आचारकाण्डः - अध्यायः २११
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
श्रीगरुडमहापुराणम् २११
सूत उवाच ।
प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः ।
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥१॥
सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि ॥१॥
आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः ॥२॥
द्वितीयेऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे ।
लवली स्यात्तृतीयेऽथ पूर्ववच्चाष्ट काक्षरे ।
प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति ॥३॥
(इति पदचतुरूर्ध्वप्रकरणम्) ।
सजौ सलौ च प्रथमे नसजा गो द्वितीयके ।
तृतीये भनभा गश्च चतुर्थे सजसा जगौ ॥४॥
पूर्ववत्स्यात्सौरभकं तृतीयेऽघ्रौ रनौ भगौ ।
ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ ॥५॥
(इत्युद्गताप्रकरणम्) ।
उपस्थितप्रचुपितं प्रथमेऽघ्रौ मसौ जभौ ।
गौ द्वितीये सनजरा गस्तृतीये ननौ च सः ।
नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत् ॥६॥
तृतीर्येऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ ॥७॥
आर्षभं तजराः पादे तृतीयेऽन्यच्च पूर्ववत् ।
पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत् ॥८॥
(इत्युपस्थितप्रचुपितप्रकरणम्) ।
विषमाक्षरपादं वा पञ्चषट्कादि यावकम् ।
छन्दोऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत् ॥९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणं नामैकादशोत्तरद्विशशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP