर्भपाणिः प्रसन्नधीः ॥३८॥
दर्भपाणिस्तु यो भुंक्ते तस्य दोषो न विद्यते ॥
केशकीटादिसंभूतस्तदश्नीयात्सदर्भकः ॥३९॥
ततो मौनेन भुञ्जीत न कुर्याद्दंतघर्षणम् ॥
प्रक्षालितव्यहस्तस्य दक्षिणांगुष्ठमूलतः ॥१४०॥
रौरवेऽपुण्यनि लये अधोलोकनिवासिनाम् ॥
उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ॥४१॥
पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ॥
मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ॥४२॥
अतिवाह्य दिवाशेषं ततः संध्यां समाचरेत् ॥
गृहेषु प्राकृता संध्या गोष्टे दशगुणा स्मृता ॥४३॥
नद्यामयुतसंख्या स्यादनंता शिवसन्निधौ ॥
अनृतं मद्यगन्धं च दिवामैथुनमेव च ॥
पुनाति वृषलस्थानं संध्या बहिरुपासिता ॥४४॥
उद्देशतः समाख्यात एष नित्यतनो विधिः ॥
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित् ॥१४५॥  
इति श्रीस्कांदे महापुराण एकाशीतिसाहरुया संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारवर्णनंनाम पंचमोऽध्यायः ॥५॥छ ॥

N/A

References : N/A
Last Updated : November 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP