संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२५

आचारकाण्डः - अध्यायः २२५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
आध्यात्मिकादितापांस्त्रीञ्ज्ञात्व संस्राचक्रवित् ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥१॥

संसारचक्रं वक्ष्येऽहमादाबुत्क्रान्तिकालतः ।
यद्विना पुरुषार्थो न लीनः स्यात्परमात्मनि ॥२॥

ऊर्ध्ववासी नरस्त्यक्त्वा देहमन्यत्प्रपद्यते ।
नीयतेद्वादशाहेन यमस्य यमपूरुषैः ॥३॥

तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह ।
यच्च पिण्डं प्रयच्छन्ति यमलोके तदश्नुते ॥४॥

गतश्च नरकं पापात्स्वर्गं याति स्वपुण्यतः ।
पापकृद्याति नरकं पुण्यकृद्याति वै दिवम् ॥५॥

स्वर्गाच्च नरकात्त्यक्तः स्त्रीणां गर्भे भवत्यपि ।
नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥६॥

कललं बुद्ब्रुदमयं ततः शोणितमेव च ।
पेश्याः पलसमोऽण्डः स्यादङ्कुरं तत उच्यते ॥७॥

उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च ।
आवहं याति चाङ्गेभ्यस्तत्परन्तु नखादिकम् ॥८॥

त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् ।
नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥९॥

ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी ।
बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥१०॥

ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः ।
एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥११॥

नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते ।
पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥१२॥

नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः ।
उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥१३॥

तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।
गर्दभोजायते जन्तुर्मित्रस्यैवापमानकृत् ॥१४॥

पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते ।
भुर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥१५॥

सोऽपि मोहसमापन्नो जायते वानरो मृतः ।
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥१६॥

असूयकश्च नरकान्मुक्तो भवति राक्षसः ।
विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥१७॥

यवधान्यानि संहृत्य जायते मूषको मृतः ।
परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥१८॥

भ्रातृभार्याप्रसंगेन कोकिलो जायते नरः ।
गुर्वादिभार्यागमनाच्छूकरो जायते नरः ॥१९॥

यज्ञदानविवाहानां विघ्नकर्ता भवेत्कृमिः ।
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ॥२०॥

प्रमुक्तो नरकाद्वापि वायसः सन्प्रजायते ।
ज्येष्ठभ्रात्रपमानाच्च क्रौञ्चयोनौ प्रजायते ॥२१॥

शूद्रस्तु ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
तस्यामपत्यमुत्पाद्य काष्ठान्तः कटीको भवेत् ॥२२॥

कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ।
अशस्त्रं पुरुषं हर्ता नरः सञ्जायते खरः ॥२३॥

कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते ।
भोजनञ्चोरयित्वा तु मक्षिका जायते नरः ॥२४॥

हृत्वाज्यञ्चैव मार्जारस्तिलहृच्चैव मूषकः ।
घृतं हृत्वा च नकुलः काको मद्भुरमामिषम् ॥२५॥

मधु हृत्वा नरो दंशपूपं हृत्वा पिपीलिकः ।
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥२६॥

हृते काष्ठे च हारीतः कपोतो वा प्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥२७॥

कार्पासिके हृते क्रौञ्चो वह्रिहर्ता बकस्तथा ।
मयूरो वर्णकं हृत्वा शाकपत्रञ्च जायते ॥२८॥

जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः ।
छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥२९॥

षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः ।
पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥३०॥

शाकहर्ता च हारीतस्तोयहर्ता च चातकः ।
गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥३१॥

तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत् ।
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥३२॥

विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन् ।
असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥३३॥

परनिन्दा कृतघ्नत्वं परसीमाभिघातनम् ।
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥३४॥

परस्वहरणाशौचं देवतानां च कुत्सनम् ।
निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः ।
उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥३५॥

दया भूतेषु संवादः परलोकं प्रति क्रिया ।
सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥३६॥

गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः ।
सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः ।
अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥३७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मविपाकादिकथनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP