आचारकाण्डः - अध्यायः १
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥ श्रीगणाधिपतये नमः ॥
॥सरस्वत्यैनमः ॥
अथ श्रीगरुडमहापुराणं प्रारभ्यते ॥
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ॥
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥१॥
ॐ अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ॥
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥१॥
नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ॥
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥२॥
सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ॥
विण्णुभक्तं महात्मानं नैमिषारण्यमागतम् ॥३॥
तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ॥
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥४॥
शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ॥
मुनयो रविसङ्काशाः शान्ता यज्ञपरायणाः ॥५॥
ऋषय: ऊचुः ॥
सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ॥
देवतानां हि को देव ईश्वरः पूज्य एव कः ॥६॥
को ध्येयः को जगत्स्रष्टा जगत्पाति च हन्ति कः ॥
कस्मात्प्रवर्त्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥७॥
तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ॥
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥८॥
अवताराश्च के तस्य कथं वंशादिसम्भवः ॥
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्त्तकः ॥९॥
एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! ॥
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥१०॥
सूत उवाच ॥
पुराणं गारुडं वक्ष्ये सारं विष्णुकथाश्रयम् ॥
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥११॥
एको नारायणो देवो देवानामीश्वरेश्वरः ॥
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥१२॥
जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः ॥
स कुमारादिरूपेण अवतारान्करोत्यजः ॥१३॥
हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ॥
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्य्यमखण्डितम् ॥१४॥
द्वितीयं तु भवायास्य रसातलगतां महीम् ॥
उद्धरिष्यन्नुपादत्ते यज्ञेशः शौकरं वपुः ॥१५॥
तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ॥
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥१६॥
नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः ॥
धर्मसंरक्षणार्थाय पूजितः स सुरासुरैः ॥१७॥
पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ॥
प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम् ॥१८॥
षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया ॥
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥१९॥
ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत ॥
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥२०॥
अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ॥
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥२१॥
ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ॥
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ॥२२॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे ॥
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥२३॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ॥
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥२४॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च ॥
आप्यायत्सुरानन्यान्मोहिन्या मोहयस्त्रिया ॥२५॥
चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् ॥
ददार करजैरुग्रैरेरकां कटकुद्यथा ॥२६॥
पञ्चदशं वामनको भूत्वागादध्वरं बलेः ॥
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥२७॥
अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ॥
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ॥२८॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ॥
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥२९॥
नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ॥
समुद्रनिग्रहादीनि चक्रे कार्य्याण्यतः परम् ॥३०॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ॥
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥३१॥
ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् ॥
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥३२॥
अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु ॥
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥३३॥
अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः ॥
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥३४॥
तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना ॥
पुराणं गारुडं व्यासः पुराऽसौ मेऽब्रवीदिदम् ॥३५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP