आचारकाण्डः - अध्यायः १९०
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
हरिरुवाच ।
अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।
पीतञ्चाशु हरत्येव गण्डमालां न संशयः ॥१॥
अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर ।
जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम् ।
शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत् ॥२॥
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली ।
वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत् ॥३॥
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।
तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ ॥४॥
इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः ।
निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥५॥
पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा ।
पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा ॥६॥
कदलीदलक्षारन्तु पानीयेन प्रसाधितम् ।
तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः ॥७॥
कदल्या मूलमादाय गुडाज्येन समन्वितम् ।
अग्निना साधितं जग्धमुदरस्थक्रिमीन्हरेत् ॥८॥
नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।
प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥९॥
हरीतकीविडङ्गञ्च हरिद्रा सितसर्षपाः ।
सोमराजस्य मूलानि करञ्जस्य च रौन्धवम् ।
गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि वै ॥१०॥
एकश्च त्रिफलाभागस्तथा भागद्वयं शिवा ।
सोमराजस्य बीजानां जग्धं पथ्येन दद्रुनुत् ॥११॥
अम्लतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।
कांस्यघृष्टं खरं लेपात्कुष्ठदद्रुविनाशनम् ॥१२॥
हरिद्रा हरितालश्च दूर्वागोमूत्रसैन्धवम् ।
अयं लेपो हन्ति दद्रुं पामानं च गरं तथा ॥१३॥
सोम राजस्य बीजानि नवनीतयुतानि च ।
मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै ।
तक्रान्नपानतो रुद्र नात्र कार्या विचारणा ॥१४॥
श्वेतापरा जितामूलं वर्तितं चास्य वारिणा ।
तल्लेपो रुद्र मासेन शुक्लकुष्ठविनाशनः ॥१५॥
माहिषं नवनीतञ्च सिन्दूरं समरीचकम् ।
पामा विलेपनान्नश्येद्दुर्नामा वृषभध्वज ॥१६॥
विशुष्कगाम्भारीमूलं पक्वं क्षीरेण संयुतम् ।
भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ॥१७॥
मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै ।
पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति ॥१८॥
कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा ।
रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः ।
तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ॥१९॥
कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः ।
जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि ॥२०॥
माहिषेण पुरीषेण वेष्टिता वृषभध्वज ।
अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर ॥२१॥
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् ।
तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान् ॥२२॥
मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया ।
अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च ।
सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥२३॥
युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च ।
तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका ॥२४॥
दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति ।
काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत् ॥२५॥
मधुयष्टी शर्करा च वासकस्य रसो मधु ।
एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥२६॥
रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु ।
प्रातः काले तोयपानात्पीनसं दारुणं हरेत् ॥२७॥
बिभीतकस्य वै चूर्णं पिप्पल्याः सैन्धवस्य च ।
पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ॥२८॥
चूर्णमामलकं सेव्यं पीतं गव्यपयोऽन्वितम् ।
मनः शिला बलामूलं कोलपण च गुग्गुलुः ॥२९॥
जातिपत्रं कोलपत्रं तथा चैव मनः शिला ।
एभिश्चैव कृता वर्तिर्बदर्यग्नौ महेश्वर ।
धूमपानं कासहरं नात्र कार्या विचारणा ॥३०॥
त्रिफलापिप्पलीचूर्णं भक्षितं मधुनायुतम् ।
भोजनादौ हि समधु पिपासाज्व(त्व)रितं हरेत् ॥३१॥
बिल्वमूलञ्च समधुगुडूचीक्वथितं जलम् ।
पीतं हरेच्च त्रिवधं छर्दिं नैवात्रसंशयः ।
पीता दूर्वा छर्दिनुत्स्यात्पिष्टातण्डुलवारिणा ॥३२॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवत्यधिकशततमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP