आचारकाण्डः - अध्यायः १८६
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
पीतः सारो गुडूच्याश्च मधुना च प्रमेहनुत् ।
पीतं गोहालिकामूलं तिलदध्याज्यसंयुतम् ॥१॥
निरुद्धमूत्रं क्वथितं निवर्तयति शङ्कर ।
तथा हिक्कां हरेत्पीतं सौवर्चलयुतञ्च वै ॥२॥
गोरक्षकर्कटीमूलं पिष्टं शीतोदकेन च ।
पीतं दिनत्रयेणैव नाशयेद्रुद्र शर्कराम् ॥३॥
पिष्ट्वा वै मालतीमूलं ग्रीष्मकाले समाहितम् ।
साधितं छागदुग्धेन पतिं शर्कस्यान्वितम् ।
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥४॥
द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।
गण्डमालां हरेल्लेपादसाध्यं गलगण्डकम् ॥५॥
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् ।
नाशयेत्पुरुषो व्याधीन्नात्र कार्या विचारणा ॥६॥
करवीरमूललेपाद्वै लेपात्पूगफलस्य च ।
पुंव्याधिर्नश्यते रुद्र योगमन्यं वदाम्यहम् ॥७॥
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् ।
भगन्दरविनाशः स्यादन्यं योगं वदाम्यहम् ।
जलौकाजग्धरक्तञ्च भगन्दरमुमापते ॥८॥
त्रिफलाजलघृष्टञ्च मार्जारास्थि विलेपितम् ।
ततो न प्रस्त्रवेद्रक्तं नात्र कार्या विचारणा ॥९॥
हरिद्रानेकवारञ्च स्नुहीक्षीरेण भाविता ।
वटिकार्ऽशोविनाशाय तल्लेपाद्वृषभध्वज ।
घोषाफलं सैन्धवञ्च पिष्ट्वा चार्शोहरं परम् ॥१०॥
गव्याज्यं साधितं पीतं पलाशक्षारवारिणा ।
त्रिगुणेन त्रिकटुकं अर्शांसि क्षपयेच्छिव ॥११॥
बिल्वस्य च फलं दग्धं रक्तार्शः प्रविनाशनम् ।
जग्धवा कृष्णतिलानेव नवनीतयुतानपि ॥१२॥
शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम् ।
अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज ॥१३॥
शुण्ठ्या च क्वथितं वारि पीतं चाग्निं करोति वै ।
हरीतकीं सैन्धवञ्च चित्रकं रुद्र पिप्पली ॥१४॥
चूर्णमुष्णोदकेनैषां पीतं चातिक्षुधाकरम् ।
साज्यं सूकरमांसं वै पीतं चातिक्षुधाकरम् ॥१५॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे षडशीत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP