धर्मारण्य खण्डः - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


व्यास उवाच ॥
उपकाराय साधूनां गृहस्थाश्रमवासिनाम् ॥
यथा च क्रियते धर्मो यथावत्कथयामि ते ॥१॥
वत्स गार्हस्थ्यमास्थाय नरः सर्वमिदं जगत् ॥
पुष्णाति तेन लोकांश्च स जयत्यभिवांछितान् ॥२॥
पितरो मुनयो देवा भूतानि मनुजास्तथा ॥
क्रिमिकीटपतंगाश्च वयांसि पितरोऽसुराः ॥३॥
गृहस्थमुपजीवंति ततस्तृप्तिं प्रयांति च ॥
मुखं वास्य निरीक्षंते अपो नो दास्यतीति च ॥४॥
सर्वस्याधारभूता ये वत्स धेनुस्त्रयीमयी ॥
अस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ॥५॥
ऋक्पृष्ठासौ यजुःसंध्या सामकुक्षिपयोधरा ॥
इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ॥६॥
शांति पुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता ॥
उपजीव्यमाना जगतां पदक्रमजटाघनैः ॥७॥
स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ॥
हन्तकारस्तथै वान्यस्तस्याः स्तनचतुष्टयम् ॥८॥
स्वाहाकारस्तनं देवाः पितरश्च स्वधामयम् ॥
मुनयश्च वषट्कारं देवभूतसुरेश्वराः ॥९॥
हन्तकारं मनुष्याश्च पिबंति सततं स्तनम् ॥
एवमध्यापयेदेव वेदानां प्रत्यहं त्रयीम् ॥१०॥
तेषामुच्छेदकर्त्ता यः पुरुषोऽनंतपापकृत् ॥
स तमस्यंधतामिस्रे नरके हि निमज्जति ॥११॥
यस्त्वेनां मानवो धेनुं स्वर्वत्सैरमरादिभिः ॥
पूजयत्युचिते काले स स्वर्गायोपपद्यते ॥१२॥
तस्मात्पुत्र मनुष्येण देवर्षि पितृमानवाः ॥
भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ॥१३॥
तस्मात्स्नातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् ॥
यज्ञस्यांते तथैवाद्भिः काले कुर्यात्समाहितः ॥१४॥
सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः ॥
ततोग्नेस्तर्पणं कुर्याद्द्याच्चापि बलींस्तथा ॥१५॥
नक्तंचरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ॥
पितॄणां निर्वपेत्तद्वद्दक्षिणाभिमुखस्ततः ॥१६॥
गृहस्थस्तत्परो भूत्वा समाहितमानसः ॥
ततस्तोयमुपादाय तेष्वेवार्पण सत्क्रियाम् ॥१७॥
स्थानेषु निक्षिपेत्प्राज्ञो नाम्ना तूदिश्य देवताः ॥
एवं बलिं गृहे दत्त्वा गृहे गृहपतिः शुचिः ॥१८॥
आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ॥
मुहूर्तस्याष्टमं भागमुदीक्षेतातिथिं ततः ॥१९॥
अतिथिं तत्र संप्राप्तमर्घ्यपाद्योदकेन च ॥
बुभुक्षुमागतं श्रांतं याचमानमकिंचनम् ॥२०॥
ब्राह्मणं प्राहुरतिथिं संपूज्य शक्तितो बुधैः ॥
न पृछेत्तत्राचरणं स्वाध्यायं चापि पंडितः ॥२१॥
शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ॥
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥२२॥
तस्मै दत्त्वा तु यो भुंक्ते स तु भुंक्तेऽमृतं नरः ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रति निवर्तते ॥२३॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
अपि वा शाकदानेन यद्वा तोयप्रदानतः ॥
पूजयेत्तं नरः भक्त्या तेनैवातो विमुच्यते ॥२४॥
॥ युधिष्ठिर उवाच ॥
विवाहा ब्राह्मदैवार्षाः प्राजापत्यासुरौ तथा ॥
गांधर्वो राक्षसश्चापि पैशाचोष्टम उच्यते ॥२५॥
एतेषां च विधिं ब्रूहि तथा कार्यं च तत्त्वतः ॥
गृहस्थानां तथा धर्मान्ब्रूहि मे त्वं विशेषतः ॥२६॥
॥ पराशर उवाच ॥
स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता ॥
दीयते तत्सुतः पूयात्पुरुषानेकविंशतिम् ॥२७॥
यज्ञस्थायर्त्विजे दैवस्तज्जः पाति चतुर्दश ॥
वरादादाय गोद्वन्द्वमार्षस्तज्जः पुनाति षट् ॥२८॥
सहोभौ चरतां धर्मं प्राजापत्यः स ईरितः ॥
वरवध्वोः स्वेच्छय्रा च गांधर्वोऽन्योन्यमैत्रतः ॥
प्रसह्य कन्याहरणाद्राक्षसो निन्दितः सताम् ॥२९॥
छलेन कन्याहरणात्पैशाचो गर्हितोऽष्टमः ॥
प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः ॥३०॥
अष्टमस्त्वेष पापिष्ठः पापिष्ठानां च संभवः ॥
सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः ॥३१॥
प्रतोदो वैश्यया धार्यो वासोंतः शूद्रया तथा ॥
असवर्णा स्वेष विधिः स्मृतौ दृष्टश्च वेदने ॥३२॥
सवर्णाभिस्तु सर्वाभिः पाणिर्ग्राह्यस्त्वयं विधिः ॥
धर्म्ये विवाहे जायंते धर्म्याः पुत्राः शतायुषः ॥३३॥
अधर्म्याद्धर्म्मरहिता मंदभाग्यधनायुषः ॥
कृतकालाभिगमने धर्मोयं गृहिणः परः ॥३४॥
स्त्रीणां वरमनुस्मृत्य यथाकाम्यथवा भवेत् ॥
दिवाभिगमनं पुंसामनायुष्यं परं मतम् ॥३५॥
श्राद्धार्हः सर्वपर्वाणि न गंतव्यानि धीमता ॥
तत्र गछन्स्त्रियं मोहार्द्धर्मात्प्रच्यवते परात् ॥३६॥
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः ॥
स सदा ब्रह्मचारी हि विज्ञेयः स गृहाश्रमी ॥३७॥
आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्र शस्यते ॥
शुल्कमण्वपि कन्यायाः कन्याविक्रयपापकृत् ॥३८॥
अपत्यविक्रयात्कल्पं वसेद्विट्कृमिभोजने ॥
अतो नाण्वपि कन्याया उपजीव्यं नरैर्धनम् ॥३९॥
तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा ॥
वाणिज्यं नीचसेवा च वेदानध्ययनं तथा ॥४०॥
कुविवाहः क्रियालोपः कुले पतनहेतवः ॥
कुर्याद्वैवाहिके चाग्नौ गृह्यकर्म्मान्वहं गृही ॥४१॥
पञ्चयज्ञक्रियां चापि पक्तिं दैनंदिनीमपि ॥
गृहस्थाश्रमिणः पञ्चसूनाकर्म दिनेदिने ॥४२॥
कुण्डनी पेषणी चुल्ली ह्युदकुम्भी तु मार्जनी ॥
तासां च पंचसूनानां निराकरणहेतवः ॥
क्रतवः पंच निर्द्दिष्टा गृहिश्रेयोभिवर्द्धनाः ॥४३॥
पठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृक्रतुः ॥
होमो दैवो बलिर्भौत आतिथ्यं नृक्रतुः क्रमात् ॥४४॥
वैश्वदेवांतरे प्राप्तः सूर्योढो वातिथिः स्मृतः ॥
अतिथेरादितोप्येते भोज्या नात्र विचारणा ॥४५॥
पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही ॥
अदत्त्वान्नं च यो भुंक्ते केवलं स्वोदरंभरिः ॥४६॥
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः ॥
सर्वे ते वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ॥४७॥
अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ॥
इह लोकेन्नहीनाः स्युः काकयोनिं व्रजंत्यथो ॥४८॥
वेदोक्तं विदितं कर्म्म नित्यं कुर्यादतंद्रितः ॥
यदि कुर्याद्यथाशक्ति प्राप्नुयात्सद्गतिं पराम् ॥४९॥
षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि ॥
चतुर्दश्यां पञ्चदश्यां तथैव च क्षुरे भगे ॥५०॥
उदयन्तं न वीक्षेत नास्तं यंतं न मस्तके ॥
न राहुणोपस्पृष्टं च नांडस्थं वीक्षयेद्रविम् ॥५१॥
न वीक्षेतात्मनो रूपमप्सु धावेन्न कर्दमे ॥
न नग्नां स्त्रियमीक्षेत न नग्नो जलमाविशेत् ॥५२॥
देवतायतनं विप्रं धेनुं मधु मृदं तथा॥
जातिवृद्धं वयोवृद्धं विद्यावृद्धं तथैव च ॥५३॥
अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम्॥
सिद्धान्नं दधिसिद्धार्थं गच्छन्कुर्यात्प्रदक्षिणम् ॥५४॥
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ॥
एकवासा न भुञ्जीत न भुञ्जीतोत्कटासने ॥५५॥
नाशुचिं स्त्रियमीक्षेत तेज स्कामो द्विजोत्तमः ॥
असंतर्प्य पितॄन्देवान्नाद्यादन्नं च कुत्रचित् ॥५६॥
पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः ॥
न मूत्रणं व्रजे कुर्यान्न वल्मी के न भस्मनि ॥५७॥
न गत्तेंषु ससत्त्वेषु न तिष्ठन्न व्रजन्नपि ॥
ब्राह्मणं सूर्यमग्निं च चंद्रऋक्षगुरूनपि ॥५८॥
अभिपश्यन्न कुर्वीत मलमूत्रविसर्ज नम्॥
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम् ॥५९॥
नांघ्री प्रतापयेदग्नौ न वस्तु अशुचि क्षिपेत् ॥
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्य योर्द्वयोः ॥६०॥
न संविशेच्च संध्यायां प्रातः सायं क्वचिद्बुधः ॥
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ॥६१॥
नैकः सुप्यात्क्वचिच्छून्ये न शयानं प्रबोधयेत् ॥
पंथानं नैकलो यायान्न वार्य्यंजलिना पिबेत् ॥६२॥
न दिवोद्धृतसारं च भक्षयेद्दधि नो निशि ॥
स्त्रीधर्मिणी नाभिवदेन्नाद्यादातृप्ति रात्रिषु ॥६३॥
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत् ॥
श्राद्धं कृत्वा परश्राद्धे योऽश्नीयाज्ज्ञानवर्जितः ॥६४॥
दातुः श्राद्धफलं नास्ति भोक्ता किल्बिषभुग्भवेत् ॥
न धारयेदन्यभुक्तं वासश्चोपानहावपि ॥६५॥
न भिन्नभाजनेऽश्नीयान्नासीताग्न्यादिदूषिते ॥
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तटम् ॥६६॥
बालातपं दिवास्वापं त्यजेद्दीर्घं जिजीविषुः ॥
स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि ॥६७॥
हस्तौ शिरो न धुनुयान्नाकर्षेदासनं पदा ॥
करेण नो मृजेद्गात्रं स्नानवस्त्रेण वा पुनः ॥६८॥
शुनोच्छिष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥
नोत्पाटयेल्लोमनखं दशनेन कदाचन ॥६९॥
करजैः करजच्छेदं विवर्जयेच्छुभाय तु॥
यदायत्यां त्यजेत्तन्न कुर्यात्कर्म प्रयत्नतः ॥७०॥
अद्वारेण न गन्तव्यं स्ववेश्मापि कदाचन॥
क्रीडेन्नाज्ञैः सहासीत न धर्म्मघ्नैर्न रोगिभिः ॥७१॥
न शयीत क्वचिन्नग्नः पाणौ भुंजीत नैव च ॥
आर्द्रपादकरास्योऽश्नन्दीर्घकालं न जीवति ॥७२॥
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ॥
शयनस्थो न चाश्नीयान्न पिबेच्च जलं द्विजः ॥७३॥
सोपानत्को नोपविशेन्न जलं चोत्थितः पिबेत् ॥
सर्व्वमम्लमयं नाद्यादारोग्यस्याभिलाषुकः ॥७४॥
न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः ॥
नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः ॥७५॥
पतितैः सह संवासः पतनायैव जायते ॥
दद्यादासनं मंचं न शूद्राय कदाचन ॥७६॥
ब्राह्मण्याद्धीयते विप्रः शूद्रो धर्माच्च हीयते ॥
धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत् ॥७७॥
द्विजशुश्रूषणं धर्म्मः शूद्राणां हि परो मतः ॥
कण्डूयनं हि शिरसः पाणिभ्यां न शुभं मतम् ॥७८॥
आदिशेद्वैदिकं मंत्रं न शूद्राय कदाचन ॥
ब्राह्मण्या दीयते विप्रः शूद्रो धर्म्माच्च हीयते ॥७९॥
आताडनं कराभ्यां च क्रोशनं केशलुंचनम् ॥
अशास्त्रवर्तनं भूयो लुब्धात्कृत्वा प्रतिग्रहम् ॥८०॥
ब्राह्मणः स च वै याति नरकानेकविंशतिम् ॥
अकालमेघस्तनिते वर्षर्तौ पांसुवर्षणे ॥८१॥
महाबालध्वनौ रात्रावनध्यायाः प्रकीर्तिताः ॥
उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु ॥८२॥
मध्ययोर्वृषलोपान्ते राज्यहारे च सूतके ॥
दशाष्टकासु भूतायां श्राद्धाहे प्रतिपद्यपि ॥८३॥
पूर्णिमायां तथाष्टम्यां विड्वरे राष्ट्रविप्लवे ॥
उपाकर्मणि चोत्सर्गे कल्पादिषु युगादिषु ॥८४॥
आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ ॥
अनध्यायेषु चैतेषु चाधीयीत न वै क्वचित् ॥८५॥
भूताष्टम्योः पञ्चदश्योर्ब्रह्मचारी सदा भवेत् ॥
अनायुष्यकरं चेह परदारोपसर्पणम् ॥
तस्मात्तद्दूरतस्त्याज्य वैरिणां चोपसेवनम् ॥८६॥
पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत् ॥
सदोद्यमवतां यस्माच्छ्रियो विद्या न दुर्लभाः ॥८७॥
सत्यं ब्रूयात्प्रियं बूयान्न ब्रूयात्सत्यमप्रियम् ॥
प्रियं च नानृतं ब्रूयादेष धर्मो विधीयते ॥८८॥
वाचोवेगं मनावेगं जिह्वावेगं च वर्ज येत् ॥
गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत ॥८९॥
पादधौतोदकं मूत्रमुच्छिष्टान्युदकानि च ॥
निष्ठीवनं च श्लेष्माणं दूराद्दूरं विनिः क्षिपेत ॥९०॥
अहर्न्निशं श्रुतेर्जाप्याच्छौचाचारनिषेवणात ॥
अद्रोहवत्या बुद्ध्या च पूर्वजन्म म्मरेद्द्विजः ॥९१॥
वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम ॥
विनम्रकन्धरो भूयादनुयायात्ततश्च तान् ॥९२॥
श्रुतिभूदेवदेवानां नृपसाधुतपस्विनाम् ॥
पतिव्रतानां नारीणां निन्दां कुर्यान्न कर्हि चित ॥९३॥
उद्धृत्य पञ्चमृत्पिंडान्स्नायात्परजलाशये ॥
श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु ॥९४॥
देशे काले च विधिना तदानंत्याय कल्पते ॥
भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः ॥९५॥
तोयदाता सुरूपः स्यात्पुष्टश्चान्नप्रदो भवेत ॥
प्रदीपदो निर्मलाक्षो गोदातार्यमलोक भाक् ॥९६॥
स्वर्णदाता च दीर्घायुस्तिलदः स्याच्च सुप्रजः ॥
वेश्मदोऽत्युच्चसौधेशो वस्त्रदश्चन्द्रलोकभाक् ॥९७॥
हयप्रदो दिव्यदेहो लक्ष्मीवान्वृषभ प्रदः॥
सुभार्यः शिबिकादाता सुपर्यंकप्रदोऽपि च ॥९८॥
श्रद्धया प्रतिगृह्णाति श्रद्धया यः प्रयच्छति ॥
स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्रया त्वधः ॥९९॥
अनृतेन क्षरेद्यज्ञस्तपो विस्मयतः क्षरेत् ॥
क्षरेत्कीर्तिर्विनादानमायुर्विप्रापमानतः ॥१००॥
गंधं पुष्पं कुशा गावः शाकं मांसं पयो दधि ॥
मणिमत्स्यगहं धान्यं ग्राह्यमेतदुपस्थितम् ॥१०१॥
मधूदकं फलं मूलमेधांस्यभयदक्षिणा ॥
अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः ॥१०२॥
दासनापितगोपालकुलमित्रार्द्धसीरिणः ॥
भोज्यान्नाः शूद्रवर्गेमी तथात्मविनिवेदकः ॥१०३॥
इत्थमाचारधर्मोयं धर्मारण्यनिवासिनाम् ॥
श्रुतिस्मृत्युक्तधर्मोऽयं युधिष्ठिर निवेदितः ॥१०४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारलक्षणवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP