आचारकाण्डः - अध्यायः १४
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
॥हरिरुवाच ॥
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ॥
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥१॥
तच्छृणुष्व महेशान सर्वपापविनाशनम् ॥
विष्णुः सर्वेश्वरोऽनन्तः षड्भिर्भूपरिवर्जितः ॥२॥
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि ॥
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः ॥३॥
देहधर्म्मविहीनश्च क्षराक्षरविवर्जितः ॥
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥४॥
तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्जितः ॥
मन्ता मनः स्थितो देवो मनसा परिवर्जितः ॥५॥
मनोधर्म्मविहीनश्च विज्ञानं ज्ञानमेव च ॥
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः ॥६॥
बुद्धिधर्म्मविहीनश्च सर्वः सर्वगतो मनः ॥
सर्वप्राणिविनिर्मुक्तः प्राणधर्म्मविवर्जितः ॥७॥
प्राणप्राणो महाशान्तो भयेन परिवर्जितः ॥
अहंकारादिहीनश्च तद्धर्म्मपरिवर्जितः ॥८॥
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः ॥
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः ॥९॥
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः ॥
मुक्तो बुद्धोऽजरो व्यापी सत्य आत्मास्म्यहं शिवः ॥१०॥
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम् ॥
प्राप्नुयुस्ते च तद्रूपं नात्र कार्य्या विचारणा ॥११॥
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत ॥
पठेद्य एतत्सततं विष्णुलोकं स गच्छति ॥१२॥
॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशोऽध्यायः ॥१४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP