आचारकाण्डः - अध्यायः १८१
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।
तथा पयः समायुक्तं चक्षुः शूलहरं परम् ॥१॥
हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला ।
कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम् ॥२॥
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः ।
नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥३॥
समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत् ।
श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥४॥
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् ।
तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः ॥५॥
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता ।
कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः ॥६॥
हरितालं शङ्खचूर्णं कदलीदलभस्मना ।
एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम् ॥७॥
लवणं हरितालञ्च तुम्बिन्याश्च फलानि च ।
लाक्षारससमायुक्तं लोमशातनमुत्तम् ॥८॥
सुधा च हरितालञ्च शङ्खभस्म मनः शिला ।
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥९॥
तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम् ।
शङ्खमामलकं पत्रं धातक्याः कुसुमानि च ॥१०॥
पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे ।
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥११॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकाशीत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP